________________ 158 व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [13 कारिकाव्याख्यायो प्रकाशः। कार्यमात्रवृत्तिजातित्वात् , घटत्ववत् / स एव सर्वमुक्तिकालः / अन्यथासिद्धिश्च पश्चथा / येन सहैव प्रकाशिका। स्ता। घटत्ववदिति / युगपत् सर्वत्र ब्रह्माण्डप्रलयपक्ष घटत्वं दृष्टान्तः / अन्यथा तु चैत्रत्वादिक दृष्टान्त इति ध्येयम् / ननु गन्धानधिकरणकालसिद्धावपि तदवृत्तित्वं प्रागमावस्य कथं प्राचं प्रत्य. संशब्दयोरभावात् , अनुमानस्य च साध्यप्रसिद्धिमन्तरेणाप्रवृत्तेरिति चेत् न, प्रागभावत्वावच्छिन्नो गन्धानधिकरणकालावृत्तिः गन्धप्रागभावाविति प्रतीतिविशेष्यत्वात् गन्धवदित्यनुमानेन तद्प्रहात् प्रतीतिविशेषविषयाभावत्वमेव च प्रागभावत्वमतो नान्योन्याश्रयायवकाशः, पक्षनिर्वचने. तत्पुरुषीय तत्कालीनत्वमेव च प्रतीतेक्वकिमिति न विषयप्रतीत्योः परस्परव्यावर्तकत्वेनान्योन्याश्रयः, प्रतीतिश्चेत् प्रागभावीयेदानी स्मृतेत्यनादितैव इयञ्च कल्पना भविष्यतीति मीमांसका. दिसाधारणप्रतीत्यनुरोधेन गन्धे च साध्यं प्रकाशोक्तानुमानसिदमेव गन्धे तत्तत्कालावृत्तित्वस्य तत्तत्काले गन्धानधिकरणत्वप्राहकेन तेन समानसंविसंवेद्यतया विषयीकरणात् विपक्षबाचकं च प्रागभावस्य विनाशत्वनियम एवाविनाशे च प्रागभावत्वव्याघात इति / ननु गन्धानधिकरणकालेऽपि कर्मप्रागभावानुवृत्तिसन्देहेनाव्याप्तिसन्देहादलक्षणमिदमत आह स एवेति / तथा च कोऽपि प्रागभावो न तदेति नाव्याप्तिरिति भावः / ननु युगपन्नाशे मानाभावः, यावद्गन्धनाशो हि यावददृष्टनाशात् कालविशेषद्वारा वाच्यः, स च सर्वनाशे साधारण एवेत्याशयात् पूर्वोक्तदोषभयेन योगार्थमपहाय रूढया अन्यथासिद्धपदार्थमाह / अन्यथासिद्धिश्चेति / एतनिर्वचनञ्च निरुक्तकारणतालक्षणानुसारेण, स्वरूपसम्बन्धात्मककारणताभ्युपगमे तु नैतदुपयोग इति मन्तव्यम् / येन सहैवेति / येन पृथगन्वयादिमताऽवच्छेदकीभूतेन सह यस्यापृथगन्वयादिमतः पूर्ववर्तित्व गृह्यते तेन तदन्यथासिद्धमित्यर्थः। पृथगित्यादिविशेषणेन दण्डत्वेन न दण्डायन्यथासिद्धिः, अपृय. गित्यादिविशेषणेन न दण्डेन दण्डसंयोगोऽन्यथासिद्धः। घटं प्रति अवच्छेदकीभूतेनेति विशेषणा. इण्डत्वस्याप्यनेनैव संग्रहे तत्संग्राहकान्यथासिद्धयन्तरवैयर्थ्यमिति दूषणमपास्तम् / अत्र यवच्छे. मकरन्दः। स एवेति / नन्वत्र मानाभावः, युगपत्राशे मानाभावात् / तथा च यावद्गन्धनाशानन्तर. मपि वस्त्वन्तरसत्त्वसम्भावनया तत्प्रागभावस्य गन्धानाधारत्वसंशयेन तरकारणेऽपि तदूगर्भकारणत्वलक्षणाऽव्याप्तिसन्देहः / एवञ्च व्यर्थविशेषणतासन्देहात्तद्वारणाय विशेषणमप्यदेयमिति / अत्राहुः / यावद्गन्धनाशो ह्यदृष्टाभावात् / अन्यथा संयोगविभागयोरन्योन्यनाश्यतयान्यतराव. स्थितौ सर्वमुक्तयनुपपत्तेः / तथा च सर्वादृष्टाभावाद् यावत्कार्याभावो वाच्य इति युगपदेव सर्वना. श इति / कारणेतरत्वेनेत्यादिदोषभिया योगार्थमपहाय रूढमन्यथासिद्धिपदार्थमाह / अन्यथा. सिद्धिश्चति / ___ येन सहैवेति / ननु शब्दादिना दण्डपूर्ववर्तित्वज्ञानं विनापि तद्रूपपूर्ववर्तित्वप्रहसम्भवा. नियमोऽसिद्धः / न च प्रत्यक्षेणेति विशेषणीयम् / अतीन्द्रियान्यथासिद्ध्यव्याप्तेः / नियमाविवक्षा. यो दण्डरूपेणैव दण्डस्यान्यथासिद्ध्यापत्तेरिति चेन्न / रूपत्वमात्रस्यातिप्रसक्ततया दण्डरूपत्वेनैव पूर्ववर्तित्वग्रहो वाच्यः। तथा च साहित्यनियमात् / न चैवं द्रव्यत्वादेर तिप्रसत.तया दण्डत्वेनैव टिप्पणो। लक्षणन्तु सहकारिवैकल्येत्यादि वक्ष्यतीति न किमप्यनुपपन्नमिति ध्येयम् / येन सहैवेति / येन पृथगन्वयादिमता अवच्छेदकीभूतेन यस्यापृथगन्वयादिमत इत्यर्थः / यथाश्रुते दण्डत्वेन दण्डोऽन्यथासिद्धः स्यात् / पृथगिति विशेषणात् परमाण्वादिनीलघटादिनीलयोनीलत्वस्यैक्याद