________________ - 128 व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाजलौ [11 कारिकावतरणिकायो साम्प्रतम्।तेषु चिरध्वस्तेम्वपि कार्योत्पादात् ।नापि प्रध्वंससहायास्ते तथा। एवं हि यागादिप्रध्वंसाएव स्वर्गादीनुत्पादयन्तु, कृतमपूर्वकल्पनया। तेषामनन्तत्वाद. नन्तफलप्रवाहः प्रसज्ज्यत इति चेत् , अपूर्वेऽपि कल्पिते तावानेव फलप्रवाह बोधनी। मापि-इति / तथाकालन्तरकार्यकारिण इत्यर्थः / अतिप्रसङ्गपरिहारमाशं ते-तेषाम्-इति / यागादिप्रध्वंसानामेव फलसाधनत्वे तेषामनन्तत्वेन फलविनाश्यत्वाभावादुत्पन्नेऽपि पुनरपि तत एव फलोत्पादप्रसझेन फलप्रवाहोऽनन्तः स्यात् , तत्र च कर्मान्तरफलोपभोगोऽपवर्गश्च न स्या. ताम् ; अतो यागादिजन्यमपूर्वमवश्यमभ्युपगन्तव्यमिति / तर्हि कल्पितमप्यपूर्व किश्चित् स्वर्गादिसुखमुत्पाद्य नानन्तरमेव नश्यति सहस्रसंवत्सरादिभोगश्रुतेः, तेन परिमितफलप्रवाहस्तदापि न स्यादित्याह-अपूर्व-इति / यदि तु परिमितफलप्रवाहजनकत्वमपूर्वस्य स्वभावः स तर्हि प्रध्वंस प्रकाशः। निराकरोति / नापीति / तेषामिति / ननु ध्वंसव्यापारत्ववादिना व्यापारस्य यावत्सत्त्वं फलोत्पादकत्वाप्रसिद्धिः / न च व्यापारकालस्य फलपूर्वत्वनियमेन फलानन्त्यापत्तिः। उत्तरकालीनकीर्तनादिनाश्यापूर्वे व्यभिचारात् / मैवम् / विवादाध्यासितः कालो यदि चैत्रस्वर्गोत्तरत्वे सति प्रकाशिका। क्षितेऽवघातासंभ वादिति / सिद्धसाधननिरासस्तु पूर्ववदेवेति / ध्वंसव्यापारवादिनामिति / प्रकृतमपेक्ष्य वस्तुतः सर्वेषामेवेदमप्रसिद्धमन्ततो व्यापारोत्पत्तिकाल एव व्यभिचारात् / उत्तर. कालीनकीतनेति / जनितफलव्यापारकालगर्भाव्याप्तिराशङ्कितुरभिमतेत्यजनितफलकीर्तननाश्यापूर्वस्थले न व्यभिचार इत्युत्तरकालीनत्वं कीर्तनविशेषणम् नाश्यापूर्वस्य किञ्चित् फलजननोत्तरकालीनत्वं च तदर्थः / न च व्यापारे भोगेतरनाशकालानाश्त्वमपि विशेषणं किञ्चित्फल जननोत्तरं प्रतिकृत्यापूर्वप्रतिरुद्धकृत्यापूर्वे व्यभिचारात् / न च तत्रापूर्वस्य प्रथमस्य नाश एवेति वाच्यम् / तथा सति प्रतिकृत्यापूर्वेण फलजननापत्तेः / न च सुन्दोपसुन्दन्याय इति वाच्यम् / मानाभावात् / आपाततः सन्देहेऽप्यनैकान्तिकसन्देहाच्च विवादाध्यासित इति / कालमात्रपक्षत्वे चैत्रस्वर्गपूर्वकाल आपादकासिद्धेश्चैत्रस्वर्गाधिकरणकाले च इष्टापत्तिरिति तद्वारणाय प्रथम विशेषणम् तदर्थश्च तव्यापारजन्यचैत्रस्वर्गोत्तरं यथाभूतस्वर्गानधिकरणम् / अजनितस्वर्गव्यापारकाले व्यः भिचार इति सत्यन्तम् , किञ्चित्स्वर्गोत्तरत्वं तत्रापीति सत्यन्ते चैत्रपदं, तद्व्यापारजन्यस्वर्गोत्तरत्वे कीतनादीति / न च शब्दबोधितनाशकानाश्यत्वं विशेषणम् / प्रतिकृत्यापूर्वप्रतिरुद्ध कृत्यापूर्वे व्यभिचारात् / न च तत्र प्रतिरोधो नाशो वेति कथं निर्णय इति वाच्यम् / तथापि सन्दिग्धानकान्तादिति भावः / विवादाध्यासित इति / उभयसिद्धचैत्रस्वर्गाधारकालोत्तरकाल इत्यर्थः / तेन कालमात्रपक्षत्वे स्वर्गकालभाग इष्टापत्तिः। तत्पूर्वकाले सत्यन्तापादकासिद्धिरिति दृषणमलग्नक बोध्यम् / स्वर्गपूर्वकाले व्यभिचारादाह सत्यन्तम् / किञ्चित्स्वर्गोत्तरत्वं तत्रापीत्यतउक्त, चैत्रेति / तद्व्यापारजन्यस्वर्गोत्तरत्वे सतीत्यर्थः / स्वर्गान्तरजनकव्यापारान्तरवति स्वर्ग तेषु मन्त्रादिषु / तथा कार्यविशेषोपयोगिनः। ननु प्रोक्षणादीनां परमापूर्व प्रत्येव हेतुतया तस्य ध्वंसव्यापारकत्वेऽपि परमापूर्वहेतुयागादिक्रियायाः कालान्तरेऽसत्त्वात् फलानन्त्यापत्त्य. सम्भवात् तत्र तदेवास्तु यागस्य ध्वंसव्यापारकत्वे व्यापारमात्रोच्छेद्यस्वर्गादिफलस्यानन्त्यापत्तिः स्यादिति न तत्रतद्वक्तुमुचितमिति क प्रतिवन्धवकाश इति मीमांसकं प्रत्याशङ्कते / तेषामिति / अनन्तेति / न अन्तो ध्वंसो यस्य सोऽनन्तः ध्वंसाप्रतियोगीति यावत् / प्रवाहेऽनन्त त्वश्च प्रागभावव्याप्यध्वंसप्रतियोगित्वम् / मकरन्दः /