________________ प्रथमस्तवके ) मपूर्वस्य चेतनधर्मत्वाक्षेपः / 165 165 प्रकाशः। नावच्छिद्यते / इतराभावे बीजेऽङ्कुराभावनियमाद् / शिलायां तु तत् , शिलात्वेनैवावच्छिद्यते / मकरन्दः। त्यर्थः / तेन बीजत्वस्य कार्याभावव्याप्यत्वस्य जनकत्वाभावान्नासम्भवः / न वा यत्र दण्डाभा. ववत्त्वं तत्र घटाभाव इति दण्डाभाव निष्ठव्याप्तौ दण्डाभावस्यैवावच्छेदकतयाऽजनके दण्डाभावादौ चातिव्याप्तिः। तत्र दण्डाभावसहकृतत्वस्यानवच्छेदकत्वात् / एवञ्चाने बीजत्वादिपदं तद्धर्मपरमिति / ननु कार्याभावस्तजनकत्वाभावो वा, तदभावमात्रं वा ? / आये आत्माश्रयः / अन्त्ये शिलायामप्यकुरस्य संयोगवृत्त्या सत्त्वेन तत्रापीतराभावसहकृतशिलास्वस्य कार्याभावव्याप्यत्वात् / किञ्च घटकारणे ज्ञानादौ कार्याभावव्याप्यत्वं ज्ञानत्वादिनै. वावच्छिद्यते / दण्डाद्यभावसाहित्यस्य तत्र नीलधूम इव व्यर्थत्वादिति चेत् / अत्र वदन्ति / उत्पत्तिकालीनसम्बन्धावच्छिन्न कार्याभावव्याप्यत्वं विविक्षितम् / संयोगसम्बन्धस्योत्पत्त्यनन्तर कालीनतया तदवच्छिन्नाभावमादाय न शिलादौ प्रसङ्गः / उत्पत्तिकालीनसम्बन्धो द्वयमेव, कारणता समवायश्च। तदवच्छिन्नाकुराभावश्च समवायिनि बीजादौ च / द्वयश्च कारणमेव / न चैवं कारणतागर्खत्वेनात्माश्रयः। सम्बन्धत्वेनैव तज्ज्ञानादिति / अत्र वदन्ति / विषयविषयिभावसम्बन्धस्याऽप्युत्पत्तिकालीमतया तदवच्छिन्न कार्याभावत्वस्येतराभावावच्छेद्यतया वह्नयादेरनुमिति. जनकत्वापत्तिः / चरमकारणे कार्याभावाभावादव्याप्तिश्चेति / बीजादडर इति प्रतीतिबलादवण्यवधिमद्भावलक्षणः स्वरूपसम्बन्धविशेष एव विलक्षणः। कार्यकारणयोस्तत्सम्बन्यावच्छिन्नकार्या. भावश्च कारण इतराभावावच्छेदेन / स्वरूपायोग्ये च ताशसम्बन्धाभावात् तदवच्छिन्नकार्याभावः स्वासाधारणशिलात्वादिधर्मावच्छेद्यः / एवञ्च तादृशसम्बन्धावच्छिन्नकार्याभावव्याप्यत्वं यत्र स्वा. साधारणधर्मतरावच्छिन्नं तदवच्छिन्नं कारणमित्यत्र तात्पयम / चरमकारणे च यद्यपीतराभावो नावच्छेदकस्तथाप्युत्पादकाल एव तथा / उत्पादानन्तरमेव कार्योत्पादेन तदा कार्याभावात् / यद्वा, परामर्शादौ चरमकारणेऽपि प्रतिबन्धकाभावविलम्बेन कायोत्पत्तिविलम्बादितराभावावच्छिन्नमेव / टीप्पणी। कार्याभावव्याप्यता यस्य स्वासाधारणधर्मातिरिक्तधर्मावच्छिन्ना तत्त्वमित्यर्थः। तेन यत्र दण्डाभाववत्त्वं तत्र कार्याभाव इति दण्डाभाववत्त्वनिष्ठव्याप्तेरधिकरणविधया दण्डाभावावच्छिन्नत्वेऽपि नातिव्याप्तिः / शिलाशकलेऽपि कदाचित् संयोगेन कार्य्यस्य सत्तया तत्स्वरूपस्यापि निःस्वरूपेण म्याप्यता रासभस्यापि सामग्रीकाले कार्यदेशे सत्तया दण्डायभावावच्छिश्व कार्यभावव्याप्यतेति न तयोः कारणत्वप्रसङ्गः / स्वरूपायोग्येन सहकायोस्यावध्यबधिमद्भावसम्बन्धानङ्गीकारात् शिलाशकलादरं रासभाद् घट इत्यप्रतीतेः सर्वदैव स्वरूपत एव तयोः कार्याभाववत्त्वमितीतरस्य धूमे वह्निव्याप्यतायो नैल्यस्येव वैयर्थ्यान्नावच्छेदकत्वम् / स्वरूपयोग्येषु बीजदण्डकपालादिषु स्वरूपतो न सदा कार्याभावः, बीजादङ्कुरम् दण्डाद् घटः सति कारणान्तर इति प्रतीतेः, किन्तु सहकार्य न्तरविरहे बीजादपि नाङ्कुरमिति प्रतीतेरितरकारणाभावविशिष्ट एव बीजादौ निरुक्तसम्बन्धावच्छिन्नकार्याभावनियम इति तनिष्ठव्याप्यतेवेतरावच्छिन्नेति तेषु समन्वयः / कर्मसद्भावे विभागनियमेऽप्युत्पत्तिकाले कार्याभावेन तन्निष्ठाया व्याप्यताया इतराभावानवच्छिन्नत्वेऽप्युत्पत्तिकालेनेतरेणावच्छेद्यत्वात् / परामर्षनिष्ठानुमित्यभावव्याप्यतायाश्च प्रतिबन्धकेनापीतरेणावच्छेद्यत्व. सम्भवान्न तयोरव्याप्तिः / न च विनश्य दवस्थायतो जन्म कार्य्यस्य तस्य कार्यक्षणेऽविद्यमानत्वात् कदाचिदपि कार्यवत्त्वासम्भवात् तस्य स्वरूपेणैव कार्यभावनियतस्वम् / कार्योत्पत्तेः प्राक् सम्ब. नसत्त्वेऽपि कार्य्यस्यैवाभावात्कार्याभाववत्त्वम् / अन्यथा कर्मण उत्पत्तिकालावच्छिन्न कार्याभा.