________________ प्रथमस्तवके ] . अपूर्वस्य चेतनधर्मत्वाक्षेपः / तथापि चेतन एवायं संस्क्रियते, न भूतानीति कुतो निर्णय इति चेत् / उ. च्यते / भोक्तृणां नित्यविभूनां सर्वदेहप्राप्तावविशिष्टायां विशिष्टैरपि भूतैर्निया. मकाभावात् प्रतिनियतभोगासिद्धः / न हि तच्छरीरं तन्मनस्तानीन्द्रियाणि विशिष्टान्यपि तस्यैवेति नियमः / नियामकाभावात् / तथा च साधारणविग्रहवत्त्वप्रसङ्गः। न च भूतधर्म एव कश्चिच्चेतनं प्रत्यसाधारणः। विपर्ययदर्शनात् / द्वित्वादिवदिति चेन्न, तस्यापि शरीरादितुल्यतया पनत्वात् / नियतचेतनगुणो. पग्रहेणैव तस्यापि नियमो, न तु तज्जन्यतामात्रेण, स्वयमविशेषात् / बोधनी। तथापि इति / अत्र संभोगो निर्विशेषाणामित्येतदुत्तरयति-उच्यत-इति / अदृष्टविशेषविशिष्टेध्वपि शरीरादिभूतेषु सर्वात्मना सर्वत्र सर्वदा सन्निधानाविशेषादिदमस्यैव शरीरं नान्यस्येति नि. यामकाभावेन प्रतिनियतभोगासिद्धः चेतन एव संस्क्रियत इति निर्णेष्यत इति / तदेवोपपादयतिन हि-इति / तच्छरोरं यस्यैवेति दृश्यते तदपूर्वविशिष्टमपि तस्यैवेति नियमो न स्यादिति / तदनियमे दोषमाह-तथा च-इति। ननु भूतधर्मत्वेऽप्यपूर्वस्य कश्चिच्चेतनं प्रत्यसाथारण्य भविष्यति / ततस्तद्विशिष्टं शरीरादि तस्यैवेति नियमः स्यादित्यत्राह न-च-इति / भूतधर्मा हि रूपादयः सर्वान् प्रति ज्ञानजनकत्वेन साधारणा दृश्यन्त इति / शङ्कते-द्वित्वादिवत्इति / द्विस्वादयो हि भूतधर्माः केनचिदेव ज्ञायन्ते नान्येनेत्यसाधारण्येन दृष्टान्ता इति / न-इति। द्वित्वादेरपि शरीरादिना तुस्ययोगक्षेमत्वात् भूतधर्मत्वेनासाधारणत्वस्यासिद्धत्वादिति / तुल्यतामेवाह--नियत-इति / यस्यापेक्षांबुद्धिजन्या द्वित्वादयस्तस्यैव ते स्वविषयां बुद्धि जनयन्ति नान्यस्येति नियतचेतनगुणोपगृहीतत्वेनैव तेषामसाधारण्यं, न तु भूतधर्मत्वमात्रेण, स्वयमविशेषादिति / रूपादिभ्यो द्वित्वादिना स्वगतविशेषाभावादिति / यद्वा, स्वरूपेणासाधारण्यादित्यर्थः। यद्यपि द्वित्वादीनां स्वयमविशेषः, तथापि नियतचेतनगुणोपग्रहाभावे किं बाधकं येन नियम. प्रकाशः। भोक्तृणामिति / भोक्तृप्रत्यासत्तेरविशेषात् किंचिच्छरीरं कस्यचिदेव भोगं जनयतीति प्रतिनियतभोगान्यथानुपपत्त्या प्रतिनियतभोक्तृकर्मोपार्जितत्वं शरीरादावभ्युपेयमित्यर्थः / विशि. रित्यभ्युपगमवादः / असाधारण इति / प्रतिनियतभोगजनक इत्यर्थः / विपर्ययेति / भूतधर्मस्य नीलादेस्तथात्वादर्शनादित्यर्थः / द्वित्वादीति / यथा भूतधर्मोऽपि द्वित्वादि यस्यैवापेसाबुद्धया जनितं तस्यैव भोगजनकं, तथा अपूर्वमपि तद्धर्मः स्यादित्यर्थः / द्वित्वादेरप्यसाधारणस्वं नियतचेतनगुणोपप्रहेणैवेस्याह / तस्यापीति / तस्यैवेति तदवच्छेदकस्यैवेत्यर्थः / विपर्ययदर्शनात् =भूतधर्मत्वेन स्थितस्य नीलादेस्तथात्वादर्शनादित्यर्थः / पक्षत्वादिति ।चेतनगुणोपसंग्रहं विनैव तज्जन्यतामात्रेणासाघारणभोगजनकत्वं द्वित्वदृष्टान्तेनापूर्वादौ प्रसाध्यम् / दृष्टान्तो हि निश्चितसायकः, तत्रास्मदादिभिः शरीरस्येव द्वित्वस्यापि चेतनगुगोपप्रहेणैवासाधारणभोगनियामकत्वं स्वीक्रियते तज्जन्यतयैवचान्यं प्रत्यपि स्यात् मालाकारकृतिप्रसाधितमालावत् उपग्रहेण तथात्वे सहकारिणामपेक्षाबुद्धिद्विस्वनिर्विकल्पकादीका तदात्मन्येव भाव इति तत्रैव द्वित्वं प्रत्यक्षजनकमिति न नियमभङ्गः / तथा च सन्दिग्धसाध्यकत्वान्न दृष्टान्तत्वमिति भावः / उपग्रहो नाम सहकारित्वं तथा च चेतनगुणोपसंग्रहेणेत्यस्य चेतनगुणसहकारेणेत्यर्थः /