________________ 126 व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [11 कारिकावतरणिकायो दृश्यते हि प्रोक्षणादिना वीह्यादेरभिसंस्कारः / कथमन्यथा कालान्तरे तादृशाना बोधनी। शयशालित्वेनोत्पनाना भोगनियामकानुपपत्तावपि यागादिजन्यातिशयभाजो शरीरादिभूताना तदुपपत्तेस्तेष्वोधीयतामपूर्वप्रोक्षणादिवन्न त्वात्मनीति भावः / आधेयशक्तिसद्भावे प्रमाणमाह / दृश्यते हि-इति / ब्रीहीन प्रोक्षतीति द्वितीयाश्रुत्या प्रोक्षणस्य बीहयः कर्मत्वेनावगम्यन्ते / कियाजन्यफलभागित्वं च कर्मत्वम् / अतः प्रोक्षणादिना व्रीह्यादिषु संस्कारापरनामा शक्तिराधीयतइत्यत्र श्रुतिरेव प्रमाणमिति / तदनुग्राहक तकमाह- कथम्-इति / यदि तद्गतः कश्चिदतिशयो प्रकाशः। तीन्द्रियधर्मजनकं, न वा ? / व्रीहिगुरुत्वजनके तज्जनकत्वं प्रसिद्धम् / तत्राधायक शक्तावाह / दृश्यते होति / ननु व्रीहीन् प्रोक्षतीत्येताबन्मानं श्रूयते, न तु प्रोक्षणस्य संस्काराधायकत्वमपी. त्यत आह / कथमिति। कालान्तरेऽवघातादौ प्रोक्षितस्यैव व्रीहेर्विनियोगो न स्यादित्यवश्यं प्रोक्षणजन्यः संस्कारो व्रीहिनिष्ठः स्थिरोऽभ्युपगन्तव्य इत्यर्थः / नन्ववघातादौ कथं प्रोक्षितस्यैव व्रीहेरन्वयः, व्रीहीन वहन्तीत्यस्य व्रीहिमात्रान्वयेऽप्युपपत्तेः। अथावघाते व्रीहिविशेषाकाङ्क्षायां प्रोक्षितानामेवान्वयो व्यक्तिवचनानां सन्निहितविशेषपरत्वमिति न्यायात् / अन्यथा प्रकरणोपस्थितहाने तदन्योपस्थितिकल्पने च गौरवमिति चेत् / ताकस्य द्वयं यत्र प्रोक्षणं तत्रावघातो, न तु प्रकाशिका। / क्षितम् / अन्यथादृष्टस्यापि स्वरूपसम्बन्धेन व्रीहिनिष्टतया सिद्धसाधनापत्तेः / तटस्थः शङ्कुते / मकरन्दः / व्रीहिनिष्ठत्वाभ्युपगमात् सिद्धसाधनम् / व्रीहिसमवेतेत्यर्थात् / . तटस्थः शङ्कते // नन्विति // प्रोक्षणस्य कालान्तरभाविफलजनकत्वे मानाभावान व्यापार. टिप्पणी। स्कारसाधनस्यार्थन्तरतापत्तेरिति / पश्चाद्विप्रतिपाद्य संस्कारसाधनस्यार्थान्तरत्वं न स्यात् प्रथममिति / प्रोक्षणजन्यत्वेन संस्कारसाधनस्येत्यर्थः / तथा हि सिद्धस्यैव पक्षत्वेन सिद्धेप्रोक्षणाजन्यातीन्द्रियधर्मे व्रोहिसमवेतत्वं विप्रतिपन्नं सत् साधनीयं तत्र प्रोक्षणजन्यत्वेन संस्कारसाधनस्यार्थान्तरत्वं तस्य प्रकृताननुगुणत्वात् , तादृशसंस्कारस्य सिद्धत्वाच, "दृश्यते ही"त्यादि. प्रन्थस्येदानी व्रीहिनिष्ठत्वसाधकत्वे "न चे"त्यादिना प्रन्थेन संस्कारेऽन्यथासिद्धिशङ्कायामप्रयोज. कत्वं स्यात् , द्वितीये तु प्रोक्षणेऽतीन्द्रियघम्मेजनकत्वं विप्रतिपन्नं तत्साधनं न प्रोक्षणजन्यत्वेन सं. स्कारसाधनं विना, तादृशधर्मस्यैवासिद्धत्वे व्रीहिनिष्ठातीन्द्रियधर्मजनकत्वस्य बाधितत्वादित्यालोचनीयम् / प्रोक्षितस्यौव बोहेर्विनियोग इति / प्रोक्षणस्य तदानीमविद्यमानत्वात् तेनातिश. याजननाच प्रोक्षिताप्रोक्षितयोरविशेषादिति भावः / नन्ववघातादौ कथं प्रोक्षितस्यैवेति / वादिनापि प्रोक्षितस्यैवावघातस्वीकारात् तटस्थस्येयं शङ्का / व्रीहिमात्रान्वयेऽप्युपपत्तेरिति / तथा च प्रोक्षणस्यैवाकारणत्वे कुतस्तनिर्वाहायातिशयकल्पनमिति भावः। व्यक्तिवचनानां सन्निहितेति / ननु बहुव्रीहीनवहन्तीत्यत्र व्रीहिपदस्य व्यक्तिवचनत्वमेवेति कुतोऽवधायेंत इति चेद् , आतिपरत्वे बहुवचनवैयादिति / तदन्योपस्थितिकल्पने गौरवमितीति / तथा च प्रोक्षणविशिष्टेऽवघातान्वयेऽसति बाधके उद्देश्यतावच्छेदकविधेययोः प्रयोज्यप्रयोजकभावनियमात प्रोक्षणेऽवघातजनकत्वप्रतीतिसम्भवादिति भावः / तषेकस्य द्वयं यत्र प्रोक्षणमिति / तर्हि दृश्यते अनुमीयते / अन्यथा संस्कारं बिना / तादृशानामेवप्रोक्षितानामेव।