________________ 150 व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाअलौ [13 कारिकाव्याख्याको अथ शक्तिनिषेधे किं प्रमाणम् ? / न किञ्चित् / तत् किमस्त्येव ? बाढम् / न हि नो दर्शने शक्तिपदार्थ एव नास्ति / कोऽसौ तहि ? कारणत्वम् / किं तत् ? पूर्वकालनियतमातीयत्वं, सहकारिवैकल्यप्रयुक्तकार्याभाववत्त्वं वेति / ततोऽधिक. बोधनी। निषेधः कल्प्यते, अविशुद्धं प्रत्यारोहणस्यानिष्टहेतुत्वानिषिद्धस्यैव च तथात्वादिति / तदेवम्भूतसमवायिनी शक्तिः सहजा आधेया वास्तीति न किञ्चित्प्रमाणमस्तीत्युक्तम् / इतरस्तु वादजल्पयोरन्यतरेण कथाप्रवृत्तिं कृत्वा तयोर्न स्वपक्षसाधनमन्तरेण परसाधनस्य दूषणमात्रेण पर्य. वसानमिति मन्वानः पृच्छति-मथ इति / गूढाभिसन्धिः प्रतिब्रूते-न किञ्चित् इति / अज्ञातपराभिसन्धिः पुनः पृच्छति-तत् किमस्त्येव-इति / निषेधकाभावे त्वस्तित्वमेवावशिष्यत इति / गूढाभिसन्धिरेव सम्प्रतिपत्तिमुत्तरमाह-बाढम्-इति / यद्येवमपसिद्धान्तप्रसा इत्यत्र स्वा. भिसन्धिमुद्घाटयितुमाह-न हि-इति / अस्मसिद्धान्तानभिज्ञो भवानिति भावः / पुनरप्यनभिज्ञः पृच्छति-कोऽसौ-इति / आशयमाविष्करोति-कारणत्वम्-इति / शक्तिमत्त्व कारणत्वमिति मन्वानः पृच्छिति-किं तत्-इति / ज्ञातपराभिसन्धिराह-पूर्वकाल-इति / पूर्वकालनियत त्वमित्येव वक्तव्वे नियतजातीयत्वाभिधानं जात्यपेक्षयैव नियम इति स्मारयितुमिति / अन्यथा कारणत्वं निरूपयति-सहकारि-इति / यस्य सहकारिवैकल्यप्रयुक्तः कार्यप्रागभावो न तु स्वरूप. प्रकाशः। फलसाधनत्वेन निषेधविधेरुन्नयनाद्भङ्गफलश्रुतेश्चाधर्मजनकत्वं कल्प्यत इत्यर्थः / यद्यपि तुलारोहणादेरधर्मजनकत्वे मानाभावः / पूर्वाधर्मादेवावनमनोपपत्तेः / तथापि परीक्षाविधि विनाऽवनमनेऽपि भङ्गाभावान्नियमेन तस्याधर्महेतुत्वम्। जल्पकथामाश्रित्य पृच्छति अथेति / उत्तरं नेति / शक्तिपदार्थमेव न निषेधाम इत्यर्थः / तर्हि स्वीकार एव शक्तः स्या दित्यभिप्रेत्याह / कोऽसाविति / पूर्वकालेति / ननु पूर्वत्वं प्रागभावावच्छिन्नकालत्वम् , प्रकाशिका। यद्यपि नैमित्तकत्वे तदकरणे प्रत्यवायापत्तिः। तथापि निमित्ते सति कर्तव्यत्वमित्येवात्र नैमित्तिकत्वम्। तन्मात्रकरणेऽपि न प्रत्यवायो जातेष्टयादावकरणे प्रत्यवायाभावात् देवतासन्निधान एव तात्पर्य्य: मत एव मुलमित्यस्माकं सिद्धान्त इति कश्चित् / अधम्मजनकत्वे मानाभाव इति / जयपक्षे भवतु धर्मजनकता अगम्यागमनायनाचरणस्य धर्माहेतुत्वेनोन्नमकारणस्य तस्य स्वीकरणीय. स्वादिति भावः / तथापोति / परीक्षाविधिजन्याधर्मेणावनमनस्यैव भानहेतुत्वमिति परीक्षाया भाशु विनाशिन्याः कारणतानिहाय व्यापारत्वेनाधर्मः कल्पनीय इति भावः / वस्तुतोऽ. गम्यागमनजन्याधम्मस्यावनमनहेतुत्वे मानाभावो नरकफलस्वेन तस्य श्रुतेरिति ध्येयम् / जल्पेति / तत्रैवोभयसाधनोपन्यासनियमादिति भावः / नाशस्येति / प्रागभाव. मकरन्दः / श्रुतेः परीक्षाविधेरभिशापनिमित्तकस्वाभावान्न विधिकल्पनं, न वा भङ्गलक्षणाऽनिष्टसाधनत्वेन नि. षेधबिध्युन्नयनम् / व्यभिचारादप्रयोजकत्वाच / तथापि देवतासन्निधिपक्षे तात्पर्यम् / अत एवो. क्तं मूले, इत्यस्माकं सिद्धान्त इति / अधमंजनकत्वे मानाभाव इति। विजयपक्षे धर्मज. ननं भवतु / अगम्यागमनायनाचरणस्य धर्माहेतुत्वेन प्राक्तनधर्माभावादिति भावः / तथापीति / टिप्पणी। जलपकथामाश्रित्येति / उक्तरीत्या शक्तिनिरासे शक्तिसाधकस्य मीमांसकस्य तद्धेतो