________________ 142 व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [11 कारिकाव्याख्यायां पाकजैरेव व्यावर्तन्ते / न ह्यस्ति सम्भवी गोक्षीरं सुरभि मधुरं शीतं, तत्परमाण. वश्च विपरीताः। तस्मात्तथाभूताः पाकजा एव परमाणवो यथाभूतैरेव आद्यातिशयोऽन्त्यातिशयोऽङ्करादिति किमत्र शक्तिकल्पनया ? / कल्पादावप्येवमेव / इदानी बीजादिसन्निविष्टानामस्मदादिभिरुपसंपादनं तदानीन्तु विभक्तानामदृष्टा. देव केवलान्मिथः संसर्ग इति विशेषः। न च वाच्यमिदानीमपि तथैव किं न स्यात् ? यतः कृप्यादिकम्मोच्छेदे तत्साध्यानां भोगानामुच्छेदप्रसङ्गात् / अव्य. बोधनी। न्तमात्रेणापरितुष्यन् प्रमाणमाह-न हि-इति / तत्तदवयविषु दृश्यमानविलक्षणगुणा एव तत्तदारम्भकपरमाणुषु गुणविशेषमावेदयन्ति / अन्यथा कार्येऽपि न स्युः कारणविशेषगुणपूर्वकत्वात् कार्थविशेषगुणानामिति। उपसंहरति-तस्मात्-इति / भूमावुप्तबीजस्याङ्कुरजननानुगुणमवा. न्तरकायमतिशयः, तत्रोच्छूनत्वमाद्यातिशयः, उच्छूनतमत्वमन्त्यः यतोऽकुरो जातः, उच्छूनतरत्वलक्षणस्तु मध्यमः सम्पातगृहीत इति / ननु महाप्रलये सकलकार्यविनाशाभ्युपगमातू-पाकजविशेषा अपि विनश्येयुः, कथं तदानीं परमाणवो नियतजातीयकार्यमारभेरन्नित्यत्राह-कल्पादौइति / कार्यदर्शनीयस्य पाकजविशेषस्यादृष्टसंस्कारवत् प्रलयेऽप्यविनाशः। यद्वा, तदानीमप्या मेयादिपरमाणुसायोगात् पाजविशेषोत्पत्तिरिति भावः / यद्युभयत्राविशेषः, तीदानीमपि कृषी. वलापेक्षा न स्यादित्यत्राह-इदानीम्-इति / बीजादिरूपेण सन्निविष्टानामारब्धबीजमृत्सलिलायवयविनां परमाणूनो यथाङ्कुराधारम्भकभावस्तथोपसर्पणमस्मदादिभिरिदानामिति / कथं तर्हि कल्पादौ कृषीवलायभावे बीजादिसमवधानमित्यत्राह-तदानीम्-इति / यथोक्तम् "अणुमनसो. श्वाचं कर्माद्वष्टकारितम् इति / इदानीमप्यदृष्टादेवोपपत्तेः किं कृषीबलेनेत्यत्राह-न चइति / हेतुमाह-कृष्यादि-इति / तत्र कृषीबलस्य कायसंक्षोमसाध्यानां दुःखात्मकाना भोगानां कृष्यादिकर्मलभ्यभृत्यादिभोगानां चोच्छेदः स्यात् / अव्यवस्थानामाप्रसङ्गातिप्रसझौ, सा च स्यात् / कृतकृषेरपि सस्याधिगमो न स्यात् , स्याच्चेतरस्येत्यर्थः / यद्वा, अदृष्टस्यैव हेतुत्वे केवलं कृषीवलभोग एव न स्याद् यस्य बोहितण्डुलादयोऽप दृष्टहेतवो न स्युरिति / अयमत्र भावः, यत्र दृष्टकारणानि सन्ति तत्र तदुपहारेणेवादृष्टस्योपयोगः न स्व न्त्रस्य, तेन हेतुत्वमवश्यमास्थेय प्रकाशः। श्यकमिति न तस्कल्पनं, येन कल्पनायामविशेषः स्यादित्याह / न ह्यस्तीति / शीतमित्युपष्टम्भकजलाभिप्रायम् / सौरभशैत्ययोरेकाधारत्वाभावात् / आयातिशयो द्वषणुकम् , अन्त्यातिशयोs. रादिरित्यभेदेनान्वयः / अन्त्यातिशयो वाऽङ्करादिरिति पाठेऽन्त्यातिशयोऽङ्करादिसमवायिकारणमित्यर्थः / यद्वा आयातिशयो बीजस्योच्छूनत्वम् / अन्त्यातिशय उच्छूनतरत्वम्। प्रलये कार्यद्र. व्याभावेऽपि परमाणुषु नियतकार्योनीतस्वभावानां पाकजानामात्मन्यदृष्टस्येव सद्भावात्तत एव सर्गादावपि नियम इत्याह / कल्पादाविति / उपसंपादनं सहकारिसमवधानोल्पादनम् / न चेति। यद्यस्मदादिव्यापार विना सर्गादावडरोत्पत्तिरिति शेषः / यत इति / यद्यपि कृष्यादिसाम्यभोगहेस्वदृष्टबलात् कृषिसंभवेऽपि सर्गादाविवेदानीमपि कृष्यादि विनाऽङ्करः स्यादेव, तथापि तथादर्शनवीजपूरेऽतिशयः करुप्यते लाक्षारसावसेकसाहित्योत्पन्नपाकजादेव निर्वाहादित्यर्थः। कल गदाव: प्येवमेवेति / प्रलये कार्यद्रव्याभाऽपि नियतकार्योनीतस्वभावानां पाकजानामात्मन्यदृष्टस्येव सद्भावात् तेन यथेदानी नियमस्तथा तत एव सर्गादावपि / ___ उपसम्यादनम् सहकारिसमधानोत्पादनम् / तथैव यथाऽस्मदाापार विनापि केवलादृष्टादेव कार्यनियमः सर्गादौ तथेत्यर्थः।