________________ अपमस्तवके ] अपूर्वस्य चेतनधर्मस्वाक्षेपः। - 137 कत्वस्योभयत्रापि तुल्यत्वात् / न तर्हि बहिष इव वोह्यादेः पुनरुपयोगान्तरं स्यात् , उपयोगे वा तजातीयान्तरमप्युपादीयेत, भविशेषात् / न / विचित्रा ह्यभिसंस्काराः केचिद्याप्रियमाणाहेश्यसहकारिण एव कार्ये उपयुज्यन्ते / किमत्र क्रियतां, विधेर्दुलंध्यत्वात् / बोधनी। कारीर्यामनियतफलत्वं, तच्चाविशिष्टं प्रोक्षणादिष्वपि / उभयं ह्यागमेन फलाय विधीयत इति / अतः प्रोक्षणादिष्वपि वैगुण्यनिबन्धनः फलाभावोऽविशिष्ट इति / . ननु यदि भाविप्रयोजनार्थ व्रीहयः संस्क्रियन्ते तदा तेषां स्वकार्यान्तरोपयोगो युज्यते। यदि तु पुरुषः संस्क्रियेत, तदा न यदैकस्मादपूर्वं तदेतरत्तदर्थमिति न्यायात् सक्तुवद् विनियोगभङ्गेन ब्रीयादेः प्रोक्षणादिशेषतैव स्यात् , तत्र च प्रोक्षणादिनिर्वृत्त्यैव कृतार्थानां ब्रीह्यादीनो कार्यान्तरोपयोगो न स्यात् / “बर्हिषि हवींष्यासादयतीति हबिरासादने विनियुक्तस्य वर्हिष इवेत्याह-न तहिइति / अथ व्रीहिभिर्यजेतेति व्रीहीणां यागसाधनत्वेन विधानात् कृतकार्याणामपि यागार्थमुपादानमिति चेत् तत्राह-उपयोगे वा-इति / तदा हि प्रोक्षितैर्यष्टव्यमिति नियमाभावाबीहिजातीयं व्यक्तयन्तरमुपादीयेत प्रोक्षिताप्रोक्षितयोwहिवर्हिषोर्वा विशेषाभावादिति / सिद्धान्त्याह-नइति / वैचित्र्यमेवाह-केचित्-इति / कस्मैचित् कार्याय यल्लक्ष्यीकृत्य या क्रिया प्रयुक्ता तज्जनितः संस्कारः कश्चित्पुरुषाधारोऽपि तदुद्देश्यव्यापारसहकार्येव कार्य करोति, कश्चित्तु तन्निरपेक्षः / तत्र प्रकाशः। प्रधानापू भावस्तत्र प्रोक्षणजन्यापूर्वस्य कथं नाशः, तस्य भोगेतरानाश्यत्वादिति वाच्यम् / इतराशापूर्वतुल्यत्वादिति भावः / बहिष इवेति / उत्पादिताङ्गापूर्वस्य बहिर्यागस्येव विनियुक्तबिनियोगविरोधादित्यर्थः / यद्वा बर्हिस्तृणाति, बर्हिषि हविरासादयतीति वचनाद्यथा बर्हिषः पुनरुपयोगो, न तथा व्रीहेरिति व्यतिरेके दृष्टान्तः / ननु व्रीहिभिर्यजेतेति यागसाधनत्वेन व्रीहीणां विधा. नात्तत् स्यादित्यत आह / उपयोगे वेति / विचित्रा हीति / संस्कारमाहात्म्यमेवेदं यनिष्ठ. व्यापारेण पुरुषसंस्कारो जनितस्तस्य व्रोह्यादेः संस्कारः सहकारी, नान्यस्येत्यर्थः / विधेरिति / वीहीनवहन्तीति विधेः पूर्वोक्तन्यायेन प्रोक्षितव्रीहिष्वेव तात्पर्यादित्यर्थः / प्रोक्षिता व्रीहयोऽवघा. ताय कल्पन्त इति वाक्यशेषसहितस्यैव विधेर्दुल्लघयत्वादित्यर्थः / व्याप्रियमाणोद्देश्यसहकारित्वं प्रकाशिका। वस्तुतोऽप्रयोजकत्वे तात्पर्यमिति / भोगेतरेति / फलेतरेत्यर्थः / तेनामापूर्वस्य प्रधानापूर्वना टिप्पणो। समुदायस्य हेतुत्वं तथा च न दोष इत्युत्तरयितुराशयः / अनाश्यत्वादिति / तस्माद् व्रीहिनिष्ठ एव स स्वीकर्त्तव्य इति शेषः। उत्पादिताङ्गापूर्वस्येति / उत्पादिताशापूर्वतत्तद्व्यक्तीना पुनर्विनियोगस्यासांदृष्टिकत्वेन व्रीहेरुत्पादिताशापूर्वत्वेन पुनर्विनियोगो न स्यादिति प्रोक्षितव्रीहेः संस्कार एवाभ्युपेतव्य इति भावः / बर्हिःशब्दस्य यागार्थकत्वे हेतुमाह विनियुक्तेति। तस्यैवेति शेषः, तहि-प्रोक्षणेन व्रीयादीनामात्मन्यपूर्वस्वीकारे। उपयोगान्तरम् , अपूर्वजनकव्यक्तीनां पुनर्विनियोगादर्शनात् / अविशेषात्-प्रोक्षणजन्यसंस्काराणां स्वाश्रयसंयुक्तत्वरूपसम्बन्धस्य प्रोक्षितव्रीहिवदन्यत्रापि सत्त्वाविशेषादित्यर्थः / दुलङध्यत्वात् व्रीहीनवन्तीत्यादिविधेस्तथाविधव्रीहितापर्यकत्वादित्यर्थः / 18 न्या०कु०