________________ 140 व्याख्यात्रयोपेतप्रकाशवोधनीयुते न्यायकुसुमाञ्जली [ 11 कारिकाव्याख्यायो ननु यदुद्देशेन यत् क्रियते तत्तत्र किञ्चित्करम् , यथा पुत्रेष्टिपितृयशौ / तथा चाभिमन्त्रणादयो व्रीह्याधुहशेन प्रवृत्ता इत्यनुमानमिति चेत् , तन्न / हवि. बोधनी। पूर्वपक्षी स्वाभिप्रायमुद्घाटयति-ननु-इति / तत्र किञ्चित्करमित्यत्र संयोगादिकरत्वात् सिद्धसाधनता निराकर्तु कालान्तरभाविफलातुकूलं किञ्चिदित्युपस्कर्तध्यम् / अत एवानैकान्तिकं प्रदर्शयन् वक्ष्यति "न हि ते कालान्तरभाविफलानुगुणम्" इति / वैश्वानरेष्टिहि पुत्रे तेजस्विता क. रोति, पितृयज्ञश्च पितरि तृप्तिमिति / न-इति / अनैकान्तिकतामेव लौकिकोदाहरणेन विशदयति प्रकाशः। पराभिप्रेतमनुमानमुद्भाव्यानैकान्तिकत्वं स्फुटयति नन्विति / पुत्रेति / "वैश्वानरं द्वादशकपालं चरुं निपेत् पुत्रे जाते"इति पुत्रजन्मनिमितको यागो यस्यायमर्थवादो "यस्मिजात एतामिष्टिं निर्वपति स पूत एव तेजस्वी अन्नादः पशुमान् भवतीति / पितृयज्ञः पितृश्राद्धादि / ननु ताभ्यां पितृपुत्रगतमेवापूर्व जन्यते, विहित. क्रियाया यागस्येव कर्तृगतापूर्वजनकत्वात् / न च मुक्ते कर्तरि तददृष्टनाशात् पुत्रादौ फलाभावोपपत्तिरिति वाच्यम् / अदृष्टस्य फलनाश्यतया पुत्रादिफलाभावेनादृष्टानाशात् / अत्राहुः। फलोपपादकमष्ट फलाश्रये कल्प्यते, तस्य प्रथमोपस्थितत्वात् , साक्षादुपपादकत्वाच्च / मुक्ते च पितरि श्राद्धेन दोषाभावान्नादृष्टं जन्यते / न चैवं साजश्राद्धस्य निष्फलत्वापत्तिः, अदृष्टोत्पत्ती स्वरूपसतो दोषस्याजस्य वैकल्यात् / अत्र किञ्चित्करत्वमानं साध्वम् , अतीन्द्रि यत्वेन विशेषितं वा ? / आये संयोगजननेन सिद्धसाधनम् , अन्त्ये च वहावपूर्वहेतुहविःसंयोगेन हविस्त्यागेनानकान्तिकमित्याह / हविरिति / __प्रकाशिका। विरुद्ध इति वाच्यम् / संस्कृतो व्रीहिरितिवत् तत्र स्वरूपसम्बन्धकल्पकप्रतीत्यभावात् / अत एवोपनयनादिजन्यादृष्टरूपसंस्कारस्यापि माणवकशरीरवृत्तित्वं संस्कृतो माणवक इति प्रतीतेः / पुत्रे ष्टिपदस्य पुत्रजन्मार्थकेष्टिपरत्वे न प्रकृतसङ्गतिरिति पुत्रेष्टि पदं जातेष्टिपरमित्याह / नैश्वानरमिति / तस्य प्रथमेति / भोगनियामकत्वेन सामान्यतो भोगसमानाधिकरणापूर्वसिद्धौ तदपूर्व कुतो जायतामित्यपेक्षायां जातेष्टयादिविधिप्रवृत्त्या भोगाधिकरणस्य प्रथमोपस्थितत्वात् तदा कर्तुरनुपस्थितेरित्यर्थः। साक्षादिति / साक्षात्सम्बन्धेनेत्यर्थः / दोषस्येति / फलाश्रयगतस्ये मकरन्दः। संस्कृतो व्रीहिरिति व्यवहारातू संस्काररूपाधस्य तथात्वेऽपि अदृष्टान्तरस्य साक्षात् सम्बन्धत्वे मानाभावादिति भावः / अत एवोपनयनादिसंस्कारस्य माणवकशरीरनिष्ठत्वं, संस्कृत इति व्यवहारादिति बोध्यम / प्रकृतसंलग्नतया पत्रेष्टिपदं जातेधिपरमित्याह / वैश्वानरमिति / तस्येति / पितृस्वर्गकाम इत्यादिना पित्रादेः प्रथमोपस्थितत्वादिति भावः / साक्षादिति / साक्षात् सम्बन्धेनोपपादकत्वादित्यर्थः / टिप्पणी। सम्बन्धोऽस्माकं प्रत्यासत्तितयाऽऽत्मसंयोगकल्पनमिति वाच्यम् / संस्कृतो व्रीहिरितिवत् संस्कृतः स्वर्ग इत्यादि प्रत्ययावर्शनात् नान्यत्र स्वरूपकल्पनम् / संस्कृतो माणवक इत्यादिदर्शनात्तत्रोपनय. नादिना संस्कारादीना माणवकशरीरवृतित्व कल्पत एवेति आत्मना तु समवाय एवेति बोध्यम् / वैश्वानरं द्वादशकपालमिति पुत्रेष्टिपदस्य पुत्रजन्मनिमित्तेष्टिपरत्वे प्रकृतासङ्गतेः, पुत्रजन्मजन्यसु. खादिरूपफलस्य कर्तगतत्वेन तत्रेष्टिजनितापूर्वस्य कर्तर्येव सिद्धान्तितत्वात्-अतस्तद् व्याचष्टे वैश्वानरमिति / साक्षादुपपादकत्वाच्चेति। साक्षात्सम्बन्धेन फलोपपादकत्वादित्यर्थः /