________________ 144 प्रथमस्तवके ] . मपूर्वस्य चेतनधर्मत्वातेपः / यति / कर्मणश्चाभिव्यक्तिः सहकारिलाभ एव / तच्च सहकारि, सोऽहमनेन वि. धिना तुलामधिरूढो योऽहं पापकारी निष्पापो वेति प्रत्यभिज्ञानम् / यदाहुः "ताँस्तु देवाः प्रपश्यन्ति स्वश्चैवान्तरपूरुषः” इति / मथवा प्रतिज्ञानुरूपां विशुद्धिमपेक्ष्य तेन धर्मो जन्यते निमित्ततो विधानाद्विजयफलश्रुतेश्च / मविशुद्धिश्चापेक्ष्याधर्मः। पराजयलक्षणानपेक्षितफलोपदर्श. नेन फलतो निषेधात् / बोधनी। कर्मणश्च-इति। सहकारिलाभे फलोत्पत्त्या कर्माभिव्यज्यते, तेनाभिव्यक्तिहेतुत्वात् सहकारिलाभोऽ. भिव्यक्तिरुपचर्यत इति / कथं लोकपालार्चनादिकर्मणां क्षणिकत्वेन साहित्यानुपपत्तेः सहकारिते. त्यत्राह-तश्च-इति / कमक्षणानां स्वरूपतः साहित्याभावेऽपि तद्विषयज्ञानद्वारा तत्साहित्यात् सहकारित्वोपपत्तिः तत्र निष्पापत्वेन प्रत्यभिज्ञानं जयनिमित्तं कर्माभिव्यनक्तीतरदितरदिति विवेकः / सुगूढमपि पापंचरद्भिरात्मनः पापकारित्वं ज्ञायत एवेत्यत्र स्मार्त्तवचनमुदाहरति-यदाहुः-इति / एवं तावत् संग्रहो व्याख्यातः। इदानीं तु न तावज्जयपराजयमात्रफलमनेनानुष्ठितं कर्मास्ति यदनेनाभिव्यज्येत, तादृशकमणामश्रुतत्वात् / न चानुष्ठितं स्तेयादि पराजयहेतुस्तस्य नरकादिफलत्वात् , न च विजयमानेन विजयहेतुः कश्चित् धर्मोऽनुष्टितः किन्तु स्तेयादिरनुष्ठितः, न चाननुठानस्य किञ्चित्फलमस्तीति, तत्रापरितुष्यम् परिहारान्तरमाह / अथवा इति / प्रतिज्ञानु. रूपशुद्धिसहकृतेन परीक्षाविधिना धर्मो जन्यत इति / ननु किञ्चिदुद्दिश्य विहितात् कर्मणो धर्मो जन्यते न विह किञ्चिदुद्दिश्यारोहणविधिरस्तीत्यत्राह-निमित्ततः-इति / मिथ्याभिशस्ततो निमित्तीकृत्य विधिरस्ति / न चाविहितस्य फलश्रुतिः सम्भवतीति निषेधलक्षणमधर्महेतुत्वं, न चात्राविशुद्धो नारोहेदिति निषेधः श्रूयते इत्यत्राह-पराजय इति / अप्रस्तुतोऽपि प्रकाशः। चैतन्ये / सोऽहमिति / ननु यत्र पापविस्मरणान्निष्पापत्वप्रत्यभिज्ञानं, तत्र कुतो न जयः / न च सत्यं तादृशं प्रत्यभिज्ञानं जयहेतुः, तथापि भङ्गहेतुपापवत्वप्रत्यभिज्ञानाभावेन भङ्गानुपपत्तेः / न च स्वरूपसदेव पापवत्त्वं भङ्गहेतुः / तस्यैव प्रयोजकत्वे परीक्षाविधेरतत्त्वापत्तेः / मैबम् / पापतदभावयोः स्वरूपसत्त्वे सति, योऽहं पापवत्त्वादिना सन्दिह्यमानः सोऽहमनेन वि. धिना तुलामारूढ इति तस्य प्रत्यभिज्ञानस्य तन्त्रत्वात् / तच्च न परीक्षाविधिं विनेति तस्यापि तत्त्वात् / यत्र तु सभाक्षोभादिना ताशप्रत्यभिज्ञानाभावस्तत्र गत्यन्तरमाह / अथवेति / तेन परीक्षाविधिना / ननु तादृशविधिवाक्याभावात् परीक्षाविधेर्धर्मजनकत्वे मानाभाव इत्यत आह / निमित्तत इति / साक्षात्तादृशविधिवाक्याभावेऽप्यभिशापनिमित्तकत्वात् परीक्षाविधेरितरनैमित्तिकवदभिशप्तः सत्यप्रत्यभिज्ञो जयकामस्तुलामारोहेदिति विधिकल्पनमित्यर्थः। विज. येति / कालान्तरभाविजयसाधनताऽनुपपत्तेरपूर्वकल्पनाच्चेत्यर्थः / पराजयेति / भङ्गलक्षणानिष्ट प्रकाशिका। पापतदभावयोरिति / सत्यन्तमात्रस्य प्रयोजकत्वे परीक्षावैयर्थ्यमित्युत्तरदलम्, तच न परीक्षाविधि विनेति परीक्षाविधेः कथञ्चित् स्वज्ञानद्वारा प्रत्यभिज्ञानप्रयोजकत्वमिति मन्तव्यम् / निमित्तत इतीति / निमित्ते सति विधानादिति मूलार्थः / भङ्गति / कालान्तरभाविभनेत्यर्थः / मकरन्दः / पापतदभावयोरिति / सत्यन्तमात्रस्य तन्त्रत्वे परीक्षावैयर्यमेवेति विशिष्टस्य तथात्वमुक्तमिति भावः / भङ्गेति / कालान्तरभाविभङ्गलक्षणफलश्रुतेरित्यर्थः। यद्यप्यकरणे प्रत्यवाया.