________________ 136 व्याख्यात्रयोपेतप्रकाशयोधनीयुते न्यायकुसुमाञ्जलौ [11 कारिकाव्याख्यापा पुरुषमेव संस्कुरुते, न तम् / यथा च कारीरीजनितसंस्काराधारपुरुषसंयोगाज्जलमुबां सञ्चरणजलक्षरणरूपा क्रिया, तथा ब्रीह्यादीनां तत्तदुत्तरक्रियाविशेषाः। यथा कत्र कर्त्तकर्मसाधनोगुण्यात् फलाभावस्तथा परत्रापि / मागमि . बोधनी। संस्काराणां ब्रीह्याद्यसम्बन्धानामेव तत्सहकारित्वमित्यत आह-यथा च-इति / यथा हि कारीरीजनितसंस्कारानाधारा एव जलधरास्तदाधारयजमानात्मसंयोगादेव गगनं संचरन्ति वर्षन्ति च, तथा व्रीह्यादयोऽपि संस्कृतात्मसम्बद्धाः कार्योपयोगिन इति / ननु पुरुषसंस्कारपक्षे यदा तस्य पातकादिदोषस्तदा तस्मिन् संस्काराधानायोगाद् वैफल्यमेव प्रोक्षणादेः स्यात् / ब्रीहिसंस्कारस्वे तेषामदुष्टत्वान्नायं दोष इत्यत्राह-यथा ब-इति। कर्तृदोषे यथैकत्र कर्तरि फलस्य संस्कारस्याभावः, तथापरत्र व्रीह्यादिष्वपि कर्तृत्ववैगुण्ये क्वचिदपि न संस्कार उत्पद्यत इत्यर्थः / यद्वा, एकत्र कारीर्यामपरत्र प्रोक्षणादावपि उभयत्र पक्षद्वये कमद्वये वाप्यागमिकत्वस्य तुल्यत्वाददुष्टानामेवाधिकारः / अत्र कर्मसाधनयोरुपादानं दृष्टान्तार्थम् / यद्वा, कृमिकीटकायुपहतेष्वपि ब्रीहिषु व्रीह्यन्तरोपादानं न स्यादसंस्कृतत्वाविशेषादित्यत आह-यथा-इति / कर्मादिवैगुण्य इव ब्रीह्यादिदोषे ऽपि फलाभावश्रुतेस्तुल्यत्वेन ब्रीह्यन्तरोपादानमुपपद्यत इत्यन्या व्याख्या। ननु पुरुषसंस्कारपक्षे प्रोक्षणादीनां कारीर्यादिवदनियतफलत्वं प्राप्नोतीत्यत्राह-यथा च-इति / कर्मादिवैगुण्यनिमित्तं हि प्रकाशः। न्धाभावान मिथः सहकारित्वं स्यादित्यत आह / यथा चेति / संस्कारवदात्मसंयोगो मेघस्येव व्रीहेरपि तुल्य इत्यर्थः / मच परम्परासम्बन्धे गौरवम् , प्रामाणिकत्वादिति भावः। नन्वात्मनोऽनधिकृतस्यापि सम्भवान तनिष्ठः संस्कारः सम्भवतीति व्रीहिनिष्ठ एव स स्यादित्यत आह / यथा चेति / कर्तृबैगुण्ये संस्कारो नोत्पद्यते / तत्सादगुण्यस्यापि हेतुत्वादित्यर्थः / न चाने प्रधानयागायभावाद् यत्र प्रकाशका। तेरधर्मरूपत्वे च विहितश्येनसाध्यत्वानुपपत्तेः, तस्मात् शत्रुवधसाध्यसुखादिनिष्पादकमपूर्व कर्तय्येव धर्मरूपं स च धर्मः पूर्वकृतशत्रुनिष्ठाधर्मस्य शत्रुमरणे जननीये सहकारीत्येव रमणीयम् / मकरन्दः। ज्ज्येत / तस्यैव तच्छत्रुत्वात् / किन्तु स्वगतशत्रुवधमुद्दिश्य श्येनः क्रियते। तथापि वधस्य संयोगध्वंसात्मकमरणरूपस्य शत्रुनिष्ठतया तथोक्तम् / एतदपि परमते / अस्मन्भते श्येनापूर्वस्य शत्रुनिष्ठत्वमेव, फलोपपादकमपूर्व फलाश्रये कल्प्यते इति वक्ष्यमाणयुक्तरिति बोध्यम् / अस्मन्मते स्वप्रयोजकत्वे तात्पयम् / पिणी .. भावादिति / अबघातादिरूपकार्यजनन इति शेषः / प्रामाणिकत्वादिति / अतिशयस्य साक्षात्सम्बन्धेन व्रीहिनिष्ठत्वापेक्षया उक्तयुक्त्या आत्मनिष्ठत्व एव लाघवेन तादृशसम्बन्धस्य प्रमाणसिद्धत्वेन गौरवस्याकिञ्चित्करत्वादि भावः ॥०॥व्रीहितिष्ठ एव स स्यादिति / अनधिकृतात्मस्थले व्रीहेवैगुण्यात्प्रोक्षणजन्यस्यावघातजनकस्योत्पादो भवत्येवेति शङ्कयितुरभिप्रायः // 0 // कर्तगुण्ये संस्कार इति। कर्तृवैगुण्यस्थले परमापूजननस्योभयसिद्धत्वेन तत्र तद्धेतुभूत. संस्कारादेरपि मानाभावः प्रयोजनाभावात् / तथाचाङ्गापूर्वादावपि कर्तृकर्मसाधनवैगुण्याद्यभाव. रणस्य स्वीकारापत्तेः, देवतायां तस्यास्वीकारात् / एवं फलव्यधिकरणस्य परमापूर्वस्य सर्वैरस्वीकाराद् देवतायो नातिशयसम्भव इति यो यदुद्देशेनेत्यादिव्याप्ती व्यभिचार इति भावः। तथा संस्कारवदात्मसंयोगादिरित्यर्थः। क्रियाविशेषाः प्रोक्षणाभ्युक्षणादयः / एकत्र = परमापूर्षस्थले, अथवाऽऽत्मनिष्ठत्वपक्षे / परत्रापि = अङ्गापूर्वस्थलेऽपि व्रीहिनिष्ठत्वपक्षेऽपीति वा /