________________ प्रथमस्तवके ] . . .अपूर्वस्य चेतनधर्मत्वाक्षेपः।। 133 यन्त एव प्राक्षणादयः कालान्तरभाविने फलाय कल्पन्ते. प्रमाणतस्तदर्थमुपादीयमानत्वात् , यागकृषिचिकित्सादिति / अन्यथा कृष्यादयो दुर्घटाः प्रजज्ये: रन् / बीजादीनामापरमाण्वन्तभङ्गात तेषु चावान्तरजातेरभावानियतजातीयकार्यारम्भानुपपत्तेः। भत्रोच्यते-- संस्कारः पुंस एवेष्टः प्रोक्षणाभ्युक्षणादिभिः // बोधनी। त्युक्त-भाव-इति / भ्रमादिकृतेनोपादानेनानै कान्तिकं मा भूदित्याह-प्रमाणत-इति / श्रुति प्रमाणादित्यर्थः / न च कृष्यादौ साध्यवैकल्यमित्याह-अन्यथा-इति / कथमित्याह-- बीजादीनाम्-इति / परिकर्षितायामामुप्तं बीजावयवि पाथःपवनसंयोगात् क्रियोत्पत्तावव प्रकाशः। तत्समवहितत्वं व्रीहेः साक्षात् सम्बन्धात् / पुरुषनिष्ठत्वे व्रीहीणा साक्षात् सम्बन्धाभावात् परम्परा. सम्बन्धे गौरवं च, न च विहितत्वेन पुरुषनिष्ठातिशयजनकत्वमनुमेयम् / अप्रयोजकत्वात् / चिकि. स्सादिमा व्यभिचाराच्चेत्याहुः। दृष्टान्तस्य साध्यवैकल्यमपाकरोति / भन्यथेति / प्रोक्षणादिज. न्यातिशयसिद्धावपि तस्य व्रीहिनिष्ठत्वं न सिद्ध्यतीत्याह संस्कार इति / अतिशयधर्मिग्राहकमानादेव लाघवसहकृतात् स एक एव सिक्ष्यति, पु. रुषनिष्ठश्च / तथाहि, ब्रीहिगतत्वे न तावत्स कलव्रीहिनिष्ठ एक एव, एकत्रीहिनाशे तन्नाशापत्तेः / म च यावदाश्रयनाशात्तनाशः, लापवादाश्रयनाशस्यैव तन्त्रत्वात् / वृक्षादौ किश्चिदाश्रयनाशात्तनाशे. ऽपि खण्डपटन्यायेन पुनरुत्पत्तिरित्यनेको वाच्यः। न चैवमेकव्रीहिनाशे फलानुदयः, तावत्संस्काराणामभावादिति वाच्यम् / संस्कारत्वेनैव प्रयोजकत्वात् / किंचित्तत्समवधानेऽपि दण्डादिवत् कार्य सत्त्वादिति गौरवम् / न च विनिगमकाभावः / प्रोक्षणमपूर्वजनकं, दृष्टद्वाराभावे सति प्रकाशिका। संस्कारत्वेनेति / न चैवं तावतो व्रीहीणां किमित्युपादानमिति वाच्यम् / होमनिर्वाहाय तावदुपादानात् / यद्यपि विनिगमकं लाघवमेव, तथाप्यपूर्व तदित्यत्र विनिगमकं नास्तीत्यास कथ निराकरोति न चेति / वस्तुतो लाघवोपकार्यमानाभाव इति शङ्कार्थः / इष्टद्वाराभाव इति / मकरन्दः। संस्कारत्वेनेति। न चैवमनेकद्रीयुपादानानुपपत्तिः / होमादिनिर्वाहार्थ तदुपगमात् / यद्यपि विनिममकमुक्तमेव, तथाप्यपूर्व तदित्यत्र विनिगमकाभावमाशङ्कय निराकरोति।न चेति / दृष्टद्वारेति। मङ्गलादौ व्यभिचारवारणाय सत्यन्तम् / इष्टत्वं-क्लप्तत्वम् / तत्तदृष्टत्वं विशिष्यैव वक्तव्यमिति टिप्पणी। नाय / पक्षधर्मताज्ञानस्य प्रमाणान्तरसहकारित्वस्य यथोक्तरूपेण कुत्राप्यस्वीकारात् उक्तव्याप्तौ मीमांसकानामनिर्भरत्वाच्चेति गावः / इत्यनेको वाच्य इति / म च छिन्नायामपि शाखायो सोऽयं वृक्ष इति व्यवहाराद् यावदाश्रयनाशस्य हेतुत्वं वाच्यमिति वाच्यम् / साजात्यावलम्बनेनैव तादृशव्यवहारोपपत्तेरिति / संस्कारत्वेनैवेति / प्रोक्षणजन्यसंस्कारत्वेनेत्यर्थः / इति गौरव. मिति / इति हेतोरतिशयोऽनेको वाच्यस्तथा च तस्यानेकस्य कल्पने कारणत्वे चातीव गौरवम् तदपे क्षया परम्परामम्बन्धकल्पब एव लाघवमिति भावः। आपत्तेरिति / कथञ्चित् ब्रीहावेकसंस्कारकभादिपदात् प्रोक्षणादिपरिग्रहः / उपादीयमानत्वादिति / अनेनानुमानेन तथाभूतातिशये सिद्ध यो यदुद्देशेनेत्यादिव्याप्स्या व्रीहितिष्ठत्वसिद्धिः स्यात् /