________________ 148 व्याख्यानयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जली [ 13 कारिकाव्याख्यायो घटादिषु का वार्ता ? कुशलैवेति चेन्न / न हि सामग्री दृष्टं विघटयति, नाप्यदृष्टं, शापकत्वात् , नाप्यदृष्टमुत्पादयति, धर्मजनने सर्वदा विजयप्रसङ्गात् / विपर्यये सर्वदा भङ्गप्रसङ्गात् / मत्रोच्यते जयेतरनिमित्तस्य वृत्तिलाभाय केबलम् // . परीक्ष्यसमवेतस्य परीक्षाविधयो मताः॥१३॥ यद्यपि धर्माद्यभिमानिदेवतासन्निधिरत्रापि क्रियते, ताश्च कर्मविभवानुरूपं. लिङ्गमभिव्यञ्जयन्तीत्यस्माकं सिद्धान्तः, तथापि परविप्रतिपत्तेरन्यथोच्यते / तेनापि हि विधिना तदेव जयस्य पराजयस्य वा निमित्तमभिव्यक्त कार्यमुन्मोल. 'बोधनी। वदभिमन्त्रणासहकाराद्वोपपत्तिरिति गूढाभिसन्धिः पृच्छति-घटादिषु-इति / तुलातप्तमाषादिष्वित्यर्थः / गुढाभिसन्धिरेबोत्तरमाह-कुशला-इति / इतरः स्वाभिप्रायमुद्घाटयति-न हि सामग्री इति / तुलारोहणाङ्गत्वेन विहिताभिमन्त्रणादिसामग्री न तावदभिशस्तसमवेतं जयस्य पराजयस्य वा निमित्तं किञ्चिद् दृष्टं लघुत्वं गुरुत्वं वा विधटयति ज्ञापकत्वेनाकारकत्वात् तस्यादर्शनाच्चेति भावः। नाप्यदृष्टम्-इति / विघटयतीत्यनुषङ्गो ज्ञापकत्वादेव / किञ्च, धर्मविघटने सदा भङ्गप्रसनः, अधर्मविघटने सदा विजयप्रसङ्गः, उभयविघटनं त्वेकस्याः सामग्या न सम्भवतीति वक्ष्यमाणन्यायोऽत्राप्यनुसन्धेय इति / नन्वभिशस्तसमवेतमर्थतथात्वज्ञापक किश्चिददृष्टमुत्पादयति, तेन तदृद्वारा ज्ञापकोऽयं विधिर्भविष्यतीत्याशङ्कयाह-नाप्यदृष्टमुत्पादयतीति-इति। न चैकस्मिन् धर्ममितरस्मिन्नधर्ममिति सम्भवति, सामग्यभेदे कार्यभेदानुपपपत्तेरिति भावः / प्रतिमादौ तत्तद्देवतासन्निधानादिसम्भवात् पूजातिक्रमलक्षणसामप्रीभेदेन धर्माधर्मजननसम्भवाच्च सम्भवेदपि परिहारस्तुलाद्यामिमानिकदेवताभावात् सामग्न्याश्चैकरूपत्वेन धर्माधर्महेतुत्वायोगात् संस्काराधानमेवाङ्गीकार्यमिति पुनः प्रत्यवस्थानमिति / सिद्धान्ती स्वाभिप्रायमुद्घाटयति-जयेतर-इति / वृत्तिः अभिव्यक्तिः, सा च सहकारि लाभ इति स्वयमेव व्याख्यास्यति / अभिशस्तसमवेतयोजयेतरनिमित्तधर्माधर्मयोरभिव्यक्तिद्वारेणार्थतथात्वं ज्ञापयति परोक्षाविधिः, अतोऽत्रापि न संस्कारकल्पनेत्यत्रामि पूर्वोक्तमेव परिहारं स्मा. रयति -- यद्यपि-इति / परिक्षाविधिनापि धर्मसत्यादिषु शरीरवदभिमानिनीनां सन्निधिः क्रियते। सनिहिताश्चाभिशस्तस्तेयादिकर्मविभवानुरूपं तुलानमनोन्नमनादिकं लिङ्गमभिव्यञ्जन्ति / ततो जयः पराजयो वेति / यद्यप्यभ्युपगमः सिद्धस्तथाप्यत्र मीमांसकस्यासम्प्रतिपत्तेरभ्युपगम्यैवान्यथा परिहार उच्यत इति श्लोकं व्याचक्षाणस्तमेव परिहारमाह-तेनापि-इति। तद्विधानाभिव्यक्तमभि. शस्तकृतस्तेयायनुमापर्क कार्य नमनोन्नमनादि जनयति / कथमनेन धर्माधर्माभिव्यक्तिरित्यत्राह प्रकाशः। घटः तुला / न हीति / सामप्री परीक्षासामग्री। अवनतिहेतोदृष्टस्यादृष्टस्य वा विघटने सदैवोन्नमनप्रसमादित्यर्थः / तस्माद् भूतार्थपरिच्छेदिका शक्तिस्तुलादिसामप्रीजन्येत्यभ्युपेयमिति भावः / जयेतरेति / जयभङ्गनिमित्तस्य परीक्ष्यात्मसमवेतस्यादृष्टस्य वृत्तिः स्वकार्यजननाभिमुख्य तलाभायैवेत्यर्थः / यद्यपीति / पापवान् पुण्यवान् वाऽयमनेन विधिना तुलामारूढ इति- यद्देव. ताज्ञानं, स एव देवतासन्निधिरतः परीक्षाविधेरविशेषेऽपि कर्मोन्नायकं नमनादिकं लिङ्गमभिव्यञ्जयन्ति / तारशञ्च ज्ञानं न परीक्षाविधिं विनेति सोऽपि प्रयोजक इत्यर्थः / परविप्रतिपत्तिदेवता