________________ 176 व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [14 कारिकाव्याख्यायो (न्या० ३म० आ० 2580) इति न्यायादनादितैव सिद्धयति / यद् यच्च कार्य रूपं. दृश्यते तस्य तस्य कारणात्मकत्वे रागादयोऽपिप्रकृता स्वीकतव्याः स्युः, तथा च सैव बुद्धिर्न प्रकृतिः, भावाष्टकसम्पन्नत्वात् / स्थूलतामपहाय सूक्ष्मतया ते तत्र स. न्तीति चेत् , चैतन्यमपि तथा भविष्यति / तथाप्यसिद्धो हेतुः, तथा सति घटादी. नामपि चैतन्यप्रसङ्गस्तादात्म्यादिति चेद् ? रागादिमत्त्वप्रसङ्गोऽपि दुर्वारः / सौ म्यं च समानमिति / तस्माद्, यजातीयात् कारणाद् यज्जातीयं कार्य दृश्यते, तथाभूतात् तथाभूतमात्रमनुमातव्यं,न तु यावद्धर्मकं कारणं तावद्धर्मकं कार्य व्य बोधनी। च जायमानस्यास्मिन् जन्मनि न सम्भवतीति तदर्थ भावान्तरमास्थयम् / एवं पूर्वेष्वपि भावे. वित्यनादित्वमेव कर्तुः सिध्यति / तदाह सूत्रकारो 'वीतरागजन्मादर्शनात्! (न्या० सू० 3.1.25) इति / अवचेतनकार्यत्वं बुद्धेः, तथापि तस्याश्चैतन्यं, तच्चैतन्ये कारणचैतन्य च न प्रसज्यत इत्यनिष्टप्रसङ्गमुखेन दर्शयति-यद्यत्-इति / यदि यावद्धर्मकं कारणं तावद्धर्मक कार्यमिति स्यात्तर्हि बुद्धश्चैतन्यवद्रागादयोऽपि न स्युः, भावे वा प्रकृतावपि स्युः ; तत्र कार. णात्मकत्वमिति कारणधर्मत्वं विवक्षितमिति सन्तु रागादयः प्रकृतावित्यत आह-तथा चइति / एवकारो भिन्नक्रमः / सा प्रकृतिबुद्धिरेव स्यात् , न तु प्रकृतिः। भावाष्टकसम्पन्नत्वं हि बुद्धिलक्षणमिति / स्थूलरूपताम्-इति / प्रतीयमानभावाष्टकसंपत्तिर्बुद्धेर्लक्षणम् / प्रकृतौ तु रागादयः सूक्ष्मरूपाः, ततो नोक्तदोष इति / तर्हि रागादिवच्चैतन्यमपि प्रकृतौ सूक्ष्मरूपमभ्युः पगम्यतामित्याह-चैतन्यमपि-इति / ततः किमित्यत आह-तथापि-इति / एवमप्यचेतनकार्यत्वादिति हेतुर्विशेषणासिद्धः, सूक्ष्मचैतन्ययोगिप्रकृतिकार्यत्वादिति / ननु प्रकृतेश्चैतन्याभ्यु. पगमे तत्कार्याणां घटादीनामपि तथात्वप्रसङ्गः कार्यकारणयोस्तादात्म्यात् तथा चाचेतनकार्यत्वं सिद्धमित्याह-तथा सति-इति / तर्हि प्रकृतौ रागाद्यङ्गीकारे घटादीनामपि तथावप्रसङ्ग इत्याह-रागादिमत्त्व-इति / घटादिष्वपि रागादयः सन्त्येव, सूक्ष्मत्वान्नोपलभ्यन्त इत्य. त्राह-सौम्यं च-इति / तर्हि चैतन्यमपि घटादिषु सदैव सूक्ष्मत्वान्नोपलभ्यत इति वक्तुं शक्यत इति / यद्वा, प्रकृतौ रागादेः सूक्ष्मत्वान्न घटादौ तत्प्रसङ्ग इत्याशङ्कय तत्र सूक्ष्मचैतन्याभ्युपगमेऽपि न घटादौ चैतन्यप्रसङ्ग इत्याह-सौम्यम्-इति / यत एवं प्रसङ्गः तस्मात् कार्यकारणयोरेवं व्यवस्था न स्वनेवमित्याह-तस्मात्-इति / व्यभिचारात् कारणेष्वसतामेव धर्माणां कार्येषु दर्शनात् सतामेव चादर्शनादिति / प्रकृतमनुसरामः, किमनेन कार्यकारणयोः प्रकाशः। त्ती रागजनकेष्टसाधनताज्ञानाधीनेति तदनुमानार्थ जन्मान्तरानुभूतव्याप्तिस्मरणमावश्यकमेवं तत्पू. वजन्मनीत्यनादितेत्यर्थः / यद्यदिति / यथा प्रकृतौ रागायभावेऽपि तत्कार्यबुद्धौ रागादिस्तथा प्रकृतेरचैतन्येऽपि सा चेतना स्यादित्यर्थः / तथा चेति / प्रकृतौ रागादिस्वीकारे तद्भिनबुद्धितत्त्व एव मानाभावाद् इत्यर्थः / तथेति / प्रकृतावपि सूक्ष्मं चैतन्यमित्यर्थः / प्रसिद्ध इति / अचे. तनकार्यस्वादित्यत्र विशेषणासिद्धरित्यर्थः।। तथा सतीति / बुद्धेश्चैतन्ये तज्जन्यघटादेरपि तत् स्यादित्यर्थः / रागादीति / घटादे रागादिमबुद्धिजन्यस्वादित्यर्थः / सौरम्यं चेति / घटादौ रागादेरिव चैतन्यस्यापि सूक्ष्मत्वा दित्यर्थः। कारणात्मकत्वम् / धर्मधर्मिणोंस्तादान्म्यात् /