________________ 162 व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाअलौ [ 13 कारिकाव्याख्यायो प्रकाशः। गन्धं प्रति गन्धकादाचित्काभावस्य नियतपूर्ववर्तित्वकल्पनाद् गन्धं प्रति पाकजस्थले रूपप्रागभावादीनाम् / यत्र च जन्यपूर्वभावे ज्ञाते जनकस्य पूर्वभावो ज्ञायते, तत्र जन्येन जनकमन्य. प्रकाशिका। समवधाननियतत्वेनान्यत्रेत्यायभावादनेकद्रव्यत्वेऽव्याप्तिः, पूर्ववर्तिन इति पञ्चम्यर्थहेतुता. घटितत्वेनात्माश्रयः, रासाभादेरप्येवमन्यथासिद्धतया नियतपदस्य कारणतालक्षणे व्यावाभावेन व्यर्थत्वमित्यादीनि दूषणान्यनवकाशानि / नियतयद्धर्मविशिष्टस्यावश्यकल्प्यत्वं तदवच्छिन्नसमवधाननियतत्वं यद्धर्मावच्छिन्नस्येति वार्थः / तेन रूपवत्वेन न दण्डस्य कारणत्वमित्यपि सिद्धं भवति / यथा च दण्डरूपाकाशयोरत्र न प्रवेशः, तथा पूर्वान्यथासिद्धिलक्षणद्वयनिरुक्तावेव व्याख्यातम् / न चामिमान्यथासिद्धिसंप्रायस्य दण्डत्वस्यानयैव संग्रहात् तद्वैयर्थ्य मिति वाच्यम् / चक्षुःसंयोगकारणत्वेऽवच्छेदकीभूतस्य चक्षुषोऽन्यथासिद्धत्वं स्यादिति भयेनावच्छेदकभिन्नत्वस्य विशेषणतया दण्डत्वस्यैतद्वहिर्भावात् / नन्ववश्यकरुप्यत्वं नियतपूर्ववत्तित्वमात्रेण कारणतया वा, नायः, गन्धं प्रति रूपप्रागभावस्य तथात्वेन तत्सहभूतस्य गन्धप्रागभावस्यान्यथासिद्धथापत्तेः / नान्त्यः, आत्माश्रयादिति चेत् / न / अवध्यवधिमद्भावलक्षणसम्बन्धवाच्छिन्नत्वेनावश्यकरुप्यत्व. स्य विवक्षितत्वात् / न च तदेव कारणत्वमिति वाच्यम् / बीजादकुरोत्पत्तिरिति प्रतीतिबलेनोत्पत्तेरपि सावधिकतया तस्याश्चाहेतुकतया तादृशसम्बन्धस्य कारणताभिन्नत्वात् / न च कार्यकारणयोस्तादृशसम्बन्धे मानाभावः प्रतीतेहेतुहेतुमद्भावेनैवोपपत्तेरिति वाच्यम् / उत्पत्तिनिरूपिततादृशस. म्बन्धावच्छिन्नत्वस्यैव प्रकृतनिरुक्तिप्रवेशात् / न च सहकारिणां परस्परमन्यथासिद्धिरुभयोरवश्यकरुप्यसमवधाननियमादिति वाच्यम् / तादृशसम्बन्धावच्छिन्नत्वेनावश्यकरुप्यत्वस्य प्रकृते विशेषणवात् ।गन्धकादाचित्काभावस्यति / गन्धप्रागभावस्येत्यर्थः / यत्र चेति / जन्यं नियतोत्तरवर्तिनं प्रति पूर्वभावे नियते ज्ञाते तत्पू वर्तिनो यं प्रति पूर्वभावो ज्ञायते इत्यर्थस्ोन नात्माश्रय शङ्का, अन्यं प्रतीत्यत्र च यथा नैतत्प्रवेशस्तथा तत्रैव व्याख्यातम् / न चैवं मननव्यापारकप्रवणत्वेन कारणत्वं न स्यादन्यथासिद्धेरिति प्रकाशविरोध इति वाच्यम् / जन्यपूर्ववर्तिस्वग्रहमन्तरेण मकरन्दः / नामन्यथासिद्धिर्भवति / अत एव पञ्चम्या हेतुत्वाभिधानादात्माश्रय इत्यपास्तम् / पूर्ववर्त्तिन इत्यत्र पञ्चम्या अवधित्वेन तस्योक्तत्वादित्यन्ये / अत एव च रासभादेरपि यथाश्रुतान्यथासिद्धान्त - वेऽनन्यथासिद्धपदेनैव तद्वारणं नियतपदं व्यर्थमित्यपास्तम् / नन्वेवं दण्डकपाकाशदण्डत्वानामप्यत्रैवान्तर्भावे तत्संप्राहकान्यथासिद्धीनामानर्थक्यम् / किञ्चावश्यकरुप्यत्वं नियतपूर्ववर्तित्वमात्रेण, कारणतया वा ? नायः / गन्धं प्रति रूपविशेषप्रागभावस्यापि तथात्वेन तेनैव गन्धप्राग. भावाऽन्यथासिद्धथापत्तेः / नान्यः / आत्माश्रयात् / अपि च सहकारिणी परस्परस्य परस्परेणान्यथासियापत्तिः, द्वयोरप्यवश्यकरुप्यलघुनियतपूर्ववर्तित्वेन तत्समवघाननियतत्वात् / न च पृथगन्वयायननुविधायित्वे सतीत्यपि विशेषणम् / तद्धि पृथगन्वयादिप्रहाविषयत्वं वा समनिय. तत्वं वा ? नायः / रूपप्रागभावस्यापि शब्दादिना तादृशप्रहविषयत्वेन तथात्वापत्तेः / नान्त्यः / आलोकतद्रूपादेरीश्वरज्ञानादेश्चैवमपि परस्परमन्यथासिद्धयापत्तेः / एतेनावश्यकल्प्यपूर्ववर्तिन एव कार्वसम्भवे तन्निवतसहभूतत्वमित्यर्थः / पञ्चमी चावधित्वे,न हेतुत्वे इत्यपास्तमिति चिन्त्यम्॥ गन्धकादाचित्काभावस्येति / गन्धप्रागभावस्येत्यर्थः / यत्र च जन्येति / जन्यजनकत्वं वास्तवं नियतपूर्ववर्तित्वमानं विवक्षितमिति नात्माश्रयः। इयश्च तपितृत्वेनान्यथासिद्धि. जेण्या। कुलालस्वेन तस्यापि हेतुत्वात् / अत्रापीदं चिन्त्यम् / पूर्वत्रैवास्यान्तर्भावे वैयर्थमित्युः