________________ 156 व्याख्यानयोपेतप्रकाशबोधनीयुते न्यायकुसुमाअली [ 13 कारिकाव्याख्यायो प्रकाश / नापि सामग्येकदेशत्वं कारणत्वं, कारणसमूहस्यैव सामप्रीत्वात् / उच्यते। गन्धानधिकरणका प्रकाशिका। भावस्य केवलान्वयित्वाभ्युपगमादिति भावः / गन्धानधिकरणेति। स्नेहप्रागभावेऽव्याप्तिरिति कालपदम् / अभावपदं तु विरोधिपरं तत्प्रागभावलाभाय / तत्तत्कारणतायास्त त्तत्प्रागभावघटि. तत्वात् / यत्तु भावातिव्याप्तिवारणायाभावपदं यथाश्रुतार्थकमेवेति / तत्तुच्छम् / प्रकृते कारणतानिर्वचनाय प्रागभावनिर्वचनमिति ध्वंसे प्रतियोगिनः कारणत्वनिष्पत्तये भावस्यापि लक्ष्यत्वात् यदा तु विभाजकोपाधिनिर्वचनं तदा तद्व्याख्यानं समीचीनमिति / ननु गन्धानाधारसमयो नास्तीत्य. बधारितवतो मीमांसकस्य कथं प्रागभावघटितकारणताज्ञानं तदज्ञाने च कथं प्रवृत्तिः, इष्टसाधनताज्ञानसाध्यत्वात् प्रवृत्तः, किष्चैवं कारणताबोधकशब्दस्यैव महाप्रलये प्रमाणमिति तत्र विप्रतिपत्तिरपि कथं मीमांसकादेरिति चेत् / न ।अनुगतप्रागभावत्वाज्ञानेऽपि तत्तत्कार्यनिरूपिततत्तत्प्रा. गभावत्वज्ञानात् तत्तत्कार्यनिरूपिततत्तत्प्रागभावव्यक्तिघटिततत्तत् कारणताज्ञानेन तत्तत्कार्यार्थिनः प्रवृत्तेः शब्देनापि प्रतियोग्यनुगतीकृततत्तत्प्रागभावघटितकारणताया एवाभिधानात् प्रागभावलक्षणानुगतमेवेदं स्वमते / वस्तुतः कारणत्वं स्वरूपसम्बन्ध विशेषो विषयस्य ज्ञानेनैव कार्येण कारणस्य प्रतीतिसिद्धः तज्ज्ञानमेव च प्रवृत्यनुकूलम् इदन्तु नियामकमात्राभिधानम् / अत एव गन्धानाधारत्वेनेव नीलानाधारत्वादिनापि स कालो लक्षयितुं शक्य एवेति विनिगमकाभावादु. भयगर्भप्रागभावत्वघटितकारणत्वज्ञानस्य प्रवत्तैकत्वेऽननुगम इत्यपास्तम् / नियामकाने कत्वस्या मकरन्दः / दिति भावः / गन्धानधिकरणेति / निर्गन्धान्योन्याभावादावतिव्याप्तेराह। कालेति / अ. भावपदश्च घटादिवारणायेत्याहुः। तन / कारणत्वसामान्यलक्षणार्थ तस्य लक्ष्यतौचित्यमित्युक्तत्वात् / तस्मात् तत्प्रतियोगिकाभावलाभार्थमभावपदम् / न हि प्रागभावसामान्यगर्भ कारणत्वं, किन्तु तत्प्रतियोगितागभावावच्छिन्नसमयवृत्तित्वं तत्कारणवम् / तथा च तादृशकालावृत्तिस्तदभावस्तत्प्रागभाव इति पर्यवस्यति / ननु गन्धानाधारसमयो नास्तीति निर्णयवतो मीमांसकस्पैष्ट साधनतालिङ्गककार्यताज्ञानेन प्रवृत्तिदर्शनान्नैतत्प्रागभावगर्भ कारणत्वम् / किञ्च, कारणत्वबोधकशब्दादिरेवैवं महाप्रलयकाले प्रमाणं स्यात् / तस्य तद्घटितत्वात् / तथा च तदनभ्युपगमोऽपि तस्य व्याहन्येतेति चेत् / मैवम् / विशेषतो बाधावतारेऽपि सामान्यतस्तस्य तद्ग्रहाभ्युपगमादित्येके / वस्तुत इदं कारणत्वं न प्रवृत्त्यनुकूलम् / अनन्यथासिद्धिघटितत्वेन गुरुत्वात् / तथा च स्वमतेन लक्ष्यतावच्छेदकतया निरुक्त, वक्ष्यमाणं तदनुकूल लाघवादिति / एतेन गन्धानाधारगर्भवनीलाधारगर्भत्वादिनाऽपि तन्निर्वचनात्तद्गर्भ कारणत्वमपि भिद्येत / तथा च विनिगमकाभावादु. भयगर्भेष्टसाधनताज्ञानप्रवर्तकतायां प्रवृत्त्यननुगम इत्यापास्तम् / अन्ये तु आकाशादिपदात् कदा टिप्पणी। तदवृत्तित्वस्यापि सिद्धेः, पक्षतावच्छेदकप्रागभावत्वञ्च प्रतीतिविशेषविषयाभावत्वमेवेति न परम्प. राश्रयः / प्रतीतेावृत्तिश्च कालविशेषपुरुषविशेषादेवेति न प्रतीतिविषययोः परस्परव्यावर्तकत्वे ऽन्योन्याश्रय इति दिक् / गन्धानधिकरणकालावृत्तिरभाव इति / ननु गन्धान धिकरणसमयो नास्तीत्यबाधितज्ञानवतो मीमांसकस्य कथं प्रागभावटितकारणताज्ञानं तदज्ञाने च कथं वृत्तिः, कारणताबोधकशब्दस्यैव प्रलये मानत्वात्कथं महाप्रलये विप्रतिपत्तिरिति चेन्न / अनुमतप्रागभावत्वाज्ञानेऽपि तत्तत्प्रागभावव्यक्तिषटितकारणताविशेषज्ञानादेव प्रवृत्तेः /