________________ . . . 144 व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [11 कारिकाव्याख्यायो भन्ते / ते च तेजोऽनिलतोयसंसर्गविशेषः, ते च क्रियया, सा च नोदनाभिघातगु. रुत्ववेगद्रवत्वादृष्टवदात्मसंयोगेभ्यो यथायथमिति न किञ्चिदनुपपन्नम् / निमित्त भेदाश्च पाके भवन्ति / तद् यथा हारीतमांसं हरिद्राजलावसिक्तं हरिद्राग्निप्लुष्टमुपयोगात् सद्यो व्यापादयति, दशरात्रोषितं कांस्ये घृतश्चापि विषायते, ताम्रपात्रे पयुषितं क्षीरमपि तिक्तायते इत्यादि // 11 // ___यत्र तहि तोये तेजसि वायौ वा न पाकजो विशेषस्तत्र कथमुद्भवानुद्भव. बोधनी। क्वचिद् दृष्टकारणव्यतिरेकेण शक्तिरङ्गीकार्येत्याह-ते च-इति / नोदनादीनां परस्परनिरपेक्षाणामेव क्रियाहेतुत्वमिति दर्शितम् / यथायथम्-इति / क्वचित्तु पाकजविशेषस्याविशेषेऽपि मरणादिरूपकार्यविशेषदर्शनात तदतिरिक्तशक्तिभेदोऽङ्गोकार्य इत्यत्राह-निमित्तभेदाश्व-इति / पाकजानां निमित्तकारणानि भिन्नानि दृश्यन्ते, तेन निमित्तभेहहेतुकः पाजजेष्वपि विशेषोऽस्ति यतः कार्यविशेष इति भावः / निमित्तभेदं कार्यविशेषं च निदर्शयति। तद्यथा-इति / यदाह बाहट: हारीतमासं हारिद्रशूलकप्रीतपाचितम् / हरिद्रावहिना सद्यो व्यापादयति चर्वितम् // इति / सर्पिःक्षीरयोश्च पार्थिवत्वात् पाकजोत्पत्तिः सम्भवतीति // 11 // अस्तु पार्थिवेषु पाकजविशेषादेव कार्यविशेषः, अबादिषु तदभावाच्छक्तिरङ्गीकार्यत्याहयत्र तहि-इति / केचिदाप्याः परमाणव उद्भूतद्रवत्वं कार्यमारभन्ते, केचित्त्वनुद्भूतद्रवत्वं करकादिकम् / तैजसाश्चौद्भूतस्पर्शमुद्भूतरूपमनुद्भूतस्पर्शनुद्भतरूपं च प्रदीपं चक्षुदर्शनं चारभन्ते / वायवीयाश्च स्तिमितादीति / किञ्च, पार्थेवेष्वपि केषुचित् पाकजाभावेऽपि कार्यविशेषः प्रकाशः। ब्राह्यादावदृष्टविशेषस्यापि तैरपेक्षणात् / तर्हि पाकजोत्पत्त्यर्थमप्याधेयशक्तिरभ्युपेयेत्यत आह / ते चेति / ननु हारीतमांसं हरिद्राजलावसिक्तं हरिद्रानलप्लुष्टं सद्यो भोक्तारं व्यापादयतीत्युभयवा. दिसिद्धम् / तत्रावश्यं तेन शक्तिराधया। न चावश्यकात् पाकजादेवोत्पत्तिः / तस्य पलालानल. साधितस्याव्यापादनेनानैकान्तादित्यत आह / निमित्तेति / पाकजभेदमात्रं न हेतुः, किं तु निः मित्तभेदेनासादितः पाकजविशेष इत्यर्थः। अग्नौ सहकारित्वमुक्त्वा सौरालोके तदाह / दशरात्रेति / ताम्रपात्र इत्यनेन पाकजविशेषस्य प्रत्यक्षत्वं वदता शक्तयपेक्षया तत्र विनिगमकमुक्तम् / 11 / __ उद्भावानुद्भवौ विशेषगुणप्रत्यक्षत्वाप्रत्यक्षत्वप्रयोजको तवृत्तिजातिभेदो। पाकजवत्यवान्तर प्रकाशिका। मूलयोजना। द्वितीयव्याख्यानपक्षे चादृष्टस्यैव भोगनियामकत्वमस्त्वित्याशङ्काया "मदृष्टानीति" मूलमित्यवधेयम् // 11 // उद्भवानुद्भवाविति / इदं च मतभेदेन / एकमत उभयोर्जात्योरनङ्गीकारादिति। उत्पन्नाकरेणास्यैव भोगो जननीय इत्यत्र नियामकाभावादित्यर्थः / यद्यपि तददृष्टोत्पादितत्वमेव नियामकमन्यथा सर्गाद्यकुरे का गतिः / तथापि पूर्वोक्ते तात्पर्यम् // 11 // जातिभेदाविति / मतभेदेन / एकमते उभयजात्यनङ्गीकारात् / टिप्पणी। मन्तरेणेति भोगात् पूर्व तादृशव्यवहारो न स्यात् / एवं प्रेक्षावतां बहूनां भोगात् पूर्व तत्तद्वस्तू. पादानव्ययादौ कलहमापद्येत / इदानीमदृष्टस्य दृष्टद्वारयैव हेतुत्वं स्वीकरणीयमिति भावः // 11 // तवृत्तिजातिभेदाविति / व्यापकजातिमति व्याप्येकजातिशन्यै तद्विरुद्धजातिनियमा मकरन्दः।