________________ 172 व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जली [ 14 कारिकावतरणिकायो पारेण, सुषुप्त्यवस्थायां तद्यापारविरमेऽपि श्वासप्रयत्नसन्तानावस्थानात् / तदु यदेतास्ववस्थासु संव्यापारमेकमनुवर्तते, यदाश्रया चानुभववासना, तदन्तःकरणमुपारुढोऽर्थः पुरुषस्योपधानीमवति / भेदाग्रहाच निष्क्रियेऽपि तस्मिन् बोधनी। तनिरपेक्षत्वदर्शनात् / न च स्वप्नदशायां मनो न व्याप्रियते, तस्माद् विद्यमानेऽपि नरत्वे तदभिमाने च बाह्येन्द्रियनिरपेक्षे मनसि व्याप्रियमाणे च तस्मिन् यद्व्यापारविरही नरत्वाभिमानानुदयो भवति सोऽपीन्द्रियमनोऽतिरिक्तो नरत्वाभिमानहेतुरङ्गीकार्यः, स एवास्माकमहङ्कारपदाभिधेय इति / यद्वा, स्वप्नदशायां वराहायभिमानविषयः कश्चिदभ्युपगन्तव्य इत्यर्थः / अन्येषां व्याख्या-यदीन्द्रियं मनश्चोभयं द्वारं तर्हि यदा स्वप्ने मनोद्वारा विषयसम्बन्धः तदैवे. न्द्रियद्वारेणापि स्यात् , ततश्च यथा तत्र वराहोऽहमिति मनसाभिमानः तथेन्द्रियेण नरोऽहमित्य. मानोऽपि भवेत् / न चासावस्ति, तस्मान्नोभयं द्वारमिति / सेयमसङ्गतत्वादनादत्तव्येति / नरत्वेनार्थोपधानाभावादिति केचित् पठन्ति / तत्र यथा वराहोऽहमिममर्थ जानामीत्यभिमन्यते तथा नरोऽहमिममर्थ जानामीत्यर्थोपधानं नास्ति / तस्मानियतविषयाभिमानव्यापारवानन्यः स्वीकर्तव्य इत्यर्थः / तद्यहङ्कारोऽप्यस्तु कृतं महतेत्यत्राह-नापि-इति / पूर्ववदनुषङ्गः सुषुप्त्यवस्थायामहङ्कारपर्यन्तेन्द्रियव्यापारविरामेऽपि शरीरधारणनिमित्तश्वासप्रश्वासहेतोः प्रयत्नसन्तानस्यानुवृत्ते. स्तदतिरिक्तं किञ्चिदस्ति यत् प्रयतमानं शरीरं विभत्ति, स महानिति / तस्य महतः स्वरूपमुपसंहारव्याजेन दर्शयति-तद् देतासु-इति। तत्-तस्मान्न केवलं सुषुप्तौ किन्तु जाप्रत्स्वप्नसुषु. प्यवस्थासु सप्रयत्नं यदनुवर्तते यदाश्रयश्च स्मृतिहेतुः संस्कारस्तदन्तःकरणमुपारूढ इन्द्रियमनो ऽहङ्कारव्यापारपरम्परया तत्र प्रतिफलित इति यावत् / तदाहुः एते प्रदीपकल्पाः परस्परविलक्षणा गुणविशेषाः / . कृत्स्नं पुरुषस्यार्थ प्रकाश्य बुद्धौ प्रयच्छन्ति // (सो का• 36) इति / गुणविशेषा-इन्द्रियाणि / गुणविकारत्वात् पुरुषस्य कृते विषयं परम्परया बुद्धौ प्रयच्छन्ती त्यर्थः / सोऽर्थः स्वच्छस्यैव स्फटिकस्य लाक्षादिश्चैतन्यमानस्यात्मन उपरजको भवति / अन्तःकरणसन्निधानात् तदारुढेः स भिन्न इव भातीति यावदिति यदि बुद्धेरेव व्यापारो न चात्मनश्चेत् तस्य कथं तर्हि चेतने कर्तृत्वाभिमानः योऽहं जानामि स एव करोमीति, कथं वा कर्तरि चैतन्याभिमानः योऽहं करोमि स एव जानामीति, तत्राह-भेदाग्रहात्-इति / कर्तृचेतनयोभैंदाग्रहादन्यतरस्मि. न्नन्याभिमानः / यथा नैयायिकानां शरीरात्मनोरिति / तचोक्तम् -- प्रकाशः। व्यापाराभावेऽपि ययापारादुच्छ्वासादि तबुद्धितत्त्वं कल्प्यमित्यर्थः / उपसंहरति / तद्यदिति। अवस्थासु जाप्रत्स्वप्नसुषुप्तिषु / अनुभवरूपा वासना संस्कारोऽनुभववासना सांख्यैस्तथानीकारात् / तदन्ताकरणमिति। तस्मिन्नन्तःकरणे बुद्धिरूपे। अर्थोघटादिः, उपारूढो ज्ञानरूपतत्परिणामविषयतयासम्बद्धः पुरुषस्यात्मन उपधानीभवति। उपधायको व्यवधायकः स्वरूपतिरोधायक इति यावत्। यत्सत्त्वासत्त्वाभ्यो पुरुषस्य संसारापवर्गों व्यवह्रियेते इत्यर्थः / तर्हि कर्ता चेतन इति कृतिचैतन्ययोः कथं सामानाधिकरण्यानुभव इत्यत आह / भेदाग्रहाशेति। निष्क्रियेअकर्तरि / तस्मिन् बुद्धित प्रकाशिका / तन्मतसंक्षेपः / जाग्रदिति / भावप्रधाननिर्देशः, अन्यथा शत्रन्तस्य धमिवाचकत्वेनावस्था भनुवर्तते / बुद्धितरवाख्यं तदिति शेषः /