________________ प्रथमस्तवके ] - अपूर्वस्य चेतनधर्मत्वाक्षेपः / प्रकाशः। थासिद्धम् ; यथा कुम्भकारेण कुम्भं प्रति तत्पिता। यमादायैव यस्यान्वयव्यतिरेको तेन तदन्यथासिद्धम् , यथा दण्डेन दण्डत्वम् / एतावदन्यथासिद्धयभावे सति यस्य नियतपूर्ववर्तित्वं, तत् कारणम् / (पृ. 150) सहकारीति / नन्वत्रात्माश्रयः सहकारित्वस्य कारणत्वात् , प्रकाशिका / तज्जन्यं यत्कार्यप्रयोजकत्वं, न यस्य गृह्यते तत्कार्य प्रति तदन्यथासिद्धमित्यर्थात् / श्रवणस्य श्रोतव्य इत्यादिशब्देन मननपूर्ववर्तितामगृहीत्वापि मुक्तिप्रयोजकताग्रहात् ,अत एव परामर्शजनकत्वेन व्याप्तिप्रहादीनां कारणत्वेऽपि नान्यथासिद्धिः। अनुमितेः करणजन्यत्वानुमानेनैव परामर्शपूर्ववर्तित्वमगृहीत्वाप्यनुमितिप्रयोजकत्वमहात् / कुम्भकारपितुः कुम्भकारपितृत्वमगृहीत्वा मानाभावे. न घटप्रयोजकत्वाप्रहाद् घटं प्रति सोऽन्यथासिद्ध इति दिक् / यमादायैवेति ।यं पृथगन्वयायननुविधायिनमवच्छेदकीकृत्य यस्यान्वयव्यतिरेको तेनान्वयव्यतिरेकवतावच्छेकमन्यथासिद्धमित्यर्थः / पृथगित्यादिविशेषणेन न दण्डरूपेण दण्डेऽन्यथासिद्धिः। प्रथमान्यथासिद्विरवच्छेदकेनावच्छेद्यस्ये यन्त्ववच्छेद्येनावच्छेदकस्येति ततो मेदः / यमित्यत्र कार्येण सहावच्छेद्यापेक्षयाऽव्यवहितसम्बन्ध मिति वा विशेषणम् / तेन दण्डावच्छिन्नस्य दण्डत्वस्यान्वयव्यतिरेकप्रहेऽपिन दण्डस्वेन दण्डेऽन्यथा सिद्धिः / अत एव नोद्भूतरूपतेजसोः परस्परमन्यथासिद्धिः। विषयतयासाक्षात्कारेण तुल्यवदुभयोः सम्बन्धत्वात् / अत एव नेन्द्रियसंयोगेनेन्द्रियान्यथासिद्धिः / विषयद्वारा तुल्यवदुभयोः साक्षा. स्कारसम्बन्धात् यथा च न दण्डत्वस्य पूर्वत्रान्तर्भावः, तथा तत्रैव व्याख्यातमिति / नियतेति / यद्धर्मावच्छिन्नकार्याव्यवहितक्षणत्वव्यापकाधिकरणताप्रतियोगित्वं यद्धर्मावच्छिन्नस्य तधर्माव. छिन्नं प्रति तद्धर्मावच्छिन्न कारणमित्यर्थः / अधिकरणता च स्वस्वप्रागभावव्यापकप्रागभावप्रतियोग्यन्यतरस्य तेन यागादेः स्वर्गकारणत्वाविरोधः / अधिकरणता च कार्यदेशावच्छिन्ना बो. व्या, तेन रासभस्य नियतघटाव्यवहितपूर्वकालत्वेऽपि न तत्कारणत्वम् / ननु तद्देशाधिकरणता साक्षात्सम्बन्धेन वा साक्षात्परम्परासाधारणसम्बन्धेन वा, भाये अदृष्टस्य घटकारणत्वं न स्यात्, अन्त्ये रासभस्यापि घटकारणतापत्तिरितिचेन / एकजातीयतानियतेन सम्बन्धेन साक्षादेव वा पर मकरन्दः। कमेव / मननव्यापारकश्रवणत्वेन हेतुत्वमिति द्रव्यप्रकाश विरोधश्च / यदि मननपूर्ववर्तित्वमशास्वाऽपि, श्रोतव्य इत्यादिशब्दादिना श्रवणपूर्ववर्तित्वग्रहसम्भवो भिन्नप्रहसामप्रीकत्वादिति नैवं, तदा प्रकृतेऽपि तुल्यमिति / यमादायेति / न च येन सहेत्यनेनाभेद इति वाच्यम् / तत्र साहित्यप्रतियोगिना दण्डेनान्वयादिप्रतियोगि रूपमन्यथासिद्धमिति हि विवक्षितम् / अत्र च साहित्यप्रतियोगिदण्डत्वमेव दण्डेनान्यथासिद्धमिति भेदात् / अत्रापीदं चिन्त्यम् / पूर्वत्रैवास्यान्तभावे वैयर्थ्यम् / उद्भूतरूपतेजसोः परस्परमन्यथासिद्धयापत्तिः / इन्द्रियादेरिन्द्रियसंयोगा. दिनाऽन्यथासिद्धयापत्तिश्च / किष्च दण्डत्वाद्यवच्छेदकसमनियतधर्मान्तरमादायापि शब्दादिनाऽन्वयादिप्रहसम्भवान्नियमासिद्धिः / प्रत्यक्षपरत्वेऽतीन्द्रियावच्छेदकाऽव्याप्तिः / अन्यथा दण्ड. मादाय दण्डत्वेन तस्यान्वंयादिप्रहात्तेन दण्डान्यथासिद्धपापत्तेरिति / नियतेति / ननु नियतत्वं देशमपेक्ष्य कालमपेक्ष्य वा ? / नाय; / रासभेऽपि गतत्वात् / घटपटादिपूर्वकाले रासभजातीयस्य नियमेन सत्त्वात् / नान्यः / साक्षात्सम्बन्धेनादृछादेर्घटा. दिदेशेऽनियतत्वात् / साक्षात्परम्परासाधारणसम्बन्धमात्रापेक्षया रासभे घटादिदेशनियतत्वेना. तिप्रसङ्गादिति चेत् / मैवम् / साक्षात्परम्परासाधारणकजातीयसम्बन्धेन देशनियतत्वस्य विवक्षितत्वात् / रासभादेरेकजातीयसम्बन्धेन घटादिदेशनियतत्वाभावाद घटादेरेकजातीयसम्बन्धेना