________________ प्रथमस्तवके ] - अपूर्वस्य चेतनधर्मत्वाक्षेपः / 171 नित्यत्वेनानिर्मोक्षप्रसङ्गात् / नापि घटादिरेवाहत्य तदीया, दृष्टादृष्टत्वानुपपत्तेः / नापीन्द्रियमात्रप्रणाडिकया,व्यासङ्गायोगात् / नापीन्द्रियमनोद्वारा, स्वप्नदशायर्याव. राहव्याघ्राधभिमानिनोनरस्यापिनरत्वेनात्मोपधानायोगात् / नाप्यहङ्कारपर्यन्तन्या. बोधनी। म्बन्धित्वस्वभावोऽस्त्वित्यत्राह-नापि-इति / विषयस्यैवाव्यवधानेन तदीयत्वं चेतनीयत्वं चैतन्य. सम्बन्धित्वं स्वभाव इत्यभ्युपगमे यावत्सत्त्वं सर्वस्याप्यवभासप्रसङ्गात् कस्यचिद् दृष्टत्वं कस्यचिददृष्टत्वं कस्यचिन्नोपपद्यतेति / अस्तु तर्हि बाह्येन्द्रियपरिणामः, ततो दृष्टादृष्टत्वव्यवस्थासिद्धः कृतमन्तःकरणैरित्यत्राह-नापोन्द्रिय-इति / बायेन्द्रियमात्रद्वारा घटादेश्चैतन्यसम्बन्धाभ्युपगमे स्विन्द्रिसम्बद्धेऽपि क्वचिद् विषये कदाचिज् ज्ञानोत्पत्तासङ्गो विलम्बो दृश्यते, स न घटत इति / तर्हि तदर्थ मनोऽप्यनीक्रियता किमहङ्कारकल्पनयेत्यत्राह-नापोन्द्रियमनोद्वारा इति / पूर्ववदत्रा पि घटादिस्तदीय इत्यनुषजनीयम् / कश्चिद्धि नरा स्वप्ने वराहोऽहं व्याघ्रोऽहमिति चात्मानं मनु. ते / तस्य नरस्यापि-सतः,नरत्वे विद्यमानेऽपीति यावत् / नरत्वेनात्मोपधानं नरोऽहमित्यमिमानो न दृश्यते / न तावदत्र बाह्येन्द्रियवृत्त्यभावानरत्वाभिमानानुदयः, जाप्रदवस्थायामपि तस्य प्रकाशः। षयस्यैव चैतन्यसम्बन्धित्वं स्वभावः, तथा च विषयनाशे पुंसो मोक्षः स्यादित्यत आह / नापी. ति / विषयस्य परम्परया चैतन्यसम्बन्धित्वे द्वारीभूतस्येन्द्रियादेरङ्गीकारापत्तिरिति साक्षात् तद्वा. च्यम्, तथाचेदं दृष्टमिदमष्टमिति न स्यात् , व्यवहितस्यापि विषयस्य यावत्सत्त्वमवभासप्रसमा. दित्यर्थः / नन्विन्द्रियमात्रद्वारा विषयस्तदीय: स्यात् , किं मनःकरुपनयेत्यत आह / नापीति / व्यासङ्गेति / इन्द्रियसम्बन्धेऽपि व्यासङ्गेन दर्शनाभावादित्यर्थः / ननु व्यासझानुरोधान्मनःसं. युकेन्द्रियसम्बद्धविषयस्य चैतन्यावच्छेदकत्वमस्तु, किमहङ्कारेणेत्यत आह / नापोति / यदी. न्द्रियमनोम्यामेव विषयाः सम्बद्धान्ते, तदा शयानो नरो यथा वराहोऽहमिदं प्रत्येमीति अभिम. न्यते, तथा नरोऽहमिदं प्रत्येमीति नरत्वेनाप्यात्मोपधानं स्यात् / अस्ति हि तत्र नरत्वं सन्निहितम्, अस्ति चेन्द्रियमनसोरपि व्यापारः, अन्यथाऽऽलोचनविकल्पयोरनुत्पादप्रसङ्ग इति तद्भिन्नोऽहङ्कारोऽनियतविषयाभिमानव्यापारो मन्तव्य इत्यर्थः / बुद्धितत्त्वं साधयति / नाऽपीति / पूर्वेषा .. प्रकाशिका। कार्यकारणयोस्तादाम्यात् / द्वितीयन्त्वेकादश इन्द्रियाणि पञ्च महाभूतानि, तृतीयन्तु महदादयः सप्त, चतुर्थ तु पुरुषः / महत्तत्वमेव चान्तःकरणं बुद्धयाख्यं तस्य च सत्त्वप्रधानस्य धाः धर्मज्ञानवैराग्यैश्वर्य्यरूपाः तमःप्रधानस्य तद्विपरीताश्चत्वार इत्यष्टौ धर्माः / रजसस्तु सत्वतमःप्रेरकत्वमात्रेणोपयोगः / तत्र धर्मो यागादिसाध्यः, ज्ञानं सत्त्वपुरुषान्यताज्ञानम् , ऐहिकामुष्मिकसुखविरकस्य परमो वशीकारो वैराग्यम् , ऐश्वर्यमणिमादिसम्पत्तिः, एवमहङ्कारादपि त्रिगुणात्मका दन्तःकरणात् सत्त्वप्राधान्यैनेन्द्रियाणि, तमःप्राधान्येन पञ्चतन्मात्रा रजसस्तु पूर्ववदेवोपयोगः / इन्द्रियाणि तु षड् बुद्धीन्द्रियाणि प्रसिद्धान्येव तत्रापि मनो द्विरूपमन्तःकरणमिन्द्रियं च, अन्तःकर. गस्य मनोबुद्धपहङ्कारभेदेन त्रैविण्यात् , कर्मेन्द्रियाण्यपि वाक्याणिपादपायूपस्थरूपाणि पञ्च इत्यादि मकरन्दः। कारणयोस्तादात्म्यादिति भावः। अन्यथेति / आलोचवं व्यापार इन्द्रियाणाम् / विकल्पस्तु मनस इत्युपगमादिति भावः। माहत्य साक्षात् / तदीयः चैतन्यसम्बन्धी। दृष्टादृष्टत्वानुपपत्ते:-इदं दृष्धमिदन रसमित्यस्यानुपपत्तेः। प्रणाडिकया घटादिस्तदीय इति योजना /