________________ प्रकाशः। प्रथमस्तवके ] .. मपूर्वस्य चेतनधर्मस्वाक्षेपः। . 161 यदि, तदा न विवदामहे / अस्मदभिप्रेतस्य चाभावादेरनुग्राहकत्वमङ्गीकृत्य बोधनी। बुद्धावनारोहदोष इति / तर्हि सम्प्रतिपत्तौ न विवाद इत्येतत् तदवस्थमित्यत आह-यदि-इति। प्रतिबन्धकापाकरणीयः कश्चिदधिको मीमांसकस्यापि सम्प्रतिपन्न इति कृत्वा यदि वयं न विवदामहे ततः सोऽधिकः प्रमाणसिद्धः प्रतिबन्धकाभाव एव भविष्यतीति / अस्मदभिप्रेतस्यैवानुप्राहक. त्वमङ्गीकृत्य ततोऽधिकभावे निःसाधनको मीमांसकोऽपि न विप्रतिपत्तमहंतीति। एके व्याचक्षते सम्प्रतिपन्नाग्न्याद्यतिरिक्तसहकार्यपेक्षं कार्यमिति मीमांसको यदि ब्रूयात् नास्माकमत्र विवाद इत्याह-तत्रापि-इति / यदि च नैयायिकोक्तं प्रतिबन्धकाभावादेः सहकारित्वं मीमांसकोऽजीकुर्यात् तदा प्रतिवन्धकाभावसहितायाः सामप्रथाः कार्थव्यभिचाराभावात् तदतिरिक्तकल्पनं निप्रमाणकमिति निःसाधनो मीमांसको न विप्रतिपत्तुमर्हतीत्याह-अस्मदभिप्रेतस्य च-इति / अन्यत्र क्लुप्तपूर्ववर्तिन एव कार्यसम्भवे तत्सहकृतत्वम् / यथा गन्धवति गन्धानुत्पादाद प्रकाशिका। सामान्यत उपादानगोचरज्ञानत्वेन पूर्णवर्तित्वप्रहाच्चेति दिक् / मन्यत्रेति / अवश्यपरिकल्पनीय. नियतपूर्णवर्तिसमवधाननियतत्वमित्यर्थः / तेन महत्वानेकद्रव्यत्वयोर्बहिरिन्द्रियजन्यसाक्षात्कार मकरन्दः / विशेषणात् / तत्पूर्ववर्तित्वानुपपादकं यस्य पूर्ववर्तित्वं गृह्यते इत्यर्थादित्यन्ये / न च परत्वादि. पूर्ववर्तित्वमहानन्तरमन्यकायें दिक्कालयोस्तद्वदित्यन्यथा सिद्धथापत्तिः / अधिकरणत्वेन तद्ग्रह विनाऽपि कार्यमात्रे तद्महात् / नन्वन्यं प्रति पूर्ववर्तित्वे गृहीत एवेत्यत्र किं येन केनचित् ? सर्वे. ण वा ? नाद्यः / दण्डादावतिप्रसत्रात् / नान्त्यः / शब्दोऽष्टद्रव्यातिरिक्तद्रव्याश्रितोऽष्टद्रव्यानात्रितत्वे सति गुणत्वादित्यनेनाकाशसिद्धौ शब्दपूर्ववर्तित्वाग्रहेऽपि घटं प्रति तद्ग्रहसम्मवात् / न च तत्रापि शब्दं प्रति कारणतामुपजीव्यैवाकाश सिद्धिः। शब्दनित्यत्वानित्यत्वसन्देहेऽपि तदाश्रयत्वेन तत्सिद्धयविरोधात् / अनुकूलतर्कान्तरसम्भवाच्च / वस्तुतः, शब्दनित्यत्वनिर्णयवतो मीमांसकस्य तत्पूर्ववर्तित्वमज्ञात्वैव घटादिपूर्ववर्तित्वग्रह इति नियमासिद्धिः / किञ्च, द्रव्यत्वेनैवाकाशस्य संयोग इव ज्ञानादौ हेतुत्वमस्तु / न च तत्र प्राहकाभावेन नियतपूर्ववर्तित्वाग्रह इति वोच्यम् / प्राह्यसत्त्वे प्राहकाभावासत्त्वात् / न च तेनैव रूपेणान्योत्पत्रान्तर्भवतीति वाच्यम् / तथा सस्याकाशत्वेनापि तथात्वापत्तेः / अपि चैवं शब्दसाक्षात्कार प्रत्यपि तस्यान्यथासिद्धिः स्यात् / न च शब्दपूर्ववर्तितामज्ञात्वाऽपि इन्द्रियत्वेन तत्पूर्ववर्तित्वप्रह इति वाच्यम् / श्रोत्रत्वे न तथाप्यन्यथासिद्धयापत्तेः। तस्याकाशघटितत्वादाकाशस्य च शब्दपूर्ववर्तित्वप्रहं विनाभ्युपपगमात् / अन्यथा घटेऽपि तस्यान्यथासिद्धत्वं न स्यात् / एवञ्च पाञ्चभौतिक शरीरं प्रत्यपि तदन्यथासिद्धं स्यात् / किम्चेश्वरज्ञानादेः क्षितिपूर्ववर्तित्वे ज्ञात एव घटपूर्ववर्तित्वप्रहात्तत्रान्यथासि. यापत्तिः / न च कार्यमाने कर्तृमात्रस्यैकदैव पौर्वापर्य्यप्रहाचैवमिति वाच्यम् / प्रकृतेऽपि विभु. मात्रस्यैकदैव पौर्वापर्यग्रहस्य शब्दादिना सम्भवादन्यथासिद्धयभावापत्तेः / विभुत्वेन पूर्ववर्तित्वमानं गृह्मते, न तु जनकत्वमिति चेत् / ततः किम् ? न हि जनकत्वगर्भा प्रकृतान्यथासिद्धिः, आत्माश्रयापत्तेः / यत्तु अन्यमित्यस्य यमित्यर्थः / तेन यं प्रति पूर्ववर्तित्वे गृहीत एवेत्यर्थः, न च क्षित्यादिस्तथा / अन्यतमपूर्ववर्तित्वप्रहेणापि सम्भवेन नियमाभावात् / तत्र शब्दत्ववदत्राप्यनु गतपक्षतावच्छेदकस्याऽन्यतमत्वादेर्वा सम्भवादिति चिन्त्यम् // भन्योति प्रायिकम् / अवश्यकल्प्यं यल्लघु नियतपूर्ववर्ति, तत् समवधाननियतत्वं तत्वमित्यत्र तात्पर्यम् / तेन गुणेन दोषाभावस्य महत्त्वेनानेकद्रव्यत्वस्यान्येषां वा गुरूणां पदार्था२१ न्या० कु०