SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ प्रथमस्तवके ] . अपूर्वस्य चेतनधर्मत्वाक्षेपः / 129 इति कुतः / अपूर्वस्वाभाव्यादिति चेत्तुल्यमिदमिहापि / तापतापि तत्प्रध्वंसो नविनश्यतीति विशेषः। बोधनी। स्यापि भविष्यतीति शङ्कोत्तराभ्यामाह-अपूर्व-इति। तावता-इति। परिमितफलोत्पादकत्वाभ्युपगमे नामान्तरेणापूर्वमेवाङ्गीकृतं स्यादित्याशङ्कय फलविमाश्यत्वाविनाश्यत्वाभ्यां विशेषोऽस्तीत्याहतावता-इति // प्रकाशः। तस्स्वर्गजनकयागव्यापारवान् स्यात् , तत्स्वर्माधारः स्यादित्यापादनार्थत्वात् / अपूर्वेति / प्रतिनियतकालावच्छिन्नस्वर्गजनकस्वभावत्वादित्यर्थः। तुल्यमिति / तर्हि तवसस्यापि स एव प्रकाशिका। सतीति च सत्यन्तार्थः / अन्यथैकस्मिन्नपूर्व जनितफले चैत्रस्य नष्टे सति चैत्रस्यैव स्वर्गजनकेs. पूर्वान्तरेऽजनिफले तिष्ठति व्यभिचारापत्तेः। अजनितफलेऽपूर्वे नष्टे सति व्यमिचार इत्युत्तरदलम् / स्वर्गान्तरजनकव्यापारान्तरवति स्वर्गपूर्वकाले व्यभिचार इति तदिति / सुखप्राप्त्यनन्तरं मे राज्यं भूयादिति कामनाकृतप्रयागस्नानजन्यापूर्वेण सुखजनने कृते व्यभिचार इति यागेति / मकरन्दः / पूर्वकाले व्यभिचारादाह / तदिति / तथा च फलोपहितयामव्यापारस्थ यावत् सत्त्वं फलोपपादकत्वमिति नियमेन फलानन्त्यापत्तिरिति तात्पर्यम् / अन्यस्वर्गाधारत्वेनेष्ठापत्तिवारणायापाये तदिति / तद्वयापारजन्यस्वर्गाधारः स्यादित्यर्थः / आयस्वर्गोत्तरतत्स्वर्गाधारकालो दृष्टान्तः / टिप्पणी / तप्रत्ययस्य भूतार्थकत्वात् प्रोक्षणध्वंसस्य हेतुतापत्तेरिति / प्रोक्षणध्वंसविशिष्टेऽवघातान्वये तेन सहान्वयव्यतिरेकाभ्यां ध्वंसस्यैव कारणत्वप्रतीतेः। प्रमाणतस्तदर्थमुपादीयमानत्वादिति [पृ.१२५]। अवघातोद्देश्यकप्रमाणमूलकतदर्थोपादानविषयत्वादित्यथः। नन्ववघातार्थप्रोक्षणप्रवृत्तोमलभूतं किं प्रमाणम् ? उच्यते "व्रीहीन् प्रोक्षति" 'व्रीहिनवहन्यात्" इति वाक्यद्वयम् , प्रोक्षिता व्रीह योऽवघाताय. कल्पन्त इति वाक्यशेष एव वा। तथा हि व्यक्तिवचनन्यायेनोकवचनाभ्यां यत्र प्रो. क्षणं तत्रावघाते बोधित एवं वाक्यशेषाच्च प्रोक्षिते तद्बोधिते प्रोक्षणेऽवघातपूर्वत्वावगतौ जनकत्वा. प्रहेऽपि पूर्वस्य तस्यासत्त्वे परोऽवघातः कथमित्यतः प्रोक्षणगोचरावघातार्थ जनानां प्रवृत्तिः प्रमाणमूलिकेति भावः / अवघातासम्भवादिति / अवघातादर्शनादित्यर्थः / नन ध्वंसव्यापार. त्ववादिनामिति / इदन्तु प्रकृतमपेक्ष्य, वस्तुतः सर्वेषामेव यावत्सत्त्वं व्यापारस्य फलोत्पादक. स्वमप्रसिद्धमेवेति बोध्यम् / फलोत्पादकत्वाप्रसिद्धिरिति / तथा च व्यापारस्य यावत्सत्त्वं फलोत्पादकत्वनियमो यदि स्यात् तदैवानन्तफलप्रवाहः प्रसज्येत, तदेव नेति भावः। न च व्या. पारकालस्य फलपूर्वत्वेति / व्यापारस्य यावत्सत्त्वं फलोत्पादकत्वाभावेऽपि यावतो व्यापारकालस्य फलपूर्ववमस्त्येव। न च प्रायशो व्यापारस्ग फलपूर्वक्षणस्थायित्वेन तत्रैव व्यभिचारः फलोत्पत्तिक्षणान्यत्वेन विशेषणीयत्वादित्यनुशयेनाह / व्यापारेत्यादि / फलानन्त्येति / तथा च ध्वंसस्य व्यापारत्वे फलोत्तरकालस्यापि व्यापारकालत्वेन तस्य फलपूर्वत्वरक्षायै तदुत्तरं फलं स्वी. मपूर्वस्वाभाव्यादिति / अत्र स्वभावेत्युपलक्षणम् कालविशेषघटितेश्वरेच्छातोऽपि नियमः स्यादेव। एवं यज्ञानां कालविशेषावच्छिन्नफलान्वयित्वेनेच्छाविषयतया तदिच्छाजन्यत्वमपि निया. मक स्यादेतदुभयमपि ध्वंसपक्षेऽपि तुल्यमेवेति। तुल्यमिति / इदम् स्वभाववर्णनम् / इहापि। ध्वंसव्यापारत्वपक्षेऽपि। तावतापि-फलमुत्पाद्यापि / नविनश्यति-अपूर्व तु विनश्यतीति शेषः / १७न्या०कु०
SR No.004382
Book TitleNyayakusumanjali
Original Sutra AuthorN/A
AuthorPadmaprasad Upadhyay, Dhundiraj Shastri
PublisherChaukhamba Sanskrit Series Office
Publication Year1957
Total Pages610
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy