________________ 154 व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाजलौ [ 13 कारिकाव्याख्यायां प्रकाशिका। गिज्येष्ठाबधिकप्रतियोग्यनन्तरोत्पत्तिकपरत्वासमानकालीनत्वात् प्रागभावस्याव्याप्तिरित्याश्रयेति / अत्यन्ताभावान्योन्याभावयोरतिव्याप्तिरिति कादाचित्कपदम् / अभावपदं च सम्पातायातम् कादाचित्कभावस्य पूर्वविशेषणनिरस्ततया व्यावर्तनीयाभावात् / न च महाप्रलयाव्यवहितप्राक्कालिककमप्रागभावाव्याप्तिः तव्यापककालावधिकपरत्वाप्रसिद्धेरिति वाच्यम् / तदनभ्युपगन्तुमतेनैवास्य लक्षणत्वात् / ननु सर्गायकालीनघटप्रागभावाव्याप्तिः, तत्कालव्यापकं हि द्रव्यं नित्यं वा स्यात् तत् कालोत्पन्नमेव वा, न च नित्यावधिक परत्वं क्वचित् ,न वा तत्कालोत्पन्नावधिकम् / आश्रयाभावात् / नित्यस्य परत्वानधिकरणत्वात्, अनित्यस्य तु ज्येष्ठस्याभावादिति चेत् / न / प्रलयकालीनपरमाणु. क्रियाप्रागभावतुल्यतया ब्रह्माण्डान्तरवर्तिद्रव्यमादाय समाधानस्य सत्त्वात्। तदनभ्युपगमे प्रन्यकृदु. काव्याप्तितुल्यतयैव तदव्याप्तेरपि दोषत्वेनेष्टत्वमेव / अत एव खण्डप्रलयाव्यवहितपूर्वेक्षणोत्पन्नक्रियाप्रागभावाव्याप्तिरपि न दोषः। प्रलयकालीनपरमाणुक्रियाप्रागभावतुल्यत्वादिति सम्प्रदायः। अत्र वदन्ति / नानासर्गस्थायिनोऽदृष्टस्य प्रागभावेऽव्याप्तिः, तत्र प्रतियोगिकालव्यापकस्यानित्यस्य द्रव्यस्याभावाद् / नित्यस्य च परत्वावधित्वाभावात् / किं च भावरूपे प्रागभावेऽव्याप्तिः, न च तद. लक्ष्यमेव, कारणताघटकस्य हि प्रागभावस्य लक्षणमिह प्रकृतं तथा च ध्वंसे प्रतियोग्यादेः कारणता. निर्वाहाय भावरूपस्यापि तस्य लक्ष्यत्वात् / एतेन द्रव्यप्रागभावमात्रस्यैवेदं लक्षणं, तेन नोक्ताह प्रागभावेऽव्याप्तिः / तस्यालक्ष्यत्वात् / यावद्व्यप्रागभावसमानकालत्वं च प्रागभावसामान्यल. क्षणम् , तदुपयोगितयैव च विशेषलक्षणमपि निरुक्तम् , उक्तसामान्यलक्षणं तूक्तादृष्टप्रागभावादावविकलमेवेत्यपास्तम् / वसप्रागभावात्मकभावाव्याप्तेरिति / अत्र वयं ब्रूमः / प्रतियोगिसमानका. लीनत्वमात्रमत्र लक्षणे प्रविष्टमित्यदृष्टप्रागभावे लक्षणमविकलम् / न च विनश्यत्क्षणोत्पलद्रव्यमा. मकरन्दः / . गभावाव्याप्तिरित्यत उक्तमाश्रयेति / न च यावत्परत्वानामाश्रयाप्रसिद्धयाऽसम्भव इति वाच्यम् / प्रत्येकनिरूपिताश्रयस्यैव विवक्षितत्वात् / केचित्तु यावत्वमाश्रयविशेषणमेव / विशेषणस्य सावधिकत्वेन विशिष्टे तदवधिकत्वान्वय इत्याहुः / अत्यन्तान्योन्याभावयोरप्यनादितया तथा. त्वादतिव्याप्तेराह कादाचित्केति / कादाचित्कभावस्यानादित्वानभ्युपगमेन व्यावाभावाद. भावपदं स्वरूपाख्यानपरमित्याहुः / न च महाप्रलयपूर्वक्षणभाविकर्मादिप्रागभावाव्याप्तिः / तदा ब्रह्माण्डान्तरस्याप्यभावादिति वाच्यम् / तदनभ्युपगन्तृमतेनैवास्योक्तत्वात् / अत एव लीला वतीप्रकाशे सिद्धान्तितमिदमेव लक्षणम् / ननु तथापि सर्गाद्यकालीनघटादिप्रागभावाव्याप्तिः / तत्र हि प्रतियोगिव्यापकं सर्गाद्यकालीनमेव स्याद् नित्यं व्योमादि वा ? तदवधिकञ्च परत्वमप्रसिद्धम् / नित्यस्य तदवधिकत्वाभावात् / अपरावधिकपरत्वस्य चाश्रयाभावादनुत्पत्तेः / न हि नित्यद्रव्यं तदाश्रयः। बहुतरतपनपरिस्पन्दान्तरितजन्मत्वाभावेन तत्र तदनभ्युपगमात् / नापि कार्यद्व्यम् / तज्ज्येष्ठस्य तदानीमभावात् / सर्गान्तरे तत्सत्त्वेऽपि तदानीमवधेरेवानुत्पन्नतया तदवधिकपरत्वानुत्पत्तेः / यदवधिक यत्रापरत्वं तदवधिकमेव तत्र परत्वमित्यभ्युपगमादिति चेत् / मैवम् / जन्मांशस्य गुरुत्वेन नित्यद्रव्येऽपि तदभ्युपगमादित्याहुः / अवधिन परत्वकारणं, किन्तु तज्ज्ञानम् / तथा चानागतस्यैवावधेरीश्वरादीनां ज्ञाने सर्गान्तरद्रव्येषु तदुत्पाद इत्यप्याहुः / व. स्तुतो ब्रह्माण्डान्तरद्रव्यमादाय अत्रापि समाधिसम्भवे प्रलयकालक्रियाप्रागभाववदत्राप्यव्याप्तिरभिप्रेतैवेति न दोषः। अत एव खण्डप्रलयपूर्वक्षणक्रियाप्रागभावाव्याप्तिशङ्काऽपि न दोषायेति मन्तव्यम् / वस्तुतस्तु प्रतियोगिव्यापकत्वविवक्षायामपि क्षणिकशब्दाऽऽदिध्वंसे पूर्वोक्तन्यायेना. तिव्याप्तिरेवेति प्रतियोगिकालीनत्व एव तात्पर्यम् / परत्वाश्रयत्वयोग्यत्वविवक्षया च नोक्ताति