________________ प्रथमस्तवके ] . अपूर्वस्य चेतनधर्मत्वाक्षेपः / 154 प्रकाशिका। दकेनावच्छेद्यमन्यथासिद्ध मित्यर्थोऽप्रे तु विपरीतमिति भेदात् / न चोद्भूतरूपतेजसोरेकेनापरस्यान्यथासिदिः / तत्रोभयोरुभयावच्छेदेनैव पूर्ववर्तित्वग्रहात् पृथगित्यादि विशेषणेनैव निरासात् / ननु कुम्भकारपित्तृत्वेनापि कारणत्व इयमेवान्यथा सिद्धिरिति किमिति तत्संग्राहकान्यथासिद्ध्यन्तराभिधानमिति चेत् न / यस्येत्यत्र स्वनियतपूर्ववर्तिभिन्नस्येति विशेषणात् मननव्यापारकश्रवणत्वेन कारणत्वरक्षार्थमेव तद्विशेषणस्यावश्यकत्वात् / न च तथापि रूपत्वेन दण्डरूपस्य कारणत्वमस्तु तत्रोक्तान्यथासिद्धिविरहादिति वाच्यम् / तेन रूपेणान्यत्रेत्यायन्यथासिद्धावेव प्रवेशात् / न च दण्ड. रूपत्वेनापि तदन्यथा सिद्धिप्रवेशोऽस्तु तथा च किमनयान्यथासिद्धयेति वाच्यम् / तत्र यवश्यकल्पनीय पूर्ववर्तिसाहित्यनियतत्वमित्यर्थः / तथा सति उद्भूतरूपतेजसोरुभयोरुभाभ्यामन्यथासिद्धि मकरन्दः / दण्डपूर्ववर्तित्वप्रहात्तेन दण्डस्यान्यथासिद्धिरस्त्विति वाच्यम् / येन पृथगन्वयवता सहेत्यर्थात् / अत्रापृथगन्वयादिमत इत्यपि यस्येति विशेषणं देयम् / तेन दण्डेन दण्डसंयोगस्य नान्यथासिद्धिः / एतद्विशेषणद्वयमहिम्नैव यत्रोभयोरुभयविशेषणावच्छेदेनवान्वयायनुविधानं, तत्र नैकेनापर. स्यान्यथासिद्धिः, यथोद्भूतरूपतेजसोरिति / यत्रोभयविशेषणावच्छेदेनान्वयाधनुविधान, तद्भिन्नस्वेन विशेषणान्न तादृशस्थलेऽतिप्रसङ्ग इत्यन्ये / ननु रूपवत् कुम्भकारपिताऽप्यत्रैवान्यथासि. द्धावन्तर्भवति, कुम्भ कारत्वेन तदनन्यथासिद्धत्वस्येष्टत्वात् कुम्भकारपितृत्वेनैव तदन्यथासिद्धित्वं वाच्यम् / तत्र तत्साहित्यनियमाद् अन्यं प्रतीत्यत्राप्यन्तर्भावयितुं शक्यते / कुम्भकारं प्रति पूर्व. वर्तित्वे ज्ञात एद तस्पितृत्वेन घटपू वर्तिस्वाहात् / तथा च तत्संग्रहार्थमन्यथासिद्ध्यन्तरोपवर्णनमयुक्तम् / एवञ्च एतत्त्वेनान्यथासिद्धस्यापि कुम्भकारत्वनेव दण्डरूपत्वेनान्यथासिद्धस्यापि रूपत्वादिनाऽनन्यथासिद्धत्वमस्तु / ननु तदतिप्रसक्तमिति चेत् / तत् किमतिप्रसक्तत्वमप्यन्यथासि. द्विः ? तथा चानन्यथासिद्धत्वनियतपूर्ववर्तित्वयोरप्रतिक्षेपे किं तेन ? किन्च, फलानुपहितवृत्तिस्वस्यातिप्रसक्तत्वस्य दण्डत्वादिसाधारणत्वाद् एतादृशस्य चाभावात् / न च तेन रूपेणान्यत्र क्लप्तेत्यत्रान्तर्भवतीति वाच्यम् / तर्हि दण्डरूपत्वेनाऽपि तथाऽस्तु / एवञ्च दण्डसाहित्येनैव दण्डवत्त्वेन घटपूर्वववर्तित्वप्रहाद्दण्डत्वमप्यत्रान्तर्भवति / यदि च रूपान्तरेण तस्य तदाहे साहित्यनियमाभावान्न तथा, तदा दण्डरूपेऽपि तुल्यम् / तथा च तत्संग्रहार्थमपरान्यथासिद्धिनिर्वचनमप्यसतम्। अत एवावच्छेदकजनकजनकयोरपि त्रयेणैव संग्रहसम्भवात् त्रिधैवान्यथासिद्धिरितिगङ्गेशः / न चोभयेनापि तत्संग्रहे को दोष इति वाच्यम् / कारणस्वस्य तदभावगर्भवे गौरवादिति चिन्तनीयम् / टिप्पणी। घटान्तर्भावेण महत्त्वसम्बन्धात् / उष्मरूपवह्नयादिरूपयोरूपत्वस्यैक्यात् उद्भूतरूपसम्ब. न्धस्य वह्नयन्तर्भावेण सत्त्वात् परमाण्वादिनीलान्तभावेण नीलत्वादिप्रत्यक्षापत्तिः / एवं यत्रैकदेशावच्छेदेन चक्षुःसंयोगोऽपरदेशावच्छेदेनाऽऽलोकसंयोगस्तत्र प्रत्यक्षापत्तिरतः प्रत्यक्षकारणानां महत्वोद्भूतरूपालोकादीनां विशेष्यविशेषणभावापन्नानां कारणत्वं वाच्यम् / तथा चैकेनापरान्यथासिद्धिप्रसको वारितः। एतेनान्वयव्यतिरेकप्रयुक्तान्वयव्यतिरेकशालिस्वरूपस्य तस्य तत्राभावात् तेषां परस्परविशेष्यविशेषणभावेन विशिष्टयत्वस्य विशेषणसवाधीनत्वात् समवायेन कपालद्वयसंयोगसत्त्वस्य कपालसत्वाधीनत्वेन पृथगन्वव्यतिरेकवत्त्वात् पृथगितिसत्त्वेन तस्यान्यथासिद्धिवारणम् , अवच्छेदकीभूतत्वविशेषणेन दण्डत्वेन दण्डस्यान्यथासिद्धत्वात् संप्राहकमन्यथासिद्ध्यन्तरानुधावनं विफलमिति निरस्तम् / ननु कुलालेन कुलालपितुरत्रैवान्तर्भावस्तत्समाहकान्यथासिद्धयनुधावनं व्यर्थमिति चेत् / न / मोक्ष प्रति मननब्यापारकश्रवणात्तेन हेतु