________________ 134 व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायंकुसुमाञ्जलौ [11 कारिकाव्याख्यायां स्वगुणाः परमाणूनां विशेषाः पाकजादयः // 11 // बोधनी। यवाना विभागेनासमवायिकारणतत्संयोगविनाशाद् विनश्यति / एवमापरमाण्वन्तं विभागात् , तेषु च यवकलमादिविजातीयाकुरारम्भकनियामिकाया जातेरभावात् , कलमबीजावापे कलमाङ्कुर एव यवबीजावापे यवाङ्कुर एवेत्येवं कार्यजातिनियमानुपपत्तिः / अतिशयाङ्गीकारे कृष्याद्याहितातिश. यास्ते ते परमाणवस्तं तं कार्यविशेषमारभन्त इति नियमोपपत्तिरिति भावः। तदेवं प्रोक्षणादिजन्यातिशयवद् यागादिजन्यमपूर्व भुतधर्मोऽस्त्विति पूर्वपक्षिते सिद्धान्तमारभते-मत्र-इति / यदि तावत् प्रोक्षणादयः कच्चिदतिशयमादधतीति साध्येत ततः सिद्धसाधनम् , अयोद्देश्यगतमादधतीति, ततोऽनैकान्तिकता; ततः पुंस एव संस्कार इष्यताम् , कृष्यादावपि क्लुप्तैरेव पाकजादिगुणविशेषैः कार्यनियमोपपत्तौ नाप्रसिद्धातिशयकल्पनेति साध्यवैकल्यमिति भावः। प्रकाशः। कालान्तरभाविफलजनकतया विहितत्वात् ,यागवत् / न चाऽप्रयोजकत्वम्,यागादीनामपूर्वजनकता. यामुक्तरूपस्यैव प्रयोजकत्वात् , अन्यस्याननुगतत्वादिति भावः। कृष्यादिना व्यभिचाराभावं परोक्तदृष्टान्तस्यासिद्धिं चाह / स्वगुणा इति / तत्र दृष्टद्वारस्यैव सम्भवान व्यभिचारः / न वा तत्र परमाणौ अतिशय इति दृष्टान्तः साध्यविकल इत्यर्थः / यद्यपि पाकजा रूपादयोऽपि तनिष्ठातिशया एवेति न साध्यवैकल्यं, तथाप्याधेयशक्त्यभावमात्रे तात्पर्यम् / न ह्याधेयशक्तिपाकजयोरतीन्द्रियत्वाविशेषात् कल्पनायामविशेषः। परमाणाववयविरूपादिसजातीयपाकजरूपायुत्पत्तेरावश्यकत्वात् / तत एव नियतकार्यजननोपपत्तौ शक्त्याधानकल्पने गौरवादिति भावः / प्रकाशिका / चिकित्सायां व्यभिचार इति सत्यन्तम् / दृष्टत्वं च क्लृप्तत्वं न त्वदृष्टान्यत्वमन्यतरासिद्धः। पापध्वंस. फलकप्रायश्चित्ते व्यभिचार इति / कालान्तरेति / कालान्तरत्वं च स्वोत्पत्यव्यवहितक्षणान्यत्वं न तु स्वानधिकरणकालत्वं विहितपदवैयर्थ्यात् यथाविवक्षिते त्वपूर्व एव व्यभिचार इति तत्पदम् / अपूर्व च तन्मते कल्प्यमिति भावः / केचित्तु धर्मजनकत्वं साध्यमिति निषिद्धकर्मणि व्यभिचारवा. रणाय विहितपदमिति कालान्तरत्वं स्वानधिकरणकालत्वमेवेत्याहुः / कृप्यादिनेति / यद्यपि मदुक्तानुमाने व्यभिचाराभावं मूलकृदाहेत्यनन्वितं मूले चैतादृशानुमानं नोक्तमेव / तथापि मूलकलात्पर्यस्थमेवानुमान प्रकाशकृता प्रकाशितमिति स्वतात्पर्यानुमाने कृष्यादिना व्यभिचाराभावमाहेत्यर्थः / परोक्तति / परेण प्रन्थ-उक्तस्येत्यर्थः / तत्र इष्टद्वारस्यैवेति / यद्यपि विहितत्वाभावादेव न तत्र व्यभिचारः, तथापि वर्णोपायविभागावसरे कृष्यादेरपि विहितत्वमेवेत्यनेनाभिप्रायेणे मकरन्दः। नान्यतरासिद्धिरित्यप्याहुः। मदुक्तमनुमानप्रकाशे द्रष्टव्यम् / साक्षात् पापध्वंससाधने प्रायश्चित्ते व्यभिचारवारणाय कालान्तरेति / कालान्तरत्वञ्च स्वानन्तरक्षणान्यत्वम् / अन्यथा विहितपदवैयर्खापत्तेः / एवञ्चापूर्व एव व्यभिचारवारणाय तत् / तच्च मन्मते कल्प्यमिति भावः / वस्तुतो धमजनकत्वमत्र साम्यम् / तथा च निषिद्धकर्मणि व्यभिचारवारणाय / तदिति / कृप्यादिनेति / टिप्पणी। रुपनासम्भवेऽप्यनेकवीहौ तत्सम्बन्धकल्पनापेक्षयाप्यात्मनिष्ठत्वे लाघवं द्रष्टव्यम् / फलजनकतया विहितत्वादिति / चिकित्सादौ व्यभिचारवारणाय सत्यन्तम् / कालान्तरत्वं चोत्पत्यव्यवहितक्षणान्यत्वं न त्वव्यवहितोत्तरत्वसम्धनेन स्वाधिकरणत्वं तथा सति विहितत्वपदयात् / जातेरभावादिति / तथा च ब्रीह्यादिविभक्तपरमाणूना विशेषाभावेन व्रीहिनिर्वपने कदाचि