________________ प्रथमस्तवके ] अपूर्वस्य चेतनधर्मत्वाक्षेपः / 143 वस्थाभयाञ्च अष्टानि कर्माणि द्रष्टकर्मव्यवस्थगैव भोगसाधनानीत्यन्नीयते / तस्मात् , पाकजविशेषैः संस्थानविशेषैश्च विशिष्टाः, परमाणवः कार्यविशेषमार. . बोधनी। मिति / दृष्ट कर्मव्यवस्थयैवादृष्टानि भोगसाधनानीत्युपसंहरति-तस्मात्-इति / पाकजादय इत्या. दिशब्दव्याख्यानं संस्थानविशेषैरिति / अत्र पाकजविशेषः पूर्वबीजादिसजातीयाङ्कुरारम्भे हेतुः / संस्थानविशेषः कार्यसन्निवे विशेषहेतुरिति / तेषु पाकजविशेषेषु तत्कारणपरम्परायां च न प्रकाशः। बलात् कृष्यादिहेत्वदृष्टस्यैव तत्प्रतिबन्धकत्वमुन्नीयते। यद्वा,सर्गायङ्कुरविजातीय एवेदानीमङ्कुरो यस्य कृष्याद्यपेक्षा / अत एव वैजात्याभावे दूषणमाह / अव्यवस्था इति / व्यभिचारेण कृष्यादीनां कारणत्वव्यवस्थैव न स्यादित्यर्थः / यद्वा भोगानियमप्रसङ्गाच्चेत्यर्थः / मदृष्टानीति / कृष्यादि. जन्याङ्कुरजनकमदृष्टं दृष्टकृष्यादिद्वारैव हेतुरित्यर्थः / संस्थानेति। संस्थान पदं संयोगमात्रपरम् / परमाणाववयवसंयोगाभावादित्येके / क्वचित् पाकविशेष, क्वचित्परम्पराजन्ये समानजातीयरूपादौ शरीरादौ संस्थानविशेषमपेक्षन्ते परमाणव इत्यन्ये / एतच्च उभयमुपलक्षणम् / तुल्यपाकजसंस्थाने प्रकाशिका। रो भट्टानामप्यतीतादिस्थले ज्ञाततानुत्पत्तेः। तत्प्रतिबन्धकत्वमिति / तथा च कृष्यादिसाध्य. भोगेन तददृष्टनाशे प्रतिबन्धकाभावादकुरोत्पत्तिरित्यर्थः / नन्वेवमपि कृष्यादेरनुपयोगे बीजं विनाप्यकुरः स्यादित्याक्षेपस्तदवस्थ एवेत्यरुचेराह / यद्वा सर्गादीति / न चैवमपि सर्गादिस. जातीय एवाङ्कुर इदानीमुत्पद्यतां वीजादिकं विनापीति वाच्यम् / तज्जातीयं प्रति सर्गादिकालस्य कारणत्वादिदानी च तदभावात्। मत एवेति / यत एव वैजात्ये तात्पर्यमित्यर्थः / ननु मूले न वैजात्यवार्तेति तत्परतया व्याख्यानमयुक्तमत आह यद्वेति / तत्कृत्यजन्यत्वे तेनाकुरेण तस्यैव भोग इत्यत्र नियामकाभावादित्यर्थः / यद्यपि तददृष्टोत्पादितत्वमेव नियामकं, तथापि तस्यापि दृष्टमेव कृष्यादिकं द्वारमित्याशयः। एवं च प्रथमव्याख्यानपक्षेरव्यवस्थाभयादेवमुनीयत इति मकरन्दः। यद्वा सर्गादीति / तत्सामग्रीसत्त्वात् सर्गाद्यङ्कुरजातीयोऽपीदानीमुत्पद्यतामित्यत्र नेदं बाधकम् / तथापीदानोन्तनाङ्कुरत्वावच्छेदेनैव कृष्यादिहेतुत्वान्न तथेति भावः // ननु मूले वैजात्यवार्ताऽपि नेति तत्परतया व्याख्यानमलग्नकमित्यपरितुष्यन्नाह / यद्वेति / कृष्यादिकं विना टिप्पणी। तत्प्रतिबन्धकत्वमुन्नीयत इति / इदानीन्तस्याङ्कुरादिप्रतिबन्धकत्वमित्यर्थः / तथा च कृष्यादिकरणे कृष्यादिजन्यभोगेन तद्धतुभूतादृष्टनाशे प्रतिबन्धकाभावादडरोत्पत्तिभवतीति भावः // यद्वा-सर्गाद्यङ्करेति / कृष्यादेस्तूपयोगो वीजं विनाप्यकुरः स्यादित्याक्षेपस्तदवस्थ एवेत्यरुचे. राह / यद्वेति / सर्गादिसजातीयाङ्कुरस्य तत्प्रतिकारणीभूतकालविशेषस्याभावान्नेदानीमापत्ति. सम्भवः / अत एव जात्याभाव इति / अत एव वैजात्ये तात्पर्य्यमिति भावः / व्यभि. चारेण कृष्यादीनां कारणत्वव्यवस्थैवेति / कारणत्वव्यवस्थापिका चाङ्कुरार्थिनां सर्वेषां कृष्यादि. प्रवृत्तिरेवेति // यद्वा भोगानियमप्रसङ्गाश्चेति / तत्कृत्यजन्यत्वे तेनाङ्कुरेणात्यैव भोगो नान्यस्येति नियमो न स्यादित्यर्थः / ननु सुखादाविरतददृष्टोत्पादितत्वमेव नियामकमित्याशस्याह / मुले दृष्टानीति / तद्वयाकरोति कृप्यादीति / तथा च तददृष्टजत्वेन तदी. यस्वादिव्यवहारः, तद्भोगसाधनस्वादिव्यवहारो वा, न तददृष्टजत्वमज्ञात्वा, तज्ज्ञानञ्च न भोग.