________________ 130 व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाजलौ [11 कारिकावतरणिकायो . स्यादेतत् / उपलक्षणं प्रोक्षणादयो, न तु विशेषणम् / तथा चाविद्यमाने रपि तैरुपलक्षिता व्रीह्यादयस्तत्र तत्रोपयोक्ष्यन्ते / यथा गुरुणा टीका कुरुणा क्षेत्रमिति चेत् / तदसत् / न हि स्वरूपव्यापारयोरभावेऽपि उपलक्षणस्य कारणत्वं. बोधनी। स्यादेतत्-इति / यदि प्रोक्षणादयो विशेषणं भवेयुस्तदा कार्यान्वयिन एव विशेषणत्वात् कार्यकाले तेषामसत्त्वेन विशेषणत्वायोगाद् विशिष्टस्य कारणत्वं न सिध्येत् / तेषां तुपलक्षणत्वे बुद्धिसन्निहितानामेवेतरव्यवच्छेदेन विशेष्यविषयबुद्धिजननद्वारेण कार्योपयोग इत्यविद्यमानत्वेऽपि न कश्चिद् दोषः / अविद्यमानस्यैवोपलक्षणत्वे तदुपलक्षितस्य कार्यविशेषोपयोगे च दृष्टान्तः-यथाइति / अविद्यमानेनैव हि गुरुणा कुरुणा च प्राभाकरकुरुक्षेत्रत्वोपलक्षिते टीकाक्षेत्रे तेषु कार्यविशे. षेधूपयुज्यते-यथा-इति / तदादति / उपलक्षणत्वे प्रोक्षणादीनो कार्यान्तरोपयोगिनीयुद्देशेन विधानेन तत्कायेऽपि साधनत्वावगमात् कार्योत्पत्ति याक्त् स्वरूपेण वा स्वोत्पादितातिशयद्वारेण वा तेषां सत्त्वमजीकार्यम् / अन्यथातिप्रसङ्गादिति / कथं तसत एव गुर्वादेरुपलक्षणत्वेन कार प्रकाशः। स्वभाव इत्यो सन्नपि न स्वर्गोत्पादक इत्यर्थः / अथ यागध्वंसो न व्यापारः, प्रतियोगिध्वंसयोरेकत्राजनकत्वादुपजीव्ययागकारणत्वभङ्गापत्तेः, प्रत्युत प्रतिबन्धकत्वापत्तिः, कारणीभूताभावप्रतियोगित्वादिति मतम् / तदपि तुल्यमिति भावः / स्यादेतदिति / यथाऽन्यत्रातीतेनाप्युपलक्षणेनोपलक्ष्यव्यावृत्तिबुद्धिस्तथा प्रोक्षणेनापि व्रीहे. रिति तादृशानामेवोपयोगोऽन्यथासिद्ध इत्ययः / न हीति / अन्यत्राप्यतीतेनोपलक्ष्यव्यावृत्तिबोधो. न जन्यते / स्वरूपव्यापारयोरसत्त्वात् / किन्तु तज्ज्ञानेनेत्यर्थः / तर्हि तज्ज्ञानमेव, तजन्यं स्या. प्रकाशिका। यागपदेन चात्र स्वर्गमात्रहेतुक्रिया विवक्षितेति नोक्तदोषः। सा पि च निरन्तरकसन्तानापन्नस्वममात्रजनिका विवक्षितेति नानाजन्मव्यापकस्वर्गजनकापूर्वस्थले न व्यभिचारः / अन्यस्वर्गाधारत्वेनेष्टापत्तिवारणायापाये तदिति / तद्व्यापारजन्येति च तस्यार्थः / दृष्टान्तश्चात्र तज्जन्यै कस्वर्गों त्तरकालस्तव्यापारजन्यद्वितीयस्वर्गकालः टिप्पणी। कार्य्यम् , एवं तत्क्षणस्यापि तादृशकालत्वेन एवं तदुत्तरक्षणस्यापि तथात्वेन तत्र तत्र तदनुरोधेन फलधाराप्रसक्तिरिति भावः / जनितफलव्यापारगर्भा व्याप्तिराशङ्कितुरभिमतेत्यअनितफलकीर्तनादिनाश्यापूर्वे न व्यभिचार इत्यत उत्तरकालीनत्वं कीर्तनविशेषणम् , किञ्चित्फलजननोत्तरकालीनकीर्तने ति तदर्थः / विवादाध्यासितः काल इत्यादि / कालमात्रस्य पक्षत्वे स्वर्गपूर्वकाल आपादकासिद्धिा, स्वर्गकाल इष्टापत्तिरित्यतो विवादाभ्यासित इति कालविशेषणम्, तदर्थश्च तव्यापारजस्वर्गोत्तरत्वे सति तथाभूतस्वर्गाधिकरणत्वमिति / स्वर्गापूर्वे, एवं चैत्रस्य जनितफ लके नष्टेऽजनितफल के तिष्ठत्यपूर्वे, एवं कालान्तरवर्तिस्वर्गापूर्वे एवं जनितस्वर्गकापूर्वनाशकाले एवं तत्रैव स्वर्गान्तरजनकव्यापारकाले, एवं स्वर्गोत्तरं मे राज्यं भूयादिति कामनया कृतप्रयागस्ना. नजन्यापूर्व जनितस्वर्गे व्यभिचारवारणाय क्रमेण सत्यन्तम् / चैत्रीयतद्वयापारजन्यार्थक चैत्रपदम्। स्वर्गपदोत्तरदलं चैत्रीयतव्यापारजन्यार्थकं तत्पदं पूर्वपदस्य स्वर्गमात्रजनकार्थकत्वे तात्पर्य्यप्रा. हक यागपदमुपादेयं स्वर्गान्तरमादायेष्टापतिवारणायापाद्ये तदिति ध्येयम् / तदपि तुल्यमितीति / प्रोक्षणध्वंसेऽपि तुल्यमित्यर्थः / यथान्यत्रातीतेनापीति / अविद्यमानस्य कारणत्वमत्यन्त्यमेवालोकमित्यतो मूलमन्यथा व्याचक्षते यथेति / उपयोगोऽन्यथासिद्ध इति / संसारं विनापि - विद्यमान सत्प्रयोजक विशेषणमेव, उपलक्षणन्त्वविद्यमानमपि प्रयोजकमित्याह / उपलक्षण