________________ प्रथमस्तवक' .. अपूवस्य चतनधमत्वापः। . द्रवत्वकठिनत्वादयो विशेषाः ? कथं वा पार्थिवे प्रतिमाऽऽदौ प्रतिष्ठाऽऽदिना संस्कृतेऽपि विशेषाभावात् पूजनादिना धर्मों, व्यतिक्रमे त्वधर्मोऽप्रतिष्ठिते तु न किश्चित् ? / न च तत्र यजमानधर्मणान्यस्य साहायकमाचरणीयम् / अन्य धर्मस्यान्यं प्रत्यनुपयोगात् , उपयोगे वा साधारण्यप्रसङ्गात् // भत्रोच्यते निमित्तभेदसंसर्गादुद्भवानुद्भवादयः // बोधनी। प्रतिमादिषु दृश्यत इत्याह-कथं वा-इति / विशेषाभावात्=पाकजदृष्टरूपादिविशेषाभावादित्यर्थः / ननु प्रतिष्ठादिजनितेन प्रतिष्ठापकात्मसमवेतेनैव धर्मेण सहकृतः पूजादिधर्म तद्वयतिरेकश्चाधर्म प्रसूते, ततश्च न प्रतिमादावतिशयोऽङ्गीकार्य इत्याशङ्कयाह-न च-इति / साहायक सहायकारित्वं यजमानः प्रतिष्ठापकः, अन्यः=पूजकादिः। उपयोगे वा-इति / क्वचिदन्यधर्मस्यान्यधर्म प्रत्युपयोगाङ्गीकारे नियामकाभावात् सर्वस्य धर्माधर्मजातस्य सर्वपुरुषसाधारण्यप्रसङ्ग इति / अर्द्धद्वयेन शङ्काद्वयं परिहरति-निमितभेद-इति / निमित्तभेद: सहकारिभेदः, तस्मा. प्रकाशः। विशेषानुपपत्त्या शक्तिरास्थेयेत्यत आह / पार्थिवेति। नन्वन्यधर्मस्यान्यत्र सहकारित्वम् , यथा पात्राय दानेऽधिकपुण्यम् , धर्मविशेषवत्त्वस्य पात्रत्वादित्यत आह / उपयोगे वेति / यजमानधर्मस्य भोगादिना क्षये पूजकस्य धर्मानुत्पादप्रसङ्गात् / तत्सत्त्वेऽपि चण्डालादिस्पर्शने. नापूज्यत्वाच्चेति। . निमित्तभेदेति / यद्यप्युद्भूतानुद्भुतपरमाणुरूपादेव तत्का>मुद्भतमनुद्भुत चोत्पद्यते इति निमित्तभेदस्तत्राप्रयोजकस्तथापि साक्षात्कारप्रयोजकतयोद्भूतत्वकल्पनात् परमाणुगुणेषु तदभावात् तन्नास्तीत्यदृष्टविशेषादेवानुद्भुतरूपादप्युद्भुतरूपं जायते इत्यभ्युपेयम् / न च या. प्रकाशिका। केचित् / वस्तुतो व्यापकजातिमति तव्याप्यंकजातिशून्ये गुणेतविरुद्धजातिनियमाद् द्वे अपि जातो साक्षात्कारेऽननुगतत्वादनुद्भूतत्वाभाव एव कारणम् / मिश्रा अपि प्रत्यक्षालोके चिन्तामणिं तथैव व्याख्यातवन्त इति यथाश्रुतमेव सम्यक् / उपयोगे वेतीति। प्रतिष्ठिताप्रतिष्ठितयोश्चण्डालस्पृष्टास्पृष्टयोश्च तददृष्टवदात्मसंयोगाविशेषादविशेषप्रसङ्ग इति मूलार्थः / तत्सत्वेऽपीति / मन्मते तु समानाधिकरणेन तेन शक्तिरेव नाश्यत इति भावः / परमाणुगुणेष्वित्युपलक्षणं व्यणुकगुणेष्वपीति मकरन्दः। यजमानेति / तथा च प्रतिष्ठिताप्रतिष्ठितयोः साधारण्यप्रसाः। चण्डालस्पृष्टापृष्टयोरपि स एवं प्रसङ्ग इति मुलार्थः। तत्सत्त्वेऽपोति / तथा च तत्स्पर्शस्य तन्निष्ठाधेयशक्तिनाशकत्वमिति भावः। परमाणुगुणेष्वित्युपलक्षणं, घणुकगुणेष्वपीति द्रष्टव्यम् / अनुभूतरूपादपोति / झणु टिप्पणो। द् द्वे अपि जाती प्रत्यक्षे त्वनुगमानुरोधादनुद्भुतत्वाभावकूटस्यैव कारणत्वमिति भावः। पाकतवत्यवान्तरेति शक्तिभिन्न विशेषानपपश्येत्यर्थः / परमाणरूपादेव तत्कायमिति / तस्मात् प्रतिमायामेव शक्तिकल्पनमुचितम् , तथा सति समानाधिकरणेनास्पृश्यस्पर्शेन सैव नाश्यत इत्मपूज्यत्वनिर्वाह इति भावः / उद्भूतरूपं जायत इत्यभ्युपेयमिति / तथा चात्र निमित्तभेदस्यैव प्रयोजकत्वं निमित्तभेदस्य मूलेऽदृष्टविशेषे परिगणनात् / नचैवं महत्त्व साधारण्यप्रसङ्गात् / तत्राधेयशकिः कल्प्येति शेषः। १६न्याकुर