________________ 174 व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जली [14 कारिकावतरणिकायां इन्द्रियप्रणाडिकया परिणतिभेदो दर्पणस्येव निःश्वासाभिहतस्य मलिनिमा पारमार्थिकः / एतदुभयायत्तो व्यापारावेशोऽपि / तत्रैवंरूपव्यापारलक्षणाया बुद्धेविषयोपरागलक्षणं शोनम् / तेन सह यः पुरुषोपरागस्यातात्त्विकस्य सम्बन्धी दर्पणप्रतिविम्बितस्य मुखस्येव मलिनिमा, सोपलब्धिरिति / तदेवमष्टावपि धर्मादयो भावा बुद्धरेव, तत्सामानाधिकरण्येनाध्यवसीयमानत्वात् / न च बुद्धिरेव स्वभावतश्चेतनेति युक्तं, परिणामित्वात् / पुरुषस्य तु कूटस्थनि त्यत्वादिति / तदेतदपि प्रागेव निरस्तम् / तथाहि कर्तृधर्मा नियन्तारश्चेतिता च स एव नः॥ अन्यथाऽनपवर्गः स्यादसंसारोऽथवा ध्रुवः // 14 // बोधनी। इन्द्रियप्रणालिकया-इति / सोऽपि किं स्वभावतश्चेतन इत्यत्राह-पुरुषस्य-इति / यद्वा, चेतनसामानाधिकरण्येनाध्यवसीयमानत्वादिच्छादयः पुरुधर्माः सन्तु, कृतं बुद्ध्येत्याह-पुरु. षस्य-इति / इच्छादिरूपेणात्मनः परिणामे कौटस्थ्यं हीयेत, ततश्च परिणामिनो घटादिवदचैतन्यप्रसक्तिरिति भावः / तदेवं सांख्यमतमुपन्यस्यैतेनैतन्निरस्तमिति पूर्वोक्तं स्मारयति-तदेतत्इति / भोक्तृधर्भ एव भोगनियामको नान्यधर्म इति प्रागुक्तत्वान्निरस्तमिति / यथा निरस्तं तथाह तथा हि-इति / कर्तुर्धर्माधर्मादयो भोगस्य नियामका इति तावदविवाद, चेतनश्च कर्तव नः प्रामाणिकानां कृतिचैतन्ययोः सामानाधिकरण्यात् / अन्यथाऽकतैव चेतनोऽचेतनैव बुद्धिः की, तद्धर्मा एव भोगन्नियच्छन्तीति मते बुद्धिनित्याऽनित्या वा स्यात् पूर्वत्र पुंसो नाप प्रकाशः। बुद्धितो ज्ञानोपलब्भ्योर्भेदमाह / तत्रैवमिति / विषयोपरागो विषयेन्द्रियसम्बन्धो बुद्धेविषयाकारः परिणतिभेदोऽयं घट इत्यादिः / तेनेति / तेन ज्ञानेन चेतनोऽहमिदं जानामीत्येवमाकारो बुद्धावारोपितस्थ चैतन्यस्य यः सम्बन्धोऽतात्विकः सोऽयमुपलब्धिरित्यर्थः / एवं व्यवस्थिते सिद्धमर्थमाह / तदेवमिति / ज्ञानवत् सुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्मा अपि बुद्धरेवेत्यर्थः / संस्कारस्य साडयैरनभ्युपगमाज्ज्ञानस्यैव स्मृतिहेतोरनभिव्यक्ततयाऽनुवृत्तेरिति स नोंक्तः / तत्सामानाधि. करण्येनेति / कृतिसामानाधिकरण्येनेत्यर्थः। यद्यप्यदृष्टस्यायोग्यतया तरसामानाधिकरण्यं न प्रत्यक्षं, तथापि धार्मिकोऽहमित्यनुव्यवसायादुपनीतस्य प्रत्यक्षत्वमिति भावः। परिणामित्वादिति / अनित्यधर्माश्रयत्वादित्यर्थः / कर्तृधर्मा इति / यत्र कृतिस्त ददृष्टस्य नत्रैव भोगजनकत्वमित्यत्राविवादे कृत्याश्रय एव चेतनः, तद्भिन्ने तत्र मानाभावादित्यर्थः / अन्यथेति / बुद्धनित्यत्वे मोक्षाभावः। आत्मनो प्रकाशिका। वाचकत्वानुपपत्तेः / ननु पुरुषस्य कूटस्थत्वे सुखादयः कुत्रेत्यादिशङ्कानिरासाय मूलं तदेवमि. ति / अतस्तदनुरूपमेव व्याचष्टे ।ज्ञानवत् सुखेति। अनभिव्यक्तयेति / सूक्ष्मरूपतयेत्यर्थः / अनित्यधर्माश्रयत्वादिति / बुद्धेश्चैतन्ये परम्परया तत्परिणामस्य घटादेरपि चैतन्यप्रसन्न तत्रैवंरूपव्यापारेति / करोमीत्यध्यवसायः कृत्यध्यवसायः व्यापारावेशः स एव लक्षणं भेदको यस्याः, इदं तस्याः परिचयमात्रम् / तदेवम् / एवम् ज्ञानवत् अष्टावपि ज्ञानेन सार्धमित्यर्थः / न-अस्माकम्मतम् / भन्यथा कर्तुरचेतनत्वे।