________________ 166 व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [13 कारिकाव्याख्यायां निःसाधनामीमांसका अपि न विप्रतिपत्तुमर्हन्ति / ततोऽभावादिरनुग्राहक इत्येके, नेत्यपरे, इति विवादकाष्ठायां व्युत्पादितञ्चैतस्यानुग्राहकत्वम् / किमपरमव शिष्यते यत्र प्रमाणमभिधानीयमित्यलमतिविस्तरेण // बोधनी। ततश्चायं विवादविषयोऽवशिष्यत इत्याह-ततः-इति / तस्याभावादेरनुप्राहकत्वमनन्यथासिद्धा. न्वयव्यतिरेकित्वे व्युत्पादितम् , अतः शक्तिनिषेधो नाम न कश्चिदन्योऽर्थः प्रमाणसाध्योऽस्तीतिशक्तिविषयेयं कथोपरम्यत इति / नन्वेवमपि भूतधर्मत्वमपूर्वस्य न सिध्यतु, चेतनधर्मत्वेऽपि विनिगमना कुतस्त्येत्याह प्रकाशः। यता, अन्यासमवधानावच्छिन्न कार्यानुत्पत्तिव्याप्यत्वं कारणत्वम् / रासभादेश्च स्वत एव कार्याभाव. व्याप्यतयाऽन्यासमवघानस्य वैयर्थेनानवच्छेदकत्वादिति / (पृ. 151) ततोऽधिकेति / कार. णस्वस्योभयसिद्धत्वात् तदन्यशक्तिनिषेधकमित्यर्थः / (पृ. 151) अनुग्राहकत्वेति / कारणत्वस्य शक्तिपदवाच्यत्वेऽपि अनुप्राहकत्वस्य कारणसहकारिसाधारणत्वात सहकारिष्वपि शक्तिपदप्रयोगः / यत्समवधाने नियतं कार्य, तस्यैवानुग्राहकत्वादित्यर्थः / तत इति / मन्त्रादिप्रयोगे किं भावरूपो. ऽनुप्राहको नास्त्यभावरूपो वेति विप्रतिपत्त्या कथायामभावस्यानुप्राहकत्वे व्युत्पादिते क्वान्यत्र प्रमाणं वाच्यमित्यर्थः / प्रकाशिका। गर्भलक्षणमाह। भन्यासमवधानेति / दण्डाद् घटोत्पत्तिरिति प्रतीतेरनन्यगतिकतया तयोः तादृशसम्बन्ध इति भावः / अत्रापि यस्य व्याप्यत्वं तदवच्छिन्नत्वं कारणत्वमिति पू वदेव व्या. ख्यानं सर्वम् / रासभादेः रासभत्वादेः / अनुग्राहकत्वेति / तथा च शक्तित्वेन रूपेण सह. कारिविषयक एव विवाद इत्यर्थः / गुरुत्वादिवदित्यादिपदसंग्राह्यशक्तिरूपदृष्टान्तनिषेधेऽपि गुरुत्वह. मकरन्द।। यदि च क्वचिन्न तथात्वं, तदा तज्जातीयत्वं लक्षणं बोध्यम् / न चारण्यस्थदण्डे तद्दण्डत्वादिनैव तदवच्छेदादव्याप्तिरिति वाच्यम् / दण्डत्वमादाय लक्षणसत्त्वादिति / भन्यालमवधानावच्छिन्नेति। अन्यासमवधानावच्छिन्नं कार्यानुत्पत्तिव्याप्यत्वं यस्य, तदवच्छिन्नं कारणत्वमित्यर्थः / उत्पत्तिगर्भतया पूर्वस्माद्भेदः / शेषं पूर्ववत् / कारणत्वसहकारी. त्यत्र द्वन्द्वः। टिप्पणी। वत्वंन स्यादिति वाच्यम्। तज्जातीयवत्त्वस्य लक्षणात् / स्वरूपायोग्यञ्च कार्यकालेऽपि सम्बन्धस्यैवा भावेन कार्याभाववत्त्वं बोण्यम् / व्याप्यता च तादात्म्येनेति / यद्वा यद्धर्मस्य स्वेतरावच्छिन्न व्याप्यत्वं यद्धर्मवत्त्वं कारणत्वम् / न ह्येवंविधं किञ्चित् कारणमस्ति यज्जातीयं कार्योत्पत्ति. क्षणेऽपि नास्ति / एतेनोत्पत्यवच्छिन्नकर्मणो विभागावच्छिन्नकम्मानतिरेकेऽपि न क्षतिः / उत्पत्यवच्छिन्नकर्मत्वाधिकरणताया विलक्षणत्वात् / न च प्रागभावस्य सामग्रीनाश्यत्वे स्वरूपत एव सदैव कार्याभाववत्त्वमिति तत्र का गतिरिति वाच्यम् / प्रतियोगिनाश्यत्वस्यैव तस्य स्वीकारात् / उत्पन्नपुनरुत्पत्तेः कार्यसहभावेन कारणत्वाभ्युपगमेन वारणीयत्वात् / प्रागभावानभ्युपग. माद् वा सर्वमवदातम् / कारणेन सह कार्य्यस्य नावध्यवधिमद्भावलक्षणसम्बन्धः, उक्तप्रतीतेः कार्यकारणभावेनैवोपपत्तरित्यत माह यद्वा मन्यासमवधानावच्छिन्नेति / उत्पत्तेरहेतु. कत्वाद् बीजादडरोत्पत्तिरिति प्रतीतेस्तस्यावश्यकत्वादिति भावः / (1) इति प्रथमस्तवकप्रकाशटिप्पणी। (1) इतः परं प्रथमस्तवकप्रकाशटीप्पणी आदर्शपुस्तके नास्ति /