________________ प्रथमस्तवके ] . अपूर्वस्य चेतनधर्मस्वाक्षेपः / 127 मेव कार्यविशेषोपयोगः / न च मन्त्रादीनेव सहकारिणःप्राप्य ते कार्यकारिण इति बोधनी। नाधीयेत प्रोक्षितानासेव पुरोडाशादिकार्योपयोगो नान्येषामिति न स्यादप्रोक्षितेभ्यः तेषामविशेषादिति / प्रोक्षणादिस्वरूपसहकृतानामेव कार्योपयोगोऽस्तु, अन्यथादृष्टकल्पनानुपपत्तेरित्याशङ्कयाहन च-इति / सन्तु तर्हि प्रोक्षणादिप्रध्वंसादयः कालान्तरेऽप्यनुवर्तमानाः सहकारिण इत्याशङ्कयाह प्रकाशः। प्रोक्षणविशिष्ट इति तस्य कारणत्वाज्ञानान्न तज्जन्यातिशयकल्पनम् / प्रोक्षिता व्रीहयोऽवघाताय कल्प. न्ते इति वाक्यशेषादिति चेत् / न / तेनाप्यतीतप्रोक्षणे व्रीहाववघातान्वयो बोध्यत इति प्रोक्षणध्वं. सस्य हेतुतापत्तेः / मैवम् / प्रोक्षणमवघातजनकं प्रमाणतस्तदर्थमुपादीयमानत्वाद् व्रीहिवत् / न च हेत्वसिद्धिः / अप्रोक्षितेऽवघातासम्भवादिति भावः / एतावता तज्जन्यव्यापारमात्रसिद्धावपि न संस्कारः सिद्धयति, ध्वंसेनैवोपपत्तेरित्याशङ्कय * प्रकाशिका। नन्विति / तथा च न प्रोक्षणस्यावघातजनकत्वमिति न व्यापारकल्पनेति भावः। प्रमाणत इति / अवघातोद्देश्यकप्रमाणमूलकोपादानविषयत्वादित्यर्थः / ननु प्रमाणमिदमेवान्यद्वा नायः, अन्योन्याश्रयात् / नान्त्यः, तदभावात् , भावे वा तेनैव सिद्धसाधनादिति चेत् / न / “दर्शपौमासाभ्यां यजेत् स्वर्गकाम" इत्यधिकारविधिना निरपेक्षेण तयोः कर्तव्यतायां बोधितायामितिकर्तव्यताकाक्षायां व्रीहीनित्यादिविधिप्रवृत्तिः, तेन चोपस्थितस्वावघातद्वारा प्रोक्षणस्य परमापूर्वजनकत्वबोधनात् संसर्गविधया च जनकत्वमवघातं प्रति प्रोक्षणस्य शब्देन बोधितमिति न तत्प्र. कारकानुमाने सिद्धसाघनमित्याशयात् / वस्तुतो व्यक्तिवचनन्यायेन व्रीहेरवघातकारणत्वे बोध्यमा. नउत्सर्गसहकारेण प्रोक्षणस्य विशेषणत्वं बोध्यत इति प्रोक्षणस्यावघातकारणत्वे प्रमाणं तदुक्तं अप्रो. मकरन्दः। त्वेनातिशयकल्पनमिति भावः ॥प्रमाणत इति // प्रमाणमूलकावघातोद्देश्यकोपादानविषयत्वादि. त्यर्थः / ननु प्रमाणमिदमेव तदुपादान हेतुरन्यद्वा ? / नायः। हेतुज्ञाने सत्येतत्प्रमाणप्रवृत्तिरेतत्प्रमा. णप्रवृत्तौ च तद्धटितहेतुज्ञानमित्यन्योन्याश्रयात् / नापरः। तदसत्त्वात् / सत्त्वे वा तन्न साक्षादुपादा. नहेतुः / प्रवृत्तेख़नजन्यत्वात् / किन्तु प्रोक्षणमवघातजनकमिति ज्ञानद्वारा / तथा च सिद्धसाधन. मिति / अत्र वदन्ति / प्रकरणादिसहकृतवेदस्यैवावघातजनकत्वबोधकत्वमिति / सिद्धान्तानुसारा. देतदुक्तम् / संसर्गविधया च ततस्तद्धेतुत्वावगम इति तत्प्रकारकवुद्ध्यभावान सिद्धसाधनावकाशः / शब्दादेरपि परं प्रति लिङ्गविधया प्रयोगाच्चेति / वस्तुतो व्यक्तिवचनन्यायेनावघाते प्रोक्षितव्रीहेरन्वये प्रोक्षणस्य बाधकं विना विशेषणत्वं, नोपलक्षणत्वमिति / एतदभिप्रायेणाह। अप्रोक्षित इति / टिप्पणी। तथापीत्यर्थः। एकस्य एकस्यैवेत्यर्थः। द्वयं प्रोक्षणावघातौ / सम्पन्नमिति शेषः। तदेव विवृणोति। योति / न तु प्रोक्षणविशिष्टेति / अवघात इति शेषः / तस्य कारणत्वाज्ञानान्न तजन्यातिशयकल्पनमिति। तस्य प्रोक्षणस्येत्यर्थः। प्रोक्षणविशिष्टेऽवघातबोधेऽप्रोक्षितानवघातप्रोक्षितावघाताभ्यामन्वयव्यतिरेकाभ्यां प्रोक्षर्णावघातजनकताज्ञानं स्यात्तदेव नेति भावः। कारणत्वानुपपत्त्यैव त. कल्पनादिति भावः / वाक्यशेषादिति चेन्नेति। शङ्कानिवर्तकं वाक्यं वाक्यशेषः / शङ्का ह्यत्र व्रीहिन् प्रोक्षति व्रीहिनवहन्यादित्यत्र-किं व्रीहिः प्रोक्षितव्यः अवघातोऽपि कर्तव्यः। किंप्रोक्षितव्री. हिरवहन्तव्य इति / अतीतप्रोक्षण इति / प्रोक्षणध्वंसविशिष्ट इत्यर्थः / तेव्रीहयः।