________________ प्रथमस्तवके ] . अपूर्वस्य चेतनधर्मस्वाक्षेपः / 166 तेषामसत्वात् / तथा च निरतिशयाश्चेतनाः साधारणानि भूतानीति न भुक्तिनियम उपपद्यते // 13 // एतेन साङ्ख्यमतमपास्तम् / एवं हि तत् , अकारणमकार्यः कूटस्थचैतन्यस्वरूपः पुरुषः / बोधनी। बुद्ध्यायभावेन बुद्धयादिभिः शरीरनियमः, तेन नियतेषु शरीरादिषु बुद्धपादयोऽस्य भवन्ति, तैश्च तन्नियम इति इतरेतराश्रयप्रसझादात्मसमवेतमपूर्वमेव नियामकमीकर्तव्यं, तदनीकारे नियमानुपपत्तिमुपसंहरति-तथा च इति / चेतनानामतिशयो नाङ्गीकृतः सातिशयान्यपि भूतानि साधारणानि न शरीरादेः पूर्व बुद्धयादयः सन्ति / तस्मान शक्तिनियम उपपद्यते / अत्र प्रयोगःभोक्तुः स्वगुणोत्पादिताः शरीरादयः, कार्यत्वे सति तद्भोगसाधनत्वात् , स्रगादिवत् / न च बुद्धयादिभिः सिद्धसाध्यता शरीराद्युत्पत्तेः प्राक् तदभावादिति // 13 // एतेन-इति / भोत्तृसमवेतमेवापूर्व भोगानियच्छति नान्यसमवेतमिति प्रतिपादनेनेत्यर्थः / कथं निरस्तमिति दर्शयितुं तन्मतमेव तावदुपन्यस्यति-एवं हि तत्-इति / तन्मते हि पुरुषो न किञ्चित् करोति न केन चित् क्रियते / यथाहुः 'न प्रकृतिनं विकृतिः पुरुषः (सा. का. 3) इति ।कूटस्थतन्यस्वरूप इति / कूटस्थम्= अपरिणामि चैतन्यमेव स्वरूपं यस्य स तथोक्तः तदप्याहुः तद्विपरीतस्तथा च पुमान् (सा.का.११) इति / अत्र चकारोऽप्यर्थः / व्यक्ताम्यक्ताभ्यामनेकत्वाकार्यत्वे साधम्र्येऽपि निर्गुणत्वचैतन्यादिभिस्ता. प्रकाशः। संस्काराजन्यत्वेन पक्षविशेषणाद्वेति भावः // 13 // ननु चेतने न भोगो नाप्यदृष्टम् / तस्य कूटस्थत्वात् , किन्तु बुद्धाविति चेतनधर्मस्य नियामकत्वमयुक्तमिति सांख्यमतं दूषयति / - एतेनेति / चेतनेऽपूर्वानाधाने साधारणविप्रहवत्त्वप्रसङ्गेनेत्यर्थः। शिष्यहितैषितया तन्मतं प्रपञ्चयति___एवं हीति / अकारणमित्यनेन प्रकृतेर्भेदः। अकार्य इत्यनेन चरमपरिणतिघटादेमेंदः / ननु बुद्धपायकारणत्वे तस्य तत्र मानाभाव इत्यत आह / कूटस्थेति / अकारणस्वादेव कूटस्थोऽनित्यधर्मानाश्रयः, कार्यत्वाभावान स्वरूपतो नाशः। अकारणत्वाच्च कार्यकारणयोस्तादात्म्यात् तदारमतयापि न नाशः / अत एवापूर्व न तस्य गुणः। चैतन्यस्वरूपत्वमपि धर्मधर्मिणोस्तादात्म्यात् कूटस्थरवेन चैतन्येन निरूप्यत इति न तत्र मानाभाव इत्यर्थः / बुद्धिगतचैतन्याभिमानान्यथा प्रकाशिका। तथापि भोगजनकस्यैव शरीरजनकत्वमित्यभिप्रायेणेदम् / यद्यपि धम्मिकल्पनादिति म्यायेन भोगज- . नकत्वं तस्यैव कल्पयितुमर्हम् / तथापि संस्कारस्य स्मृतिमात्रजनकत्वमिति न भोगजनकत्वमित्याशयः॥१३॥ कूटस्थत्वादिति / जन्यधर्मानाश्रयत्वादित्यर्थः / साधारणेति / यद्यपि बुद्धिनिष्ठापूर्वापाने भोगसमानाधिकरणमेवादृष्टं नियामकमिति न साधारणविग्रहवत्त्वम्. / तथापि बुद्धनित्यत्वेऽमोक्षः, अनित्यत्वे तदुत्पत्तेः पाल् नियामकाभावात् साधारणविग्रहवत्त्वप्रसा इत्यर्थः / मकारणत्वाच्चेति / कार्यकारणयोस्तादात्म्यात्तदात्मतया. नाश इत्यपि न, अकारणत्वादित्यन्वयः / अत एव = अकारणत्वादेव / मकरन्दः / नात इति न्यायेन भोगजनकत्वमपि तस्यैव कल्पनाह, तथापि मानान्तरादप्यदृष्टसिद्धथवष्टम्भेनेदमुकमित्येके। संस्कारान्यत्वं गुणविशेषणमित्यन्ये // 13 // साधारणानि भूतानि / कार्यकारणभावभनरूपदोषेण जन्यतामात्रेणापि नियमाभावेन भूतसाधारण्यम् // 13 // २२न्याकु०