________________ प्रथमस्तवके ] . मपूर्वस्य चेतनधर्मस्वाक्षेपः / प्रकाशः। कावृत्तिरभावः प्रागभावः / न च तत्र मानाभावः। गन्धत्वं स्वाधिकरणानधिकरणकालवृत्ति, प्रकाशिका। दोषत्वात् / वस्तुतोऽननुगमोऽपि न, कालोपाधिविशेषघटितत्वात् प्रागभावस्य स च नौलानाधारत्वेन वोपलक्ष्यतो गन्धानाधारत्वेन वेति न कश्चिद् विशेषः, उपलक्ष्यस्यैकत्वात् / केचित्तु प्रागमावगर्भ कारणत्वं लक्ष्यतावच्छेदकं, लक्षणं तु सहकारिवैकल्येत्यादिवक्ष्यमाणमिति नाननुगमादिदोषाशङ्केत्याहुः / स्वाधिकरणेति। स्वाधिकरणत्वावच्छिन्नभिन्नवृत्तीत्यर्थः / गन्धवृत्तितया सिद्धसाधनवारणाय कालपदम् ।कार्यमात्रेति।आत्मत्वादौ व्यभिचार इति कार्येति / सत्तादौ व्यभिचार इति मात्रेति। ध्वंसवे व्यभिचार इति जातीति / तदर्थश्च समवेतत्वमांत्रमितरदलप्रवेशस्य व्यर्थत्वात् कार्यत्वं च क्षेमसाधारणकृतिसाध्यत्वमात्रमतः प्रागभावप्रतियोगित्वरूपं कार्यपदार्थमादायान्योन्याश्रयशङ्कापा. . मकरन्दः। चिच्छब्दाश्रयत्वेन कदाचिदष्टद्रव्यातिरिक्तद्रव्यत्वेनेतिवत् कदाचिन्नीलाधारस्वेनापि समयविशेषो. पलक्षणान्न काऽपि क्षतिः / तत्समयविशेषावृत्त्यभावावच्छिन्नसमयत्वस्यैव हेतुत्वरूपतया च न प्रवृत्त्यननुगम इति वदन्ति / स्वरूपसम्बन्धविशेषः कारणता प्रतियोगित्वादिवत् , तत्परिचायक एवायं धर्मविशेष उक्त इत्याहुः / / स्वाधिकरणेति / स्वाधिकरणतावच्छिन्नेत्यर्थः। अत एव गन्धवृत्तित्वेन सिद्धसाधनवारणाय, कालेति / आत्मत्वादौ व्यभिचारंवारणाय कार्येति / द्रव्यत्वादी व्यभिचारवारमाय मात्रेति / ध्वसत्वादौ व्यभिचारवारणाय जातीति / जातिपदार्थनिर्वचने यदि व्यर्थत्वशा तदा तावन्मात्र एव तात्पर्यम् / ननु कार्यत्वं प्रागभावप्रतियोगित्वमित्यन्योन्याश्रय इति चेन्न / प्रागभावसाधारणकृतिसाध्यत्वमात्रस्य तत्वेनाभिमतत्वादित्याहुः / खण्ड. प्रलयवृत्तितया घटत्वस्य दृष्टान्तत्वम् / तदसिद्धावपि चैत्रत्वादेष्टान्तत्वं बोध्यम् / ननु सिदपतु गन्धानाधारसमयस्तथापि प्रागभावस्य तदनधिकरणत्वं कथं प्राह्यम् ? न हि तत्र प्रत्यक्षमागमो वा सम्भवति / अनुमानञ्च सम्भवेत् तत्प्रसिद्धयुत्तरम् / तथा चानुमानप्रवृत्तौ प्रागभावस्वेन धीस्तस्याच्चानुमानप्रवृत्तिरित्यन्योन्याश्रय इति चेन्न / तादृशसमयो नास्तीति निर्णयवतो मीमांसकस्य, भविष्यतीति बुद्धिनिरुतातिरिक्तरूपेण प्रागभावस्यावश्यं तबुद्धिविषयत्वात्तेन रूपेण तद्बुद्धिविषयत्वेन वोपस्थितस्य प्रागभावस्य लिङ्गाभासादिनापि तादृशसमयानाधारत्वमिति सम्भवाद् गन्धस्यैव दृष्टत्वात् / यद्वा, कादाचित्काभावत्वेनैवोपस्थितस्य तदनुमान बसशे बाधादेवानुमानात् / तदनवतारे तदंशे भ्रमत्वेऽपि न क्ष तिरिति / टिप्पणी। अनुगतप्रागभावत्वम्चेदं स्वमतेनैव / अन्यथा तु शब्देनापि प्रतियोग्यनुगतीकृत्य तत्तत्प्रागभावघटित कारणताया एवाभिधानात् / अन्यथा विषयस्य ज्ञानेनैव कार्येण कारणस्य स्वरूपसम्बन्धविशेषः कारणत्वं तज्ज्ञानेनैव प्रवृत्यादिनिर्वाहः / प्रागभावघटितकारणत्वं तु नियामकमात्रम् / अत एव च गन्धानाधारत्वेनेव नीलानाधारत्वादिनापि स काल उपलक्ष्यतां विनिगमकाभावादित्य ननुगतकारणत्वाज्ञानादप्रवृत्तिरित्यप्यपास्तम् / नियामकाननुगमस्यादोषत्वात् / यद्वाननुगमोऽपि न कालोपाधिविशेषघटितत्वात्प्रागभावस्य स कालोनीलानापारत्वेन वा गन्धानाधारत्वेन वोपलक्ष्यता तथापि नानुगमः। उपलक्ष्यस्यैक्यात् / अथवा प्रागभावघटितकारणत्वं लक्ष्यतावच्छेदकम् ,