________________ 164 व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जली [ 13 कारिकाव्याख्यायो - प्रकाशः। प्रयुक्तरवं च न जन्यत्वं, प्रागभावस्याजन्यत्वात् / नापि जनकत्वम् , असम्भवात् / नापि व्यापकत्वम् / शिलाशकलेऽपि तादृशाभावस्य सत्त्वेन तत्रातिव्याप्तेः। नाऽपि व्याप्यत्वम् / कार्यसंसर्गाभावमात्रस्य सहकार्यभावाव्याप्यत्वात् / शिलाशकलादौ कार्याभावे सत्यपि सहकार्यभाव. स्यासत्त्वात् / न च कार्यप्रागभावस्तद्वयाप्यः। निमित्तासमवायिनोः कार्यप्रागभावाभावेन तद. व्याप्तेः / उच्यते। यस्य कार्याभावव्याप्यत्वमितराभावावच्छिन्नं, तत् कारणम् / बीजेऽकुराभावव्याप्यता न बीजत्वेनावच्छिद्यते, इतरसमवधाने सति बीजादडरसत्त्वात् / किन्वितराभावे प्रकाशिका। म्परया वा तद्देशाधिकरणत्वस्य विवक्षितत्वात् / न च कियत्सु घटेष्वपि रासभस्यापि नियतः सम्बन्धोऽस्त्येवेति कार्यतावच्छेदकावच्छिन्न एकजातीयः सम्बन्धो नादृष्टस्यापि द्रव्यगुणादौ तस्य. नानाजातीयतदेशसम्बन्धादिति वाच्यम् / कारणता हि प्रतिकार्य प्रतिकारणं च भिन्नेति तत्र तत्र कार्येऽदृष्टस्य नियतजातीयदेशसम्बन्धात् / न च कार्यत्वावच्छिन्नेऽदृष्टत्वेन कारणताया नेकजातीयसम्बन्ध इति वाच्यम् / तस्याः कारणतायाः साक्षात्परम्परासाधारणनानाजातीय सम्बन्धमात्रघटितत्वात् / न चसैव कारणता रासभेऽतिव्याप्तेति वाच्यम् / तस्या कारणतायामुक्त रूपविशेषकारणताश्रयत्वस्य विशेषणत्वात् / ताश्च विशेषकारणताः कार्यत्वव्याप्यधर्मनिरूपितत्वे सत्यदृष्टत्वव्याप्यधर्मनिरूपितत्वेनानुगमनीया इति न तद्घटितसामान्यकारणताननुगम इति / दिक् / यस्य कार्याभावेति / यस्यावध्यवधिमद्भावलक्षणसम्बन्धावच्छिन्नकार्याभावव्याप्यताइतरसहकारर्यभावावच्छिन्ना तदवच्छिन्नं कारणमित्यर्थः / तेन शिलात्वेऽपि संयोगावच्छिन्नाङ्कुराभा. वव्याप्यता न पिलात्वत्वेनाच्छिद्यते शिलायो कदाचिदकुरसत्त्वादिति तत्राक्तिव्याप्तिः, यत्र दण्डाभाववत्त्वं तत्रघटाभाव इति व्याप्तावधिकरणतया दण्डाभावस्यावच्छेदकतया तदवच्छिन्ने दण्डाभाववत्त्वे ऽतिव्याप्तिः, कार्याभावव्याप्यता इतरासहकृतत्वावच्छिन्ना बीजत्वस्येति तत्रातिव्याप्तिरित्यादीनि दूषणानि न भवन्ति / न च चरमकारणे कार्याभावाभावादव्याप्तिः,,चरमकारणेऽपि परामर्शादी सति प्रतिवन्धके कार्याभावात् यत्रापि न विलम्बः परामर्शादनुमितौ, तत्रापि तज्जातीयत्वमा स्त्येव, तदेव च लक्षणम् / न चैवमपि विभागकारणे कम्मणि प्रतिबन्धकस्याप्यभावादसतिरिति वाच्यम् / उत्पत्तिकालावच्छि नस्य कर्मणो विभागाभावाधिकरणत्वात् / एवं च स्वासाधारणेतर. धविच्छिन्नं यस्योक्तसम्बन्धावच्छिन्नकार्याभावव्याप्यत्वं तदवच्छिन्नं कारणमिति लक्षणवाक्यार्थः। अन्यथासिद्धानाञ्च स्वभावत एवोक्तसम्बन्धावच्छिन्नकार्याभाव इति न तत्रातिप्रसङ्गः / अत एव तदवच्छिन्नस्य धर्मिणः कारणत्वमित्यैवार्थो न तु तदवच्छेदेन कारणत्वमिति तेन न रूपवद् दण्डत्वमादायातिप्रसङ्गः / अरण्यस्थदण्डत्वं यद्यपि स्वरूपेण घटाभावव्याप्यम् , तथापि दण्डत्वमादायैव तत्र कारणता / अग्रे च बीजबीजत्वपदे वीजत्ववीजत्वत्वपरे इति दिक / ननु कार्यकारणयोरवण्यवधिमद्भावसम्बन्धे मानाभावः / प्रतीतेः कार्यकारणभावेनैवोपपत्तेरित्युत्पत्ति मकरन्दः / ऽदृष्टादेनियतत्वादिति वदन्ति / तत्रेदं चिन्त्यम् / कियरसु घटेषु रासभस्याऽप्येकजातीयसम्बन्धेन देशनियतत्वादतिप्रसङ्गः / कार्यतावच्छेदकावच्छेदेनादृष्टस्याप्यतथात्वम् / द्रव्यगुणायनेककार्य एकजातीयसम्बन्धाभावादिति // यस्य कार्याभावव्याप्यत्वमिति / इतराभावसहकारावच्छिन्नं तदवच्छिन्नं कारणमि. टिप्पणी। वसितार्थः। प्रागभावस्याजन्यत्वादिति / वंसस्योत्तरभावितयात्राप्रयोजकत्वात् कार्याभावस्य तस्य जन्यत्वमपि न किञ्चित्करमतः प्रागभावस्येति प्रागभावेत्युपलक्षणमत्यन्ताभावस्येत्यपि बोध्यम् / यस्य कार्याभावच्याप्यत्वमिति / अवष्यवधिमद्भावलक्षणसम्बन्धावच्छिन्न