________________ 170 व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाजलौ [14 कारिकावतरणिकायाँ आदिकारणं प्रकृतिरचेतना परिणामिनी, ततो महदादिसर्गः। न हिचितिरेव विष. यबन्धनस्वभावा, मनिर्मोक्षप्रसङ्गात्। नापि प्रकृतिरेव तदीयस्वभावा, तस्या मपि बोधनी। भ्या विधर्मेत्यर्थः / अपरिणामिन्यप्रतिसक्रमा चितिशक्तिरिति कथं तस्याकारणत्वे सर्ग इत्यत्र कारणं तत्स्वरूपं चाह-आदिकारणम्-इति / सर्वमपि तया क्रियते, न तु सा केन चित् / तदाहुः-'मूलप्रकृतिरविकृतिः (सा.का. 3) इति / अचैतन्यादेव परिणामित्वम् / तच्चाहु:त्रिगुणमविवेकि विषयः सामान्यमचेतनं प्रसवधर्मि / व्यकं तथा प्रधानम्। (सां का. 11) इति। केन रूपेण तस्याः परिणाम इत्याह-तत:-इति / ततः प्रकृतेः। महदहकारेन्द्रियतन्मात्रमहाभूतात्मनां त्रयोविंशतेस्तत्त्वाना सर्गः। यद्यपि प्रकृतेमहान् महतोऽहहार इत्यादिक्रमात् परिणामः, तथापि प्रकृतेर्मूलकारणत्वात् तत इत्युक्तम् / ननु पुरुषार्थाय हि प्रवर्तते प्रकृतिः, पुरुषार्थश्च भोगे ऽपवर्गश्च, भोगो विषयानुषङ्गस्तद्वियोगश्च यैः पुरुष उपयुज्यते विभज्यते च त एव शब्दादयः परि. णामभेदाः सन्तु, कृतमितरेण महदादिपरिणामेन / न च विषयसम्बन्धार्थः तत्संसर्गः, नित्यचैतन्यरूपस्य पुरुषस्य स्वभावतः तत्सम्बन्धोपपत्तेरित्याशङ्कयाह-न हि-इति / चितिश्चैतन्यमात्ररूपः पुरुषः, यदि पुरुषस्वभावानुबन्धी विषयानुषङ्गो भवेत् ततः स्वभावस्यानुच्छेद्यत्वेनानिर्मोक्षः स्यादिति / तर्हि प्रकृतेरेवैष स्वभावोऽस्तु यद्विषयपाशैः पुरुष बध्नाति तत्राह-नापि-इति / तदीयत्वं तादर्थ्य, तदीयभोगोपकरणसम्पादकत्वमिति यावत् / तत्स्वभावत्वे प्रकृतेनित्यत्वेन कदाचिदपि निरुपाधित्वानुपपत्तेरनिर्मोक्ष एव पुंस इति / तद्यनित्यस्य घटादेविषयस्यैव चैतन्यस प्रकाशः। नुपपत्त्या तत्कल्पनादिति भावः / आत्मनोऽकारणत्वेऽपि सर्गमुपपादयति / मादीति / आदि. पदाद् महदादिव्यवच्छेदः, तस्य प्रकृत्यनन्तरमुत्पादात् / कारणमिति पुरुषव्यव. च्छेदः / पुरुषाद्भेदकमाह / भचेतनेति / तत्र हेतुमाह / परिणामिनीति / अनित्यध. मश्रियस्ततः कार्यधर्मात्मतया नश्यति / ततो घटादिवदचेतनेत्यर्थः / तत इति / प्रकृतेमहत्तत्त्व. मन्तःकरणं बुद्धयाख्यम् / "प्रकृतेमहान् महतोऽहङ्कारस्तस्मात्पञ्चतन्मात्राणी"ति सांख्याः / ननु किमर्थ महदादिसर्गो मन्तव्यो नित्यचैतन्यमेव विषयप्रकाशस्वरूपमस्त्वित्यत आह / न हो. ति / चितिः पुरुषचैतन्यम् / विषयबन्धनम्=विषयावच्छेदः / चैतन्यविषयावच्छेदस्येष्टानिष्टोप. लब्धिरूपस्य हेतुसापेक्षत्वे हेतोरिन्द्रियादेरङ्गीकारापत्तिः / निरपेक्षतायां सर्वदा तस्य भावादनिर्मोक्षः पुसः स्यादित्यर्थः / तर्हि प्रकृतिरेव साक्षाद्विषयबन्धनस्वभावाऽस्त्वित्यत आह / नापीति / प्रकृ. तेः साक्षाद्विषयप्रकाशकस्वभावत्वे तस्याः सदातनत्वे पुनरप्य निर्मोक्षः पुंसः स्यादित्यर्थः / ननु वि प्रकाशिका। पुरुषाद्भेदकमिति / भेदकान्तरमित्यर्थः / अनित्यधर्मेति / तिरोभाव एव तन्मतेऽनित्यत्वम् / कार्यधर्मेति / कार्यकारणयोस्तादात्म्यादिति भावः / कार्यत्वं चावि र्भावमात्रं तन्मत इति / सांख्या इति / चतुर्विधं जगत् केवल प्रकृत्यात्मक, केवल. विकृत्यात्मक, प्रकृतिविकृत्युभयात्मकम् , अनुभयात्मकं चेति / तत्रायं मूलप्रकृतिरित्युच्यते, सा च सत्त्वरजस्तमा साम्यावस्था, सत्वं सुखं, रजो दुःखं, तमो मोहः, सर्व कार्य सुखदुःखमोहात्मक तज्जनकत्वात् भोक्तृभेदेन कालभेदेन च तथात्वात् , एवं तत्कारणं प्रकृतिरपि तथा, मकरन्दः। भेदकमिति / भेदकान्तरमित्यर्थः / अनित्येति / यद्यपि सर्वनित्यतावादिनस्तस्य नानित्यं, न वा कार्यम् / तथाप्याविर्भावतिरोभावी उत्पादविनाशाविति भावः / कार्यधर्मेति / कार्य विषयबन्धनेति / इटानिष्टोपलब्धिरित्यर्थः /