________________ 138 व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाजलौ [ 11 कारिकाव्याख्यायी यथा चाभिचारसंस्कारो यं देहमुद्दिश्य प्रयुक्तस्तदपेक्ष एव तत्संबद्धस्यौव दुःखमुपजनयति, नान्यस्य / न वा तदनपेक्षः / एवमभिमन्त्रणादिसंस्कारा अपि भवतो न मनागपि नोपयुज्यन्ते / कथं तर्हि व्रीह्यादीनां संस्कार्यकर्मतेति चेत्, प्रा. क्षणादिफलसम्बन्धादेव / बोधनी। च विधिरेव प्रमाणमिति / अत्रोभयसिद्धं निरूपयति-यथा हि-इति / श्येनेष्वेकद्वित्रिकायभिचारकर्मजनित संस्कारो हि कळत्मसमवेतत्वेन भ्रातृव्यदेहानाधारोऽपि उद्देश्यदेहापेक्षस्तत्सम्बद्धस्य तस्यैवात्मनो मरणादिदुःखं जनयति नान्यस्य, नापि तस्यैव भवान्तरीयसम्बद्धस्येति / दाष्टोन्तिके. ऽतिदिशति-एवम्-इति / एवं भवन्तः उद्देश्यसहकारिणो भवन्त इत्यर्थः / कथं तर्हि-इति / ब्रोहीनिति द्वितीयया तावत् कर्मत्वमवगम्यते, तच्च प्रोक्षणादिक्रियाजन्यफलभागित्वमन्तरेण नोपपद्यत इति / प्रोक्षणादि-इति / प्रोक्षणक्रियायास्तावज्जलसंयोगः फलं, तत्फलं च संस्कारः, . प्रकाशः। संस्कारस्य नासादृष्टिकमित्याह / यथा चेति / ननु, व्रीहीन् प्रोक्षतीति द्वितीयाश्रुतेः क्रियाजन्येष्टफलभागित्वं व्रीहीणां प्रतीयते / न चापूर्वस्य व्रीहिवृत्तित्वं, साक्षात्सम्बन्धस्यौत्सर्गिकत्वादित्याह / कथमिति / प्रोक्षणक्रियाजन्यजलसंयोगेन धात्वर्थावच्छेदकफलेन साक्षात्सम्बन्धाद् व्रीहेः कमत्व. मित्याह / प्रोक्षणादीति / न च जलसंयोगस्य कृत्स्नव्रीहिष्वभावः, कपिञ्जलन्यायेन व्रीहित्रयः जलसंयोगेनैव बहुवचनोपपत्तेः / कालान्तरे कृत्स्नोपादानस्य च कृत्स्नोद्देश्यतामात्रप्रयुक्तत्वात् / अन्यथा शक्त्याधानपक्षेऽपि तुल्यत्वात् / न च विध्यपेक्षितफलभागित्वं द्वितीयाऽर्थः, तदव्युत्पत्तेः प्रामं गच्छतीत्यादौ तदभावात् , संयोगस्यापि विध्यपेक्षितत्वाच्च / अन्यथा तदनुपयोगापत्तेः / न प्रकाशिका।' श्यतयासतिरपास्ता / पूर्वोक्तन्यायेन / व्यक्तिवचनन्यायेन / अन्यथा शक्त्याधानेति। सकलव्रीहिजन्यसंयोगाभावेन शक्त्याधानानुपपत्तेरित्यर्थः / उक्तं हि द्वितीयामात्रार्थो वा वैदिक. द्वितोयार्थो वा / आद्ये दोषमाह ग्राममिति / अन्त्ये दोषमाह / संयोगस्थापीति / विधिविषयक्रियाजन्थफलस्यैव विध्यपेक्षितपदार्थत्वादिति भावः / संयोगस्येति प्रतीतौ विशेषणत्वमेव, अन्यथा त्यजिगम्योः पर्यायता स्यात् , संयोगस्य प्रोक्षणसाध्यत्वान्वये च संयोगोपलक्षितकर्मणः साधनत्वेनान्वय इति प्रकाशार्थः, इष्टसाधनताविधिपक्षे क्रियोपलक्षणस्यापीष्टस्य प्रतीतिविशेषणतावदविरोधात् , चिन्तामणौ तु त्यजेः स्पन्दमात्रं शक्यं गमेः स्पन्दविशेष इति वस्तुतो लेखनाद् भिन्नयोः स्पन्दत्वगमनत्वयोः फलानवच्छिन्नयोरेवोभयत्र शक्यतावच्छेदकत्वमिति न पर्यायता मकरन्दः / विध्यपेक्षितेति / जलसंयोगश्चावघातविरोधितया न तथेति भावः। संयोगस्यापीति / टिप्पणी। तथा च वर्हिःशब्दस्य यथाश्रुतार्थकत्वे तस्य विनियुक्तस्य विनियोगादर्शनादसास्यापत्तेः॥ मन्यथा शक्त्याधानेति / अन्यथा कृत्स्नोदेश्यत्वस्याप्रयोजकत्वे सकलव्रीहिषु जलसंयोगाभावेन शक्त्याधानानुपपत्तेः कृत्स्नानुपपत्तिरिति / फलमागित्वं द्वितीयार्थ इति / यजेतेत्यादौ यागजन्यस्व. संस्कार्यकर्मेति / अत्र संस्कार्यपदोपादानं दोषसंघटनाय तथा हि प्रोक्षणजन्येष्टफलवत्त्व. स्यैव तादृशकर्मतात्वेन संस्कारस्य तत्रास्वीकारानुपपत्तिः / स्यादेतत् यदि कियाजन्येष्टफलशालित्वं कर्मत्वं तदेव न / धात्वर्थतावच्छेदकफलवक्त्त्वस्यैव तत्त्वात् तस्य संयोगादिरूपस्य सत्त्वान कर्मत्वहानिरित्याह / प्रोक्षणेति /