________________ प्रथमस्तवके] अपूर्वस्य चेतनधर्मत्वाक्षेपः। 136 बोधनी। तेन संस्कारानाधारत्वेऽपि क्रियाफलजलसंयोगभाजा ब्रीहीणां कर्मत्वोपपत्तिः, नाप्यनीप्सितकर्मत्वम्, आग्नेयायपूर्वेषु उपयोक्ष्यमाणत्वादित्यर्थः / प्रकाशः। च जलसंयोगावच्छिन्नक्रियाविशेषः प्रोक्षणमिति कथं तदेकदेशस्य तत्साध्यतान्वय इति वाच्यम् / संयोगस्योपलक्षणत्वेनापदार्थत्वात् / अन्यथा यत्र नाधेयशक्तिः सक्तून् प्रोक्षतीत्यादौ, तत्र का गतिः। वस्तुतो ज्ञानविषययोरिव ब्रीहिपुरुषसंस्कारयोः स्वरूपमेव साक्षात्सम्बन्धो, न तु समवाय इति भावः॥ प्रकाशिका। प्रसङ्ग इत्यपि प्रतिभाति / वस्तुत इति / तथा च न परम्परासम्बन्धकल्पनागौरवमपीति भावः। न चैवमदृष्टान्तरस्यापि कपालेन साक्षात् सम्बन्धे प्रत्यासत्तितयाऽऽत्मसंयोगकारणत्वस्वीकारो मकरन्दः। तथा च प्रकृताववघातविशेषे तस्य न विरोधित्वं नियमतस्तदनन्तरमेव तद्भावादिति भावः / सं. योगस्येति / ननु फलस्योपलक्षणत्वे तत्तझ्यापारमात्रस्यैव धात्वर्थत्वे त्यजिगम्योः पर्यायताऽs. पत्तिः / अवच्छेदकीभूतफलयोविभागसंयोगयोर्धात्वर्थाप्रवेशे स्पन्दमात्रस्यैव धात्वर्थत्वादिति चेन। व्यापारे ह्युपलक्षणीभूतस्यापि फलस्य प्रतीतौ विशेषणत्वमेव, इष्टसाधनताविधिपक्षे क्रियोपलक्षणस्यापीष्टस्य ज्ञान विशेषणतावत् / तदत्र फलविशिष्टो व्यापारो यदि वाच्यस्तदा शब्दात् फलविशि व्यापारप्रतीतिः / अपरथा फलोपलक्षितव्यापारधीरित्युभयथाऽपि फलांशेऽपि शतक प्रतीत्यविशेषो येन पर्यायता। विशेषणत्वे प्रकृते कर्मत्वानुपपत्तिरिति / बस्तुतस्तु त्यजेः स्पन्दमात्रं शक्यं, गमेः स्पन्दविशेष इति चिन्तामणिस्वरसात् स्पन्दत्वगमनत्वयोर्भेदे पर्यायत्वशङ्काऽपि न / गमनत्वं कर्मत्वव्याप्यसामान्यमिति लीलावतीस्वरसोऽपि तथा / अन्यथा उत्क्षेपणादेरपि गमनत्वे विभागव्याघातादिति / वस्तुत इति / तथा च परम्परासम्बन्धगौरवमपि नेति भावः / न चैवमदृष्टान्तरस्यापि तथात्वे अदृष्टवदात्मसंयोगो हेतुरिति न स्यादिति वाच्यम् / प्रोक्षणाद्यनन्तरं टिप्पणी। गोत्पादकफलभावनाया एव प्रतीतेरन्यत्रापि विध्यपेक्षितत्वमपूर्वस्यैवेति तस्यात्मनिष्टत्वे व्रीहिपदो तरं द्वितीयानुपपत्तेरिति भावः। तदव्युत्पत्तेरिति। विध्यपेक्षितफलस्य द्वितीयार्थत्वबोधकशास्त्रस्याभावादित्यर्थः / संयोगस्यापि विध्यपेक्षितत्वादिति / विध्यपेक्षितत्वञ्च विधिविषयक्रिया जन्यत्वं मीमांसकनये फलभावनाया एव विध्यर्थत्वेन तस्य विधिवाक्य जज्ञानविषयत्वे विधिविषयत्वमस्त्येवेति संयोगस्य विध्यनापेक्षितत्वे व्रीहिमुद्दिश्य भूम्यादावपि जलादिसेकेनापूर्वोत्पादाद् व्रीही * जलसंयोगकरणस्य वैफल्यापत्तेरिति / तत्साध्यतान्वय इति / तत्साध्यतेति यदुक्तं तदुत्तरमान.. सबोधाभिप्रायेण, शाब्दे तु द्वितीयार्थस्य धात्वर्थ एवान्वयेन साधनत्वस्यैव प्रतीयमानत्वादिति बोभ्यम् / अपदार्थत्वादिति / संयोगादिफलानवच्छिन्नव्यापारस्य धात्वर्थत्वे त्यजिगम्यादीनां पर्य्यायतास्यादिति वाच्यम्। त्यजेः स्पन्दमात्रंशक्यं गमेः स्पन्दविशेष इति चिन्तामणिकारलेखनात् ,वि मिन्नयोः स्पन्दनत्वगमनस्वयोः फलानवच्छिन्नयोरुभयत्र शक्यतावच्छेदकमिति न पायताप्रसङ्गः, अन्यथा फलस्य विशेषणत्व इत्यर्थः / वस्तुतो ज्ञानविषययोरिति / ज्ञानविषययोरिव व्रीहिपूरुषसंस्कारयोरपि साक्षादेव सम्बन्ध, एवञ्च परम्परासम्वन्धकल्पनमपि नास्माकम् , अस्तु वि. ध्यपेक्षितफलमेव द्वितीयार्थः, संयोगादिविशेषितव्यापारोऽपि धात्वर्थः, तथापि न किमप्यनुपपनमिस्याह / वस्त्वितिस्वरूपमेव साक्षात्सम्बन्ध इति / न चैवमदृष्टान्तरस्यापि फलेन साक्षादेव