________________ प्रथमस्तवके ] . . अपूर्वस्य चेतनधर्मत्वाक्षेपः। 155 प्रकाशः। नियतत्वमपि व्यक्त्यपेक्षया, जात्यपेक्षया वा ? / नाद्यः / वह्निव्यक्तेः पूर्व रासभस्यापि भावात् / मत एव नान्त्यः / न हि क्वापि वह्निजातीयपूर्वकाले न रासभसत्त्वम् / देशतोऽपि नियम इति चेत् / सोऽपि संयोगी समवायी वा प्रत्यासन्नमात्रं वा ? भाये गुणादीनामकारणत्वप्रसङ्गः / द्वितीये धूमं प्रति वढेरकारणत्वप्रसङ्गः / तयोरेकदेशसमवायित्वाभावात् / अन्त्ये व्योम्नः कार्यमा प्रति कारणत्वप्रसङ्गः / अन्यथासिद्धत्वेऽसतीति चेन्न / कारणेतरत्वेन तत्सिद्धः कारणज्ञानापेक्षित्वात् / नापि कार्याभावव्यापकाभावसमूहैकदेशप्रतियोगित्वं कारणत्वम् / व्योमादेः कार्यमात्रे तत्त्वापत्तेः / प्रकाशिका। दाय तथा सति ध्वंसातिव्याप्तिरित्युक्तमेवेति वाच्यम् / प्रतियोगिकालावृत्तित्वस्याऽऽश्रयविशेषणत्वा. त् / वंसस्य च प्रतियोगिकालमात्रवृत्तितया तथाविधपररवाश्रयसमानकालत्वात् / यावत्पदसमभिण्याहारेणैव च प्रतियोगिकालावृत्तित्वलाभो प्रन्थाधिक्यादिति न्यायादिति न यावत्पदव्यर्थ ताशङ्कापि / सामयिकपदं तु ध्वंसातिव्याप्तिवारणाय / प्रतियोगिनाशोत्तरानुवर्तमानप्रतियोगिसमा. नकालीनावधिकदेशिकपरत्वाश्रयप्रतियोगिनाशोत्तरजातपदार्थसमानकालत्वात्तस्य। एवंच भावरूप. प्रागभावाव्याप्तिरप्यपास्ता। तस्यापि ध्वंसरूपप्रतियोगिकालावृत्तिध्वंससमानकालतत्पूर्वोत्पन्नपदाविधिकपरत्वाश्रयसमानकालत्वात् / अभावपदं तु विरोधिमात्रपरं तत्तत्प्रागभावलाभाय / यदा च विभाजकोपाधिनिर्वचनं तदा भावातिव्याप्तिवारणायाभावपदम् / एवं च महाप्रलयाव्यवहितकमप्रागभावाव्याप्तिरपि निरस्ता / तत्रापि कर्मसमानकालीनानित्यव्यावधिकपरत्वाश्रयकर्मपूर्वनिपदार्थसमानकालतासत्त्वात् / यावदनित्यत्यनाशानन्तरं परमाणुकर्मोत्पत्तौ च मानाभावात् / न च चरमध्वंसप्रागभावरूपे कम्र्मण्यव्याप्तिः, विभाजकोपाधिपक्षे तस्यालक्ष्थत्वात् , कारणतानिर्वचनेऽपि तदसंग्रहे क्षतेरभावात् / तत्कारणताया भिन्नत्वेऽपि प्रवर्तकज्ञानविषयकारणताया अनु. गमात् , चरमसार्थ तत्प्रतियोगिन्यप्रवृत्तेः / महाप्रलयानभ्युपगमनैवेदं लक्षणमित्यप्युक्तमेवेति दिक् ।कारणेतरत्वेनेति। कारणेतरत्वस्यैवान्यथाशब्दार्थत्वादिति भावः। व्योमादेरिति / तद. मकरन्दः। व्याप्स्यादिदोषः / एतन्मतेनैवाभावपदस्य स्वरूपाख्यानपरत्वमुक्तम् / अन्यथा पर्वतादिकमादाय व्यावर्त्यसम्भवादित्यवधेयम् / नन्वेवमपि प्वंसप्रागभावात्मनि घटादावव्याप्तिः, तन लक्ष्यमिति चेद, भ्रान्तोऽसि / न हि प्रागभावलक्षणमिह प्रकृतं, किन्तु कारणत्वलक्षणम् / तच्च सामान्यत एव लक्ष्य, मूलखरसात् / तथा च ध्वंसप्रागभावस्यालक्ष्यत्वे ध्वंसकारणसाधारणं लक्षणं न स्यात् / किन्चैवमनुगतं कारणत्वमपि न स्यादिति तदननुगमात् प्रवृत्त्यननुगम इति चिन्त्यम् / अन्यथेत्यस्यार्थमाह / कारणेतरत्वेनेति / व्योमादेरिति / तदभावस्य केवलान्वयित्वा टिप्पणी। व्यापकाभावसमूहेति / कार्याभावष्यापकतावच्छेदकसमुदायत्वाश्रयैकदेश इत्यर्थः / अवच्छेदकत्वञ्च स्वरूपेण, न पर्याप्तया, एवञ्च कारणाभावस्य कार्याभावव्यापकत्वेऽपि प्रत्येकन्न क्षतिः / घटत्ववदिति / युगपत्सर्वब्रह्माण्डनाशपक्षे घटत्वस्य दृष्टान्तता। वस्तुत. स्चैत्रत्वादिरेव दृष्टान्तः / तदाश्रयानधिकरणकालस्य प्रसिद्धत्वादिति / ननु गन्धानधिकरणकाल. सिद्धावपि तदवृत्तित्वं प्रागभावस्य कथं सिद्धम् / शब्दप्रत्यक्षयोरभावातू / अमुमानस्य च साध्यप्रसिद्धिमात्रेणासम्भवादिति चेन्न / प्रागभावत्वावच्छिन्नो गन्धानधिकरण. कालावृत्तिः, गन्धप्रागभावावितिप्रतीति विषयत्वाद् गन्धवदित्यनुमानात्तत्सिद्धिः / गन्धे साध्यप्रसिद्धिश्च प्रकाशोक्तानुमानादेव / तेन च काले गन्धानधिकरणत्वसिद्धौ गन्धेऽपि तुल्यवित्तिवेद्यतया