________________ प्रथमस्तवके ] . अपूर्वस्य चेतनधर्मत्वाक्षेपः / विधिनाऽऽपादितचैतन्यम् / सन्निधानञ्च तत्र तेषामहङ्कारममकारो, चित्रादाविव स्वसादृश्यदर्शिनो राज्ञ इति नो दर्शनम् / मन्येषान्तु पूर्वपूर्वपूजितप्रत्य. भिज्ञानविषयस्य प्रतिष्ठितप्रत्यभिज्ञानविषयस्य च तथात्वमवसेयम् / एतेनाभिमन्त्रितपयःपल्लवादयो व्याख्याताः // 12 // बोधनी। सर्वगतत्वाद् देवतानां नित्यमेव सन्निधानं किं प्रतिष्ठाविधिना तत्राह-सन्निधानं च-इति / नो दर्शनं देवतावादिनामास्तिकानामित्यर्थः / कथमिदं नास्तिकस्य मीमांसकस्योत्तरं स्थादित्याशङ्कय प्रत्यभिज्ञानतेोऽपि वेत्येतदुत्तरतया व्याचष्टे-अन्येषाम्-इति / यो नामुनेयं प्रतिष्ठापितेति प्रतिष्ठायामनुसन्धातुमीष्टे तस्य प्रतिष्ठा प्रत्यभिज्ञासहकारिणी, इतरस्य तु पूर्वपूर्वपूजितप्रत्यभिज्ञा / तथात्वम्=पूजातिकमाभ्यां धर्माधर्मजनकत्वमिति / अभिमन्त्रितस्य पयःपल्लवादेविषरोगादिप्रतीकारान्यथानुपपत्त्या शक्तिकल्पनमाशङ्कय तत्राप्युक्तमेव प्रकारमतिदिशति-एतेन इति॥१२॥ तत्रापि हि तत्तन्मन्त्रप्रतिपाद्यगरुडादिदेवतापरिप्रहादभिमन्त्रितत्वप्रत्यभिज्ञानाद्वा प्रोक्षणादि प्रकाशः। अहङ्कारेति / न च देवतानां विशेषदर्शनवत्त्वान्न भ्रम इति वाच्यम् / अभिमानीत्यनेनाहार्यारोपरूपत्वस्य दर्शितत्वात् / ज्ञानस्य नाशेऽपि तजन्यसंस्कारस्य सत्त्वात् / अस्पृश्यस्पर्शा. दिना च तमाशात् / अचेतनदेवतापक्षे त्वाह / अन्येषान्विति / आद्यपूजायां न पूजितप्रत्यभिज्ञानमित्यत उक्तम् / प्रतिष्ठितेति / अत्रापि प्रतिष्ठाकालीनयावदस्पृश्यस्पर्शानादिसंसर्गाभा. वसहकृतस्येति द्रष्टव्यम् / “प्रतिष्ठितं पूजयेदिति विधिबलात् तज्ज्ञानस्यावश्यकत्वात् / अत एव तदभावे पूजा निष्फलैवेति भावः // 12 // प्रकाशिका। क्षुषसाक्षात्कारे जनकत्वं न स्यात् उद्भूतरूपमात्रस्यैवानतिप्रसङ्गादिति वाच्यम् / द्रव्यसाक्षात्कारसामान्य एवात्मादिस्थले तस्य कारणत्वकल्पनात् , तदुत्कर्षेण चाक्षुषोत्कर्षाच्च / भत्रापोति / अपिशब्दः पूजितत्वप्रत्यभिज्ञानसमुच्चयपरः / अश्पृश्यति / प्रतिष्ठाकालीनत्वमनायभावे विशेषणं, यावत्पदं समसंख्यापरम्, एवं च प्रतिष्ठोत्तरमस्पृश्यस्पर्श प्रागभावनाशेऽपि स्पर्श ध्वंसानन्तरं तमादाय समसंख्यत्वादतिप्रसङ्ग इत्यनादिपदम् / अपूज्यताप्रयोजकपरम्परासम्बन्धावच्छिभास्पृश्यस्पर्शे प्रतिष्ठोत्तरं जाते पूज्यता न स्यादिति संसर्गपदं संसर्गविशेषावच्छिन्नाभावलाभायेति दिक्॥ 12 // मकरन्दः / कानुद्भूतरूपादपि श्यणुकोद्भूतरूपं जायते इत्यर्थः / भत्रापीति / प्रतिष्ठाकालीनयावदस्पृश्य. स्पर्शादीत्यर्थः / अत्र विस्तरोऽनुमानप्रकाशे // 12 // टिप्पणी। परमाणुरूपस्याप्रत्यक्षरवे किमर्थमुद्भूतत्वसिद्धिः, तद्गुणसंविज्ञानवहुव्रीहिकल्पनं 'च नियुकिकमिति / भत्रापोति / प्रतिष्ठाकालीनत्वमनादिसंसर्गाभावस्य विशेषणं वाच्यम् , यावदितिसमसंख्यकेत्यर्थः, तथा च प्रतिष्ठाकालीनास्पृश्यस्पशोभावसमसंख्यकास्पृश्यस्पर्शायनादिसंसर्गाभावः सहकारीत्यर्थः। प्रतिष्ठोत्तरमस्पृश्यस्पर्शनाशकाले विद्यमानोऽप्यभावो न तादृशाभावसमसं. स्यकानादिसंसर्गाभावः, ध्वंसस्यानादित्वाभावात् प्रागभावस्थाविद्यमानत्वादिति विशेषणद्वयस्य पार्थक्यम् / पुनः प्रतिष्टायां द्वितीयप्रतिष्ठामादायैव तारशाभावसम्पत्तिः काय्येति भावः॥१२॥