________________ 141 प्रथमस्तवके ] मपूर्वस्य चेतनधर्मस्वाक्षेपः / स्त्यागादिभिरनैकान्तिकत्वात् / न हि ते कालान्तरभाविफलानुगुणं किञ्चिद् हुताशनादौ जनयन्ति / किं वा न दृष्टमिन्द्रियलिङ्गशब्दव्यापारा: प्रमेयोदेशेन प्र. वृत्ताः प्रमातर्येव किञ्चिजनयन्ति, न प्रमेय इति / कृषिचिकित्से अप्येवमेव स्यातामिति चेन्न / दृष्टेनैव पाकजरूपादिभेदेनोपपत्तावद्ष्टकल्पनायां प्रमाणाभा. वात् / तथा च लाक्षारसावसेको व्याख्यातः / अत एव बीजविशेषस्याऽऽपरमा. ण्वन्तभङ्गेऽपि परमाणूनामवान्तरजात्यभावेऽपि प्राचीनपाकजविशेषादेव विशिटाः परमाणवः, तं तं कार्यविशेषमारभन्ते / यथा हि कलमवोज यवादेः, नरबोज पानरादेः, गोक्षोरं माहिषादेर्जात्या व्यावर्त्तते, तथा तत्परमाणवोऽपि मूलभूताः बोधनी। किञ्चित्-इति / प्रमेयगतं तु प्राकट्यं निराकरिष्यत इति भावः। कृषिः-इति / ते अपि हि प्रोक्षणादिवददृष्टरूपसंस्काराधानद्वारेण कार्यकरे स्यातामिति / न इति / परिणतिनिष्पत्तिः सहकारीति वा / इममेव प्रकारमुदाहरणान्तरेष्वप्यतिदिशति-तथा च-इति / लाक्षारसावसिक्तबीजपूरादिबीजजनिततत्कुसुमारुणिमापि न संस्काराधानतद्वारा लाक्षारसावसेकेन जायते। किन्तु रष्टेनैव रूपविशेषजननद्वारेणेति व्याख्यात्तमिति / तेनैतन्निरस्तं यदाह महाव्रतः - कुसुमे बीजपूरादेयल्लाक्षाद्यवसिच्यते / / शक्तिराधीयते तेन काचित्ता किं न पश्यसि // यदुक्तमन्यथा कृष्यादयो दुर्घटाः प्रसज्येरनिति तदुत्तरमुत्तरमधू संप्रहस्य व्याचष्टे-अत एवइति / यत एव दृष्टे सत्यदृष्टकल्पना न न्याय्या अत एव यवबीजारम्भकाः परमाणवः पूर्व कलमवीजारम्भकपरमाणुब्यावृत्त्यः पाकजविशेषैः कलमबीजविलक्षणं यवबीजमारब्धवन्तः प्राचीनस्तैरेव तजातोयैरेव वा विशिष्टाः परमाणवो यवाङ्कुरमेवारभन्ते नान्यमिति / ननु व्यावर्तकगुण. विशेषसिद्धौ हि त एव विशेषका भवेयुः, तसिद्धिरेव कुतस्त्येत्यत आह-यथा हि-इति / गथा हि तदवयविना जात्या व्यावृत्तिस्तथा तदारम्भकपरमाणूनां गुणविशेषावृत्तिरिति / दृष्टा प्रकाशः। किं वा नेति / प्राभाकर प्रत्यनैकान्तिकत्वम् , भाडाना प्रमेये ज्ञातताजननात् / कृषीति। प्रोक्षणवदपूर्वद्वारैवानागतकार्य हेतु स्यातामित्यर्थः। दृष्टेनैवेति / पाकजानामावश्यकतया तत एव नियतकार्योपपत्तेरित्यर्थः / ननु बीजपूरलाक्षारसावसेकस्याशुतरविनाशिनः कालान्तरीयारुण. पुप्पजनकत्वं तदाधेयशक्तया विना न निहतीत्यत आह / तथा चेति / तत्रापि तत्साहित्येनो. त्पन्नपाकजादेरावश्यकत्वात् तथेत्यर्थः / अत एव शाल्यादिनियतकार्यारम्भान्यथानुपपत्त्या परमाणावपि न तत्कल्पनमित्याह / मत एवेति / कार्यसजातीयपाकजवत्त्वं परमाणूनामप्याव प्रकाशिका। ति शेषः / प्राभाकरं प्रतीति / इदं च तनिष्ठकिञ्चिजनकमित्यत्र यदि जनकत्वं प्रयोजकत्वमा तदा भानामपि प्रमाज्ञानेन ज्ञातताजननात् यथाश्रुताऽसंगतेः / वस्तुतः सामान्यत एव व्यभिचा टिप्पणी / तस्य प्रथमोपस्थितत्वादिति / फलनियामकतथा सामान्यतो फलसमानाधिकरणो दृष्टसिद्धौ कथन्तदित्याकाङ्क्षायां जातेष्टयदिविधिप्रवृत्तः, तत्र तेन विधिनाऽपूर्वे बोधिते फलाश्रयस्य कर्बपेक्षया प्रथमोपस्थितत्वात्तद्गतापूर्वमेव सिद्धयति। दोषाभावादिति। मिथ्याज्ञानादिरूपदोषाभावादित्यर्थः॥ ___ एवमेव / प्रोक्षितवदपूर्वद्वारैवानागतकार्यहेतु / दृष्टेनैव = अवश्यक्लुप्तेनैव / लाक्षा. रसावसेक इति / आशुविनाशिलाक्षारसावसे कितबीजपूरेण कालान्तरारुणापुष्पजननस्थलेऽपि न