________________ प्रथमस्तवके ] मपूर्वस्य चेतनधर्मवाक्षेपः। 173 पुरुषे कर्तृत्वाभिमानस्तस्मिन्नचेतनेऽपि चेतनाभिमानः / तत्रैव कर्मवा. सना / पुरुषस्तु सर्वथा पुष्करपलाशवन्निर्लेपः / अालोचनं व्यापार इन्द्रि. याणां, विकल्पस्तु मनसः, अभिमानोऽहङ्कारस्य, कृत्यध्यवसायो बुद्धः / सा हि बुद्धिरंशत्रयवती / पुरुषोपरागो, विषयोपरागो, व्यापारावेश श्चेत्यंशाः / भवति हि मयेदं कर्तव्यमिति / तत्र मयेति चेतनोपरागो दर्पणस्येव मुखोपरागो भेदाग्रहादतात्त्विकः / इदमिति विषयोपराग बोधनी। तस्मात् तत्संयोगादचेतनं चेतनावदिव लिङ्गम् / गुणकर्तृत्वे च तथा कर्तेव भवत्युदासीनः (सौ. का० 2. ) इति / लिङ्गं = बुद्धिः / प्रकृत्यनुमापकत्वात् , धर्माधर्मयोरप्यन्तःकरणमेवाश्रय इस्याह-तत्रैवइति / यदि धर्मादयो बुद्धेर्गुणाः कीदृशस्तात्मेत्याह-पुरुषस्तु-इति / सर्वथा-इति / अनु. भवतद्वासनातत्फलैः कर्मतद्वासनातत्फलैश्चेत्यर्थः / बुद्धितत्त्वस्यासाधारणं व्यापार दर्शयिष्यन् सर्वेषां तावत् कारणानां यथास्वमसाधारणान् व्यापारानाह-पालोचनम्-इति / संमुग्धवस्तु. मात्रदर्शनमालोचनं, तच्च चक्षुरादीनामिदमिति बाह्यप्रावण्यात्मकः परिणतिभेदः यत् नैयायिकै. निर्विकल्पकमित्युच्यते / विकल्पस्तु संमुगधदृष्टस्य विशेषणविशेष्यभावेन विवेचनं तन्मनसो व्यापारः / अभिमानः अहं जानाम्यहं करोमीत्यादिरूपः, सोऽहङ्कारस्य / कृत्यध्यवसायः स बुद्धे. रिति / नन्वीदृशः कृत्यध्यवसायः कृतिसमवायं विषयसम्बन्ध चैतन्यं वापेक्षते, स कथमनेविधाया बुद्धधर्मो भवेदित्यत आह-सा हि-इति / तानेवाशान् विभजते-पुरुषोपराग:इति / कथमेतत्त्रयं बुद्धर्धर्म इत्याशङ्कय संमुग्धमुदाहरणं दर्शयति-भवति हि-इति / भवतु, कथं तावता अंशत्रयसिद्धिरित्यत्र निष्कृयाशान् दर्शयति-त्र-इति / दर्पणमुखयोरिव बुद्धिचेतनयोर्भेदाग्रहादेकत्वाभिमानः पुरुषोपराग इति / इदमा प्रतिनिर्दिष्टस्य विषयस्य यग्राहिकेव बुदिराभाति स चेतनोपराग इत्यर्थः / तेन मयेत्यभिमानः कथं बुद्धर्धर्मः स्यादिति शङ्का निरस्ता भवति / चेतनोपरागश्चेतनसम्बन्धः, स च परिणामविशेषः, तत् कथं चेतनोऽपरिणामी बुद्धया सम्भन्स्यत इत्यत्रोक्तं-दर्पणस्य-इति / कथं दूरस्थेन विषयेण बुद्धिरुपरज्यत इत्यत्रोक्तम् प्रकाशः। स्वे / बुद्धिपुरुषयौ/दाग्रहाच्चैतन्यकृत्यभिमानौ / यथा भवतां गौरोऽहं सुखीत्यर्थः / कर्मवासना कर्मजनितमपूर्वम् / ननु पुरुषधर्म एव किन्नापूर्वमित्यत आह। पुरुषस्त्विति ।सर्वथेति / ना. पूर्वतत्फलाभ्यां लिप्यते कौटस्थ्यादिश्रुतेरित्यर्थः। इन्द्रियादीनां मिथो भेदकमसाधारण व्यापारमाह। आलोचनमिति / निर्विकल्पकमित्यर्थः / ननु बुद्धः कृत्यववसायो न व्यापारः, कृतिविषयस्य घटादेजंडायो बुद्धौ प्रतिभासासम्भवात् / न च कर्त्तव्येन घटादिना सम्बन्धान्तरमस्ति / न चासम्बन्धे, करोमीत्यादिव्यवसायोऽतिप्रसङ्गादित्यत आह / सा होति। चेतनोपरागवशेन जडाया अपि बुद्धरिन्द्रियप्रणालिकया परिणतिभेद एव ज्ञानरूपः कर्तव्येन घटादिना सम्बन्ध इत्य. थः / पुरुषेति / बुद्धिचेतनयामेंदामहादेकत्वाभिमानः पुरुषोपरागः। नोलेन्द्रियसन्निकर्षानी. लाकारज्ञानरूपपरिणतिभेदोत्पादः पारमार्थिको विषयो रागस्ताभ्यो कर्तव्यविषयस्य प्रतिभासात्तज्जन्यः करामीत्यद्धयवसायो व्यापारावेश इत्यर्थः / दर्पणस्येवेति / दर्पणप्राया बुद्धिः / तस्मिन्नचेतने वुद्धितत्त्वे /