________________ प्रथमस्तवके ] - अपूर्वस्य चेतनधर्मत्वव्यवस्थापनम् / 175 कृतिसामानांधिकरण्यव्यवस्थितास्तावद्धर्मादयोनियामका इति व्यवस्थितम्। चेतनोऽपि कतैव कृतिचैतन्ययोःसामानाधिकरण्येनानुभवात् / न चायं भ्रमो, बा. धकाभावात् / परिणामित्वाद् घटादिवदिति बाधकमिति चेत् / न / कर्तृत्वेऽपि समानत्वात् / तथा च कृतिरपि भाविकी महतो न स्यात् / दृष्टत्वादयमदोष इति चेत् , तुल्यम् / अचेतनाकार्यत्वं बाधकं, कार्यकारणयोस्तादात्म्यादिति चेद, न / मसिद्धः / न हि कर्तुः कार्यत्वे प्रमाणमस्ति / प्रत्युत “वीतरागजन्मादर्शनात्" बोधनी। वर्गः स्याद् बुद्धिलक्षणोपाधेरनुच्छेदात् , उत्तरत्र तु नानुत्पन्नस्यानित्यत्वमित्यनुत्पत्तिदशाया बुद्धितद्धर्माभावात्संसारप्रागभाव एव पुंसः / ततश्च कदाचिद्भोगः कदाचिन्मुक्तिरिति भोगनियमो नोपपद्येत / पूर्व पुरुषान्तरापेक्षया भोगनियमानुपपत्तिक्ता, इदानीं त्वेकस्यैव कालापेक्षया, तत्रोभयोरपि भोगनियमानुपपत्तित्वाविशेषान्निरस्तमित्युक्तम् / अत्रापि नित्यविभूनामात्मनां सर्वबुद्धिप्राप्त्यविशेषेण बुद्धिनियमाभावात् तदायत्तभोगनियमानुपपत्तिरनुक्तसुलभेति भावः / कृतिसामानाधिकरण्यव्यवस्थिता इति / कर्तृधर्मा इत्यर्थः / इदं त्वस्माभिरुच्यत इत्याह-चेतनोऽपिइति / चैतन्यमपि कर्तु रेवेत्यर्थः / नन्वयमनुभवो भेदाप्रहनिमित्तो भ्रम इत्युक्तं, तत्राह-न चायम्-इति / नन्वस्ति बाधकं परिणामित्वं कर्तुः परिणामित्वादित्याह-न-इति / ततः किमित्यत्त आह-तथा च-इति / प्रयत्नोऽपि बुद्धः स्वाभाविको न स्यादित्यर्थः। शहते-दृष्टः त्वात्-इति / बुद्धेः कृतिसमवायस्य मानसप्रत्यक्षसिद्धत्वात् न परिणामित्वानुमानं कर्तृत्वं बाधत इति / तर्हि कृतिचैतन्ययोः सामानाधिकरण्यस्यापि दृष्टत्वात्कर्तुरचैतन्यानुमानमपि बाधितविषयमित्याह-तुल्यम्-इति / बाधकान्तरमाशहते-अचेतना-इति / अचेतनाया हि प्रकृतेः कार्या बुद्धिः, साऽचेतना स्यात् , चेतनभावे वा प्रकृतेरपि चैतन्यप्रसङ्ग इति भावः / न-इति / कर्तुः कार्यत्वमेवास्माकमसिद्धं, दूरत एवाचेतनकार्यत्वमिति / न परं कार्यत्वे प्रमाणाभावः कि च कार्यत्व एव प्रमाणमस्तीत्याह-प्रत्युत-इति / जायमानाः प्राणिनः तावत्स्तन्यादिषु रागवन्तो दृश्यन्ते, रागश्च सुखसाधनानुमानात् , तदनुमान च तज्जातीयलिङ्गपरामर्शात् , स प्रकाशः। बुद्धयुपधानस्यैव संसारत्वात् / अनित्यत्वे च तदुत्पत्तेः पूर्व प्रकृतेः साधारण्यान्नियामकाभावेन संसाराभाव इत्यर्थः / ननु कर्तुर्बुद्धितत्त्वस्य धर्मा नियन्तार इति साख्याभिमतमेव इत्यत माह / चेतनोऽपोति / चेतनोऽहं करोमीत्यनुभवादित्यर्थः / कर्तृत्वेऽपीति / बुद्धिर्न कृत्याश्रयः परि. णामित्वाद् घटादिवदित्यपि स्यादित्वर्थः / भाविकी स्वाभाविकी / यदि ज्ञानाश्रयस्य कृत्याश्रयत्वेनानुभवात् तद्बाधानानुमानं, तदा चेतनोऽहङ्करोमीत्यनुभवाद् बाधस्तुल्य इति शहोत्तराभ्यामाह / दृष्टत्वादिति / अचेतनायाः प्रकृतेः कार्य बुद्धितत्त्वं, कार्यकारणयोश्च तादा त्म्यमिति चैतन्ये तस्य बाधकमित्याह मचेतनेति / प्रत्युतेति / जातमात्रस्य स्तन्यपाने प्र. प्रकाशिका / / इति चात्र विपक्षबाधकमिति भावः। तदुत्पत्त पूर्वमिति। नियामकधर्मादेस्तदभावेऽभावादित्यर्थः। समानत्वात्=परिणामित्वाद् घटादिवत् इत्यस्थ समानत्वात् / तव चैतन्याभावः, मम कृत्यभावः, साधनीया, ताभ्यां हेतुदृष्टान्तोभयाभ्यामिति भावः / भाविकी स्वाभाविकी। महता=बुद्धः / न स्यादिति। ज्ञानिनः कृत्याश्रयत्वस्येति शेषः। भनुमानस्य बाधितस्वादिति भावः। तुल्यम् शानिनः कृत्याश्रयत्वस्यैव कृत्याश्रयस्य चैतन्याश्रयत्वस्यापि दर्शनं तुल्यमित्यर्थः।