________________ 168 व्याख्यात्रयोपेतप्रकाशबोधनीयुतेन्यायकुसुमाञ्जलौ [13 कारिकाव्याख्या तथापि तज्जन्यतयैव नियमोपपत्तौ विपक्षे बाधकं किमिति चेत्, कार्यकारण. भावभङ्गप्रसङ्गः / शरीरादीनां चेतनधर्मोपग्रहेणैव तद्धमजननोपलब्धेः / तत् यथा, इच्छोपग्रहेण प्रयत्नो शानोपग्रहेणेच्छादयः, तदुपग्रहेण सुखादय इत्यादि / प्रकृ. तेऽपि चेतनगता एव बुद्वयादयो नियामकाः स्युरिति चेद ? न / शरीरादेः प्राक् बोधनी। स्य नियतगुणोपगृहीतत्वेन व्याप्तिः सिध्येदित्याशयेन पृच्छति-तथापि-इति / यदि द्वित्वादयो नियतचेतनगुणानुगृहीता भवेयुस्तहि तेषां चेतनधर्मेण स्वविषयज्ञानेन सह यः कार्यकारणभावःस भज्यतेत्याह-कार्यकारण-इति / स्वविपषयज्ञानजनकत्वानुपपत्तिर्बाधकमित्यर्थः। कुत इत्यत आह-शरीरादीनाम्-इति / चेतनधर्मजनकत्वस्य तद्धर्मोपगृहीतत्वेन व्याप्तिप्रदर्शनादित्यर्थः। व्याप्तिमेवोदाहरणे दर्शयति-तद् यथा इति / न ह्यनिप्टे प्रवृत्तिप्रयत्नः, न चाज्ञातविषयेच्छा, नापि तदविवयस्य सुखहेतुत्वमित्यादि / ततश्च द्वित्वशरीरादीनां नियतत्वं चेतनगुणोपाहणेन व्याप्यत इति ततस्तत्सिद्धिरिति / सन्तु तर्हि प्रकृते शरीरेन्द्रियाणां प्रतिनियतभोगसा. धनत्वेऽपि नियतचेतनगताः सम्प्रतिपन्ना एव नियामका इत्याह-प्रकृत-इति / शरीरादेः पूर्व प्रकाशः। ननु भूतधर्मान्तरस्य साधारण्येऽप्यपूर्वतद्धर्मस्तत्कार्यत्वमात्रेणैबासाधारणं स्यादित्यत आह तथापीति / कार्यकारणभावमेवाह / शरीरादीनामिति / प्रकृतेऽपीति / यथा शरी. रादीनां चेतनगुणबुद्धयादिसहितानां नियतानो नियतभोगजनकत्वं, तथा प्रकृतेऽपि तेषां तत्सहितानामेव तजनकत्वमस्त्विति कृतमपूर्वेणेत्यर्थः / शरीरादेरिति / न शरीराद्युत्पत्तेः पूर्व बुद्धयादिसम्भव इति तदन्यचेतनगुणापूर्वसिद्धिरित्यर्थः / देवदत्ताद्यशरीरं, स्वाव्यवहितप्राक्काल. वर्तिदेवदत्तसमवेतविशेषगुणजन्यम् कार्यस्वे सति तद्भोगसाधनत्वात् तन्निर्मितस्रग्ववत् / घटादीनो पक्षसमत्वाद् न तैव्यभिचारः / न च संस्कारेणार्थान्तरं, तस्य भोगजनकत्वेनाकल्पनात् / प्रकाशिका। टान्तेनैवातीन्द्रियो धर्मः सिद्धेदिति शङ्का तदवस्थ्यैवेत्यतस्तो स्मारयति / तथापि चेतन एवेति मूलम् / देवदत्ताधेति / प्रथमशरीरोत्पन्नज्ञानादिनैव द्वितीयशरीरेऽर्थान्तरमित्याय पदम् यत् किंचिदपेक्षयाऽऽयत्वं द्वितीयशरीरस्यापि सर्वापेक्षया चाद्यत्वमप्रसिद्धमिति देवदतेति / देवदत्तत्वं तत्तच्छशरीरपरम्परावृत्तिजातिरिति तदाश्रयेषु मध्ये सर्वायत्वं पक्षतावच्छे. दकमिति भावः / जन्मान्तरीयज्ञानादिभिरर्थान्तरवारणाय साध्येऽवृत्तीत्यन्तम् / अन्य विशेषगुण. जन्यत्वमादायार्थान्तरादिवारणाय देवदत्तेति / संख्यादिभिस्तदीयैरर्थान्तरवारणाय विशेषेति / हेतौ मनसा व्यभिचारवारणाय सत्यन्तम् / अन्य शरीरादौ व्यभिचारवारणाय तदिति / तनिर्मिः तेति / तद्भोगसाधनेत्यपि द्रष्टव्यम् / तस्येति / यद्यप्येवमपि शरीरजनकत्वे विरोधाभावः / मकरन्दः। देवदत्ताद्येति / द्वितीयशरीरादेरायशरीरजन्यबुद्धयादिजन्यत्वेनाऽर्थान्तरं स्यादित्यायपदम् / अन्यशरीरे बाधवारणाय पक्षे देवदत्तपदम् / जन्मान्तरबुद्धिजन्यत्वेनार्थान्तरवारणाय वय॑न्तम् / ईश्वरज्ञानादिजन्यत्वेन सिद्धसाधनवारणाय / देवदत्तेति / सतयादिजन्यत्वेनार्थाः न्तरवारणाय, विशेषेति / मनसा व्यभिचारवारणाय सत्यन्तम् / अन्यशरीरादौ व्यभिचारवारणाय, तदिति / तन्निमितेति // तद्भोगसाधनेत्यपि द्रष्टव्यम् / तस्येति / यद्यप्येवमपि थरीरजनकत्वे विरोधाभावस्तथापि तद्द्वारा भोगजनकत्वमाश्रित्येदमुक्तम् / यद्यपि, धर्मिकल्प. प्रकृतेऽपि = भूतसंस्कारपक्षेऽपि / तथाचापूर्वेणात्मनि भोगे जननीये आयशरीरस्य चेतनगुणोपप्रहेण भोगजनकत्वानुपपत्तिः, सहकारिणश्चेतनगुणस्य तदानीमभावादिति भावः।