________________ 110 व्याख्यात्रयोपेतप्रकाशबांधनीयुतेन्यायकुसुमाञ्जलौ [13 कारिकाव्याख्याया प्रकाशः। यस्य यं प्रति पूर्ववर्तित्वज्ञानम् , यथा घटं प्रति दण्डरूपस्य / अन्य प्रति पूर्ववर्तित्वे ज्ञात एव यस्य यं प्रति पूर्ववर्तित्वज्ञानम् , यथा शब्दं प्रति पूर्ववर्तित्वे ज्ञात एव घटं प्रत्याकाशस्य / प्रकाशिका। प्रसङ्ग इति अवश्यकल्पनीये स्वावच्छेदकभिन्नत्वस्यापि विशेषणात् / अन्य प्रतीति / अन्यम् उदासीनमित्यर्थः, तेन कुम्भकारपिता नास्यामन्यथासिद्धौ प्रविशतीति तदर्थमन्यथासिद्धयन्तरमुक्तम् / मननव्यापारकश्रवणत्वेन कारणत्वरक्षार्थमुदासीनत्वविवक्षाया आवश्यकत्वात् / न चापूर्वे यागस्या न्यथासिद्धिः स्वर्गापूर्ववर्तितामहोत्तरमेव तस्य तत्पूर्ववर्तित्वग्रहादिति वाच्यम् / यं प्रत्यन्यथासिद्धस्वं तनिरूपितनियतोत्तरवर्तित्वनियतपूर्ववर्तित्वान्यान्यशून्यस्थोदासीनपदार्थत्वात् / पूर्ववर्तित्व इत्यत्र साक्षादिति विशेषणाद्वा / तत्पक्षे च नियतपूर्ववर्तिभिन्नस्योदासीनपदार्थत्वमित्यवधेयम् / मिश्रास्तु यस्य पूर्ववर्तित्वमित्यत्र तत्पूर्ववत्तित्वानुपपादकमिति विशेषणमित्याहुः। न च परत्वादि पूर्ववर्तित्वप्रहोत्तरमेव कालादेः कार्यान्तरपूर्ववर्तित्वग्रह इति तत्र कालादेरन्यथासिद्धयापत्तिः, तत्पूर्ववर्तिताग्रहं विनापि अधिकरणत्वेन कार्यमात्रे घटं प्रति कपालकारणत्वग्रहे तद्ग्रहात् / एतेन संयोग प्रति आकाशस्यान्यथासिद्धिः स्यादित्यपास्तम् / द्रव्यत्वेन सामान्यत एव तद्ग्रहसम्भ. वात् , आकाशत्वेनान्यथासिद्धत्वस्यैष्टत्वात् / ननु शब्दपूर्ववर्तित्वग्रहं विनापि शब्दोऽष्टद्रव्यातिरिकद्रव्याश्रितो अष्टानाश्रितत्वेसत्याश्रितत्वादित्यनुमानेनाकाशोपस्थितौ तस्य घटपूर्ववर्तित्वप्रहात् तं प्रति कथमाकाशमन्यथासिद्धम् / न चात्राप्यनुमाने शब्दपूर्ववर्तित्वमेव विपक्षवाध. कमिति वाच्यम् / तथा सति मीमांसकाना 'शब्देनाकाशसिद्धिप्रसनादनुकूलतर्कान्तरस्यावश्यवाच्यत्वादिति चेत्र / नियतजातीयसिद्धयधीनसिद्धिकस्य तज्जातीयान्य कार्य प्रत्यन्यथासिद्धिस्तेन. रूपेणेति विवक्षितत्वात् / नियतजातीयत्वञ्च गुणत्वव्याप्यजात्या / नन्वेवमपि द्रव्यत्वेन ज्ञानं प्रत्याकाशस्य कारणत्वमस्तु, न च तत्र प्राहकाभावः, ग्राह्यसत्त्वे तस्यावश्यकत्वादिति चेन्न / तेन रूपेणान्यत्रेत्यादावन्तर्भावात् / न चाकाशत्वेनापि तत्रैव प्रवेशोऽस्तीति वाच्यम् / अवश्यकल्प्यपूर्व वर्तिनियपसहवृत्तिधर्मवत्त्वस्य तदर्थत्वात् / आकाशस्य चावृत्तित्वेनाकाशत्वस्यातथात्वात् / न च शब्दसाक्षात्कार प्रत्यपि श्रोत्रस्यान्यथासिद्धिः स्यात् शब्दपूर्ववर्तिताग्रहोत्तरं तत्पूर्ववर्तिताप्र. हादिति वाच्यम् / इन्द्रियत्वेन पूर्वमपि पूर्ववर्तिताग्रहात् / न च श्रोत्रत्वेन तथाप्यन्यथासिद्धिरितिवाच्यम् / अवध्यवधिमदभावावच्छेदकधानाश्रयत्वे सतीति विशेषणात् ।श्रोत्रस्य च सामान्यतः शब्दसाक्षात्कार प्रति तथात्वात् ईश्वरज्ञानादीनां क्षितिपूर्ववर्तित्वग्रहानन्तरमेव घटपूर्णवर्तिता. प्रहात् तत्र तदन्यथासिद्धिः स्यादिति दृषणं दूरपरास्तम् / नियतजातीयसिद्धपधीनसिद्धिकत्वात् मकरन्दः। अन्यं प्रतीति / न चैव संयोगादिकमपि प्रत्याकाशस्यान्यथासिद्धत्वप्रसङ्गः / आकाशस्वे. नेष्टत्वात् / द्रव्यत्वेन शब्दपूर्ववर्तितामज्ञात्वाऽपि तत्पूर्ववर्तित्वमहात् / नन्वेवं यागादेरपूर्वेऽन्यथासिद्ध्यापत्तिः / स्वर्ग प्रति पूर्ववर्तित्वे ज्ञात एव तत्र तद्ग्रहादिति चेन्न / साक्षादिति पूर्ववर्तित्व ___टीप्पणी। त्वस्य सिद्धान्तसिद्धः श्रावणज्ञानस्य मननेनान्यथासिद्धत्ववारणाय तस्यैत्यत्र अनियतपूर्ववर्तिः भिन्नत्वं विशेषणं देयम् तथाच कुलालपितुरपि वारणम् / एवञ्च तत्तद्धर्मावच्छिन्ननिरूपितस्वतन्त्रान्वयव्यतिरेकशून्यत्वे सति तादृशान्वयव्यतिरेकबद्धम्मोवच्छिन्ना या स्वनियतपूर्ववर्तिभिन्ननिष्ठा तत्तदूषविच्छिन्ननिरूपितनियतपूर्ववर्तित्वप्रहविशेष्यता तदाश्रयत्वं प्रथमान्यथासिद्धः पर्य