________________ 146 व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ 12 कारिकाव्याख्यायो देवताः सन्निधानेन प्रत्यभिज्ञानतोऽपि वा // 12 // उपनायकादृष्टविशेषसहाया हि परमाणवो द्रव्यविशेषमारभन्ते / तेषां वि. शेषादुद्भवविशेषाः प्रादुर्भवन्ति / यथा स्वभावद्रवा अप्यापो निमित्तभेदप्रति. बद्धद्रवत्वाः कठिनं करकाघमारभन्त इत्यादि स्वयमूहनीयम् / प्रतिमाऽऽदयस्तु तेन तेन विधिना सन्निधापितरुद्रोपेन्द्रमहेन्द्राधभिमानिदेवताभेदास्तत्र तत्रा. ऽऽराधनोयतामासादयन्ति, माशीविषदष्टमूच्छितं राजशरीरमिव विषापनयन बोधनी। देवोद्भवादिविशेषोपपत्तिः प्रतिष्ठादिजनितापूर्ववदात्मसंवोगादेव देवतानां सन्निधानादाराधनीयाःप्रतिमादय इति स्वमतेन परिहारः / परमतेन तु तत्र देवतासदृशप्रतिमादर्शनजनितेन प्रत्यभिज्ञाने. न, पूर्वैः प्रतिष्ठापिता सेयं प्रतिमेति वा प्रत्यभिज्ञानेन सहकारिभेदेनार्थक्रियाविशेषः संभवतीति // __ पूर्वाद्ध तावद् विवृणोति-उपनायक-इति / दृष्टकारणसंयोजनद्वारेणादृष्टस्योपकारकत्वात् परमाणूनां परस्परसंयोजकक्रियाहेतुर रपमुपनायकादृष्टमुच्यत इति। ततः किमित्यत आह-तेषाम् इति / पाकजविशेषाभावेऽपि तत्तद्विशेषसहकृतानां परमाणूनो बिशेषादेव कार्यविशेषप्रादुर्भाव इति अतिशयान्तरकल्पनातः क्लप्तादेवादृष्टविशेषात् कार्यविशेषकल्पना साधीयसी, दृष्टं च केवलाह. यस्यैव सामर्थ्यमग्न्यूर्द्धज्वलनादिष्विति भावः / तथापि चेदपरितोषस्तत्राह-यथा इति / दृष्ट एव वैद्युताग्निसंयोगादिनिमित्तभेदस्तत्र तत्रानेक इति। उत्तरमद्धं व्याचष्टे-प्रतिमादयस्तु-इति / तेन तेनेति तत्तच्छास्त्रोक्तेनेत्यर्थः / पूर्वमनाराधनीयस्यैव पश्चादाराधनीयत्वे दृष्टान्तः-विषद. प्टेति / मूर्छामूषितचैतन्ये हि वपुषि व्युत्क्रमेण प्रत्यवायाभावेऽपि पश्चादाराधनीयो राजेति / ननु प्रकाशः। ऽवयविरूपवृत्तिजातिः सा परमाणुरूपवृत्तिरिति व्याप्तिः / चित्रत्वजातौ व्यभिचारात् / उद्भवानुद्भवादय इत्यतद्गुणसंविज्ञानबहुव्रीहिणा कठिनकरका विद्युदादीनां संग्रह इत्यप्याहुः / देवता इत्यबाराधनीयतामासादयन्तीत्यध्याहार्यम् / उपनायकेति / परमाणुक्रियाअनकमदृष्टमित्यर्थः / प्रकाशिका। द्रष्टव्यम् / अनुभूतरूपाद्-व्यणुकनिष्ठात् / उद्भूतरूपं त्र्यणुकगतम् / मतद्गुणेति / न चैवमुद्भूतानुभूतभेदाः प्रादुर्भवन्तीत्यप्रेतनमूलेन तयोरुपसंग्रहविरोध इति वाच्यम् / ताभ्यां भेदो येषां विद्युदादीनामिति तदर्थात्, अप्रेतनमूले व्यधिकरणबहुव्रीहिकल्पनं परमाण्वादौ च निष्प्रमाण. कोद्भूतरूपस्वीकर्तृमतावलम्वनं चायुक्तमित्यरुचेराह / इत्यप्याहुरिति / न चैवं महत्त्वस्य चा टिप्पणी। स्य साक्षात्कारहेतुत्वं न स्यात् , उदभूतरूपमात्रस्यैवानतिप्रसक्तत्वादिति वाच्यम् / द्रव्यसामान्यसाक्षात्कार एवात्मादिस्थले महत्त्वस्य कारणत्वात् तदुत्कर्षेण चाक्षुषोत्कर्षाच्चेति भावः / परमाणावुद्भूतरूपं स्वीकृत्य यद्यपीत्यादिशङ्कामुद्धरति / उद्भवानुभवादय इति / तथा च तत्र परमाणुरूपानियमसम्भवेऽपि करकाविद्युदादिकाठिन्ये निमित्तमेदं विनाऽगतिरेवेति भावः / अपीत्यस्वरससूचनाय / स चोद्भूतत्वानुद्भूतत्वे हि प्रत्यक्षाप्रत्यक्षाभ्यां कल्पनीये देवताः आराधनीयतामासादयन्तीति शेषः। उपनायकाद्दष्टेति / उपनायक परमाण्वादिक्रियाजनकम् तेन चावश्यकता तत्र -दर्शिता तषाचावश्यकात् तस्मादुद्भवानुद्भवादिनिर्वाह आधेयशक्तिर्ने कल्प्येति भावः। निमित्तभेदात् अदृष्टविशेषात् अयश्च प्रतिरोधे हेतुः /