________________ प्रथमस्तवके ] . अपूर्वस्य चेतनधमत्वाक्षेपः। 131 कश्चिदिच्छति, मतिप्रसङ्गात् / व्यवहारमात्रन्तु तज्ज्ञानसाध्यं, न तु तत्साध्यम् / तज्ज्ञानमपि स्वकारणाधीनं, न तु तेन निरन्वयध्वस्तेन जन्यते / अस्तु वा तंत्रा प्यतिशयकल्पना किनश्छिन्नम् ! / यद्वा, यागादेरण्युपलक्षणत्वमस्तु तदुपलक्षितः कालो यज्वा वा स्वर्गादि साधयिष्यति, कृतमपूर्वेण / न च देवदत्तस्य स्वगुणाऽऽकृष्टाः शरीरादयो भोगाय, तद्भोगसाधनत्वात् , नगादिवदित्यन्वयिषलादपू. वसिद्ध विशेष इति साम्प्रतम् / इच्छाप्रयत्नशानैयथायोगं सिद्धसाधनात् / न च तद्रहितानामपि भोग इति युक्तिम, येन ततोऽप्यधिकं सिद्धयेत् / नापि स्व• गुणात्पादिता इति साध्याः , मनसाऽनैकान्तिकत्वात् / नापि कार्यत्वे सतीति विशेषणायो हेतु तथालत्युपलक्षणैरेव सिद्धसाधनात् / मसतां तेषां कथमुत्पाद बोधनी। . णत्वमित्यत्राह-व्यवहार-इति / न तावद् गुर्वादिना टोकादौ किञ्चित्कार्य क्रियते किन्तु तदीयत्वेन व्यहारमात्रमेव तत्रास्ति, तदपि तेन न क्रियते किन्तु गुर्वादिज्ञानेन, तजूज्ञानमप्याप्तवादिकारणाधीनं न त्वनुत्पादितव्यापारध्वस्तेन गुर्वादिना जन्यते; प्रत्यक्षज्ञान एव ह्यर्थः कारणं नान्यत्रेति भावः / अथ गुर्वादिनापि टीकादौ तत्तत्कार्यानुगुणः कश्चिदाधीयतामतिशयः,न तेन संस्कारवादिनामस्माकं काचित् क्षतिः. भवतस्तु साध्यविकलो दृष्टान्तः स्यादित्यभिप्रायेणाह-मस्तु वा-इति / यदि वा प्रोक्षणादीनामतिशयमन्तरेणोपलक्षणत्वेन कारणत्वं स्यात् चेत् तदा यागादीनामपि तथावप्रसङ्गादपूर्व दत्तजलाञ्जलि स्यादित्याह-यद्वा-इति / ननूपलक्षणत्वेन यागादीनां फलसाधनत्वोपपत्तावपि प्रमाणबलादेव तत्रापूर्वसिद्धिरित्यत्राह-न च इति / स्रगादयो हि स्वगुणेन प्रयत्नादिना सन्निधापिता भोगाय भवन्ति, तथा पश्वादयोऽप्यपूर्वाख्येन गुणविशेषेण सनिधापिता इत्यपूर्वसिद्धः प्रोक्षणादिभ्यो यागादीनां नाविशेषः। इच्छा-इति / क्वचिद् ज्ञानेच्छाप्रयत्नैः समुदितैरुपगृहीताः पश्वादयो भोगाय भवन्ति / क्वचित् त्वन्यतमेन यथा निदाघतप्तस्य मेघच्छायादयः, न तेन तदतिरिक्तापूर्वसिद्धिरिति / यदीच्छादेर्व्यतिरेकेऽपि भोगः स्यात् ततस्तदतिरिक्त सिध्येत् / न त्वेवमस्तीत्याह-न च-इति। इच्छाभावे भोगत्वमेव न स्यात् , इष्टत्वलक्षणात् सुख. . प्रकाशः। दित्यत आह / तज्ज्ञानमपीति / ननु स्वकारणमपि तदेवेत्यत आह / न त्विति / निरन्वयम्व. स्तेन-अनुत्पादितव्यापारध्वस्तेनेत्यर्थः। तत्रापीति / उपलक्षणाभिमतेऽपीत्यर्थः / स्रगादिस्तनिर्मितो दृष्टान्तः / स्वगुणाकृष्टा इति / स्वगुणसहकारिण इत्यर्थः, स्वगुणोत्पादिता इति वा, आये, इच्छेति / अन्त्यमांशङ्कय निराचष्टे / नापीति ! उपलक्षणैरिति / जन्मान्तरीयज्ञानेच्छाप्रयत्नैरित्यर्थः / सिद्धसाधनपदमत्रेष्टहानिपरम् / यथाश्रुतेऽपसिद्धान्तापातात् / प्रकाशिका। जन्मान्तरीयेति / निरन्वयध्वस्तस्यापि जनकत्वाभ्युपगमादिति भावः। मकरन्दः। जम्मान्तरीयेति / निरन्वयध्वस्तस्यापि जनकत्वाभ्युपगमादिति भावः / टिप्पणी। सिद्धः।उपलक्षणाभिमतेऽपीति / कुरुक्षेत्रादावित्यर्थः। सिद्धसाधनपदमत्रेष्टहानिपरमिति। सिद्धसाधनस्य यथाश्रुतार्थत्वेऽविद्यमानस्योत्पादकत्वस्य सर्वैरस्वीकृततया तस्य सिद्धत्व एव तेन सिद्धसाधनसम्भवेनापसिद्धान्त इति भावः / अपसिद्धान्तप्रसङ्गादिति / तथा चार्थान्तरमित्यादिना / व्यवहारमात्रमित्यादि / तदेतदभिमन्त्रणादिग्वित्यादिप्रन्थदर्शनात् / कुरोः पूर्वमपि तादृशक्षेत्रस्य सद्भावात् तदानीमतादृशत्वेनावश्यं तत्र कुरुजनितातिशयः स्वीकरणीयः। एवमविद्यमानस्य कस्यापि न जनकत्वमिति नियमात् तत्रापि तत्कल्प्यमेवेति दृष्टान्तासङ्गति रित्याह / भस्त वेति / अभ्युपगमे त्वाह / यद्वेति / देवदत्तस्येति / अत्र शरीरं पक्षः, देवदत्तस्वगुणाकृष्ठत्वं साध्यम् / साध्यस्य स्वगुणसहकारित्वार्थकत्वं मन्वान माह इच्छेति / यथाक्रम क्वचिदिच्छायाः क्वचित्प्रयत्नस्य कचिज्ज्ञानस्थ