________________ 132 व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [11 कारिकावतरणिकाया कत्वमिति चेत् . तदेतदभिमन्त्रणादिष्वपि तुल्यम् / तस्माद्भावभूतमतिशयं जन बोधनी। स्यैति / स्वगुणाकृष्टत्वं नाम स्वगुणोत्पादितत्वं विवक्षितं तथा न सिद्धसाधनं पश्वादीनामिच्छाद्यनु. त्पाद्यत्वादित्याशङ्कयाह-मापि-इति / मनो हि नित्यत्वान्न केन विदुत्पाद्यतेऽथ च भोगसाधनमिति तेनानैकान्तिकमिति। तर्हि कार्यत्वे सति भोगसाधनत्वादिति हेतु विशेषयिष्याम इत्यत्राह-मापिइति / अस्माभिरुपलक्षणत्वेनापादिता यागादयो ह्यात्मगुणास्तत्तत् संकल्पप्रयत्नाचात्मकत्वात् तेषा. म् / अतस्तैरेव जन्मान्तरीय रैहिकैर्वा पश्वायुत्पत्तिसिद्धेर्न तदतिरिक्ततज्जन्यापूर्वसिद्धिरिति / ननु चिरविनष्टा यागादयः कथं कालान्तरभाविनः पश्वादेः साधनं यतस्तैः सिद्धसाधनं स्यादित्याहअसताम्-इति / तर्हि अभिमन्त्रणादिष्वपि कालान्तरमाविने फलाय संस्कारमभ्युपगच्छेस्याहतत् इति / उक्तमर्थमुपसंहरन् प्रमाणयति-तस्मात्-इति / प्रध्वंसेन सिद्धसाधनं मा भूदि प्रकाशः। तस्मादिति / यद्यपि पुरुषनिष्ठातिशयेन सिद्धसाधनम् , तथापि व्रीह्यादिगतेति साध्यं विशेषणी. यम् / यो यदुद्देशेनोपादीयते स तत्रातिशयजनक इति व्याप्तेरिति संप्रदायविदः / अस्मपितृचरणास्तु-सोऽतिशयो लाघवात् फलसमानाधिकरण इति व्रीहिनिष्ठ एव / तेम टिप्पणी। मिति भावः / मतिशयेन सिद्धसाधनमिति / अथ विप्रतिपक्षस्य व्रीहिनिष्ठातिशयस्य प्रोक्षणजन्यस्य यथोक्तानुमानासिद्धरुच्यत इत्यादि प्रन्थेन प्रोक्षणजन्यातिशये व्रीहिनिष्ठत्वखण्डनं प्रन्थकृता विरुद्धमित्याशङ्को निरसितुमुपक्रमते। यद्यपित्यादि माहुरित्यम्तेन / न च मन्त्रादीनेवेत्यादितुल्यमित्यन्तमूलमन्थेन प्रोक्षणजन्यसंस्कार एव तर्काभिसन्धिः तदुपकार्यमेव मानं तस्मादित्यादिना दर्शितं तथा च प्रोक्षणेऽतिशयजनकत्वस्यैवासिद्धः कुतःसिद्धसाधनावकाश इति वाच्यम् / अत्रापि सिद्धसाधनपदस्येष्टहानिपरत्वात् व्रीहिनिष्ठातिशयस्यैवेष्टत्वात् / अथ व्रीहिगतत्वस्य सा. भ्यविशेषणत्वे व्रीहीनिष्ठातिशयजनकत्वप्रयोज्यकालान्तरभाविफलजनस्वरूपसाभ्याप्रसिद्धिः / अवघातजनकीभूतक्रियान्तरमादाय कालान्तरभाविसुखाद्यर्थोपादीयमानयागादिकमादाय च व्यभिचारप्रसङ्गः दृष्टान्तासङ्गतिश्चेति चेन्न / यो यदुद्देशेनोपादीयते स तत्रातिशयजनक हति सामान्यव्याप्तौ गृहीतायां प्रोक्षणं व्रीहयाद्युद्देश्यकमिति पक्षधर्माताज्ञानसहकारात् शुद्धातिशयजनकस्वघटितधर्मावच्छिन्ननिरूपितव्याप्तिविशिष्टवैशिष्टयावगाहिज्ञानादेव व्यापकतानवच्छेदकीभूतेन विधेयतानवच्छेदकेन ब्रीहिनिष्ठातिशयजनकताघटितधर्मे विधेयानुमितिरितरबाधादिसहकृतयथोक्तज्ञानजन्यानुतितिवत् इतरबाधादियाँस्तु विशेषः , अत्र व्रीह्यादिदिनिष्ठत्वविषयताया पक्षधर्मज्ञानप्रयोज्यत्वेन विधेयत्वरूपत्वादिति, एवञ्च नोक्तदोषावकाशः / अनुमितेरेववाक्षेपे शुद्धातिशयघटितधर्मावच्छिन्नमतिशये ब्रीहिनिष्ठत्वमित्येवं रीतिकत्वस्वीकारो लाघवज्ञानादिसहकृतप्र. माजन्यविशिष्टवैशिष्टयबोधस्थले विशेषणतावच्छेदकप्रकारकज्ञानस्य विलक्षणकार्यकारणभावस्वी. काराच ब्रीहिनिष्ठत्वविशेषितधर्मावच्छिन्नज्ञानस्य पूर्वमभावेऽपि नाननुमानम् / अत एव विशेध्यविशेषणविशिष्टवैशिष्टयरीतिद्वयेऽपि साध्यघटकातिशये व्रीहिनिष्ठत्वस्य विशेषणाद् व्रीह्यादीत्यादिप्रन्थसङ्गतिः। साध्यतावच्छेदकावच्छिन्नाभाववद् त्तित्वस्यैव व्यभिचारत्वेन साध्यतावच्छेद. कशुद्धातिशयघटितधर्मावच्छिन्नाभावस्य तत्र विरहान व्यभिचारः / दृष्टान्ते साम्यतावच्छेदका. वच्छिन्नस्यैवापेक्षितत्वेन नापि दृष्टान्तासिद्धिरिति विभावनीयम् / सम्प्रदाय इत्वस्वरसूचसहकारित्वात् / अधिकम् = इच्छादितो भित्रमपूर्वमित्यर्थः / उपलक्षणैरिति / अविद्यमानजम्मान्तरीयरित्यर्थः / तैरिति शेषः / तदेतत् असतामुत्पादकत्वम् / मभिमन्त्रणादीति /