________________ 152 व्याख्यात्रयोपेतप्रकाशबोधनीयुतेन्यायकुसुमाञ्जलौ [13 कारिकाव्याख्याया प्रकाशः। इति चेन्न / परम्पराश्रयात् / नापि प्रतियोग्यन्यूनानतिरिक्तकालीनाऽवधिकसामयिकया. वत्परत्वाश्रयसमानकालीनकादाचित्काभावः / प्रलयकालीनपरमाणुक्रियाप्रागभावाव्याप्तेः। न च तदाऽपि ब्रह्माण्डान्तरवर्तिद्रव्येणापरत्वाश्रयेण परस्वनिरूपणम् / तस्य विशिष्याज्ञानात् / प्रकाशिका। चिदुत्पत्तिः कस्यचिद् विनाश इति मतानुसारेणेदम् / न च महाप्रलयोत्पत्तावव्याप्तिः, तत्र समानकालपदार्थध्वंसाप्रसिद्धरिति वाच्यम् / स्ववृतिध्वंसाप्रतियोगियावत्समानकाल पदार्थकसमयसम्बन्धस्य तदुत्पत्तित्वात् / प्रतियोग्यन्यूनेति / प्रतियोग्यवधिकेति कृते गुणप्रा. गभावाव्याप्तिरपरत्वाश्रयस्यैव परत्वावधित्वादित्यन्यूनानतिरिक्तकालीनपदम् / एवं च तादृश द्रव्य मादायैव गुणप्रागभावेऽपि लक्षणंनेयम् / तदन्यूनानतिरिक्तकालत्वं च तद्व्यापककालकत्वमतोऽन्त्य शब्दस्यैव क्षणिकतया तदन्यूनानरितिक्तकालीनद्रव्याप्रसिद्धः, तत्प्रागभावाव्याप्तिरपास्या, प्रतिक्षणं कस्य चिद्रव्यस्य उत्पत्तिः कस्य चिद् विनाश इति मतेनेदम् / प्रतियोगिकालीनेत्येतावति कृते प्रागभावस्य प्रतियोग्युत्पत्यनन्तरोत्पत्तिकावधिकपरत्वाश्रयप्रतियोग्यसमानकालत्वायावदर्थाभावादव्यातिरिति व्यापकत्वपर्यन्तम् / अत्र केचित् प्रतिथोगिकालीनत्वमेव सम्यक्। नचोक्तदोषः, प्रतियोगिकालीनयत्किंचित्पदार्थावधिकयात्परत्वाश्रयगर्भमेव हि तल्लक्षणम् न तु प्रतियोगिकालीनेऽपि यावत्त्वं विशेषणम् तथा च तत्प्रतियोग्युत्पत्तिकालीनद्रव्यमादायैव सर्वत्र लक्षणमित्याशयादिति। ते भ्रान्ताः, मकरन्दः। तत्समयसम्बन्ध उत्पत्तिरिति भावः / प्रतिक्षणं कस्य चिदुत्पत्तिः कस्य चिन्नाश इति मतानुसारेणे. दम् / प्रतियोग्यन्यूनेति। प्रतियोग्यवधिकेति कृते गुणादिप्रागभावाव्याप्तिः / तदवधिकपरस्वाभावात् / अपरत्वाश्रयस्यैव तथात्वादित्यत उक्तमन्यूनानतिरिक्तेति / तथा च तादृशं द्रव्यमादाय तत्र लक्षणगमनमिति नोक्तदोषः। प्रतियोगिकालीनेत्येतावति कृते घटध्वंसाव्यवहितपूर्वक्षणोत्पन्न प्रतियोगिकालीनं द्रव्यान्तरमादाय तद्घटध्वंसेऽतिव्याप्तिः / तस्य तदवधिकयावत्पर. त्वाश्रयसमानकालीनत्वात् , परत्वापरत्वयोः परस्पराश्रयावधिकत्वस्वीकारेण तत्कालविद्यमानस्यैव टिप्पणी। स्यादिति ध्येयम् / नापि प्रतियोग्यन्यूनातिरिक्तकालीनावधिकेति / अत्र प्रगियोग्यवधिकेति कृते गुणादिप्रागभावेऽव्याप्तिः, अपरत्वाश्रयस्यैव परत्वनिरूपकत्वात् , प्रतियोगिकालीनेत्युतावपिन सामञ्जस्यम् प्रतियोग्यनन्तरोत्पन्नावधिकपरत्वाश्रयप्रतियोग्यसमानकालीनत्वात्प्रागभावस्येत्यव्याप्तेः। नापि प्रतियोगिकालीनयत् किञ्चिदवधिकत्वोक्तावपि / प्रतियोगिक्षणोत्पन्नपदार्थमादाय लक्षणसम्भवेऽपि प्रतियोगिनाशाव्यवहितपूर्वक्षणोत्पन्नावधिकपरत्वस्य नाशकालोत्पत्तिकतया त्तदानीं तदाश्रययस्यावश्यम्भावनियमेन तत्कालीनत्वाद् ध्वंसस्यातिव्याप्तिः। नापि प्रतियोगिकालीनयावदवधिकपरत्वाश्रयकालीनत्वम् / यत् किञ्चित्प्रतियोगिकालीनं वस्तु प्रतियोग्याथाश्रयकमेव परत्वमु. स्पाय नष्टं तमादायाव्याप्तेः / सामयिकव्यापकत्वार्थकं प्रतियोग्यन्यूनानतिरिक्तकालीनत्वानुधावनम्। व्यापकत्वव्यापकव्याप्यत्वयोर्विवक्षणे प्रयोजनाभावः / क्षणिकान्त्यशब्दप्रागभावेऽव्याप्तिश्च, प्रतियोगिनस्तथाविधद्रव्याभावात् यावत्त्वाविवक्षायां ध्वंसपर्यन्तस्थायिप्रतियोगिज्येष्ठपदार्थमादाय ध्वंसेऽतिव्यप्तिः / अत्र सर्गाद्यकालीनपदार्थप्रतियोगिकप्रागभावाव्याप्तिः, तद्व्यापक हि द्रव्यं नित्यमनित्यं वा तत्कालोत्पत्तिकं तस्य परत्वनिरूपकत्वाभावादिति चेत् / तस्य प्रन्योक्तदोषतुल्यत्वादत्रापि ब्रह्माण्डान्तरवर्तिद्रव्यमादाय समाधानस्य सम्भवात् , तदस्वीकारे दोषः, अत्र वदन्ति / नानासर्गस्थायिन्यदृष्टप्रागभावेऽव्याप्तिः, तादृशादृष्टव्यापकद्रव्याप्रसिद्धः, एवं