________________ 124 व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाअलौ [10 कारिकाव्याख्यायो प्रकाशः। भिघातजन्यक्रियायो तथा दर्शनात् / उष्णस्पर्शव्यावर्तनायातीन्द्रियेति / तत्त्वं च साक्षात्कारनिया. मकप्रत्यासत्यनाश्रयत्वम् / प्रतिबन्धकाभावनिवारणाय भावभूतेति / उच्यते / अनुमानानां विपक्षबाधकाभावेनाप्रयोजकत्वम् / उभयसिद्धप्रतिबन्धकाभावेनैवोपपत्तेः। न च सहचारदर्शनव्यभिचारादर्शनाभ्यामेव व्याप्तिप्रहः / साध्ये शक्तयतिरिक्तेति विशेषणातेनैव हेतुना तत्सिद्धावेवं तत्तदतिरिक्ततिविशेषणपरम्परातस्तादृशानन्तधर्मसिद्यापत्तेः / न च घट. वत् क्षितिः क्षितिवद्धट इतीश्वरानन्त्यवच्छक्तयानन्त्यम् कायमात्रे नेश्वरत्वेन द्विकर्तृकत्वेन वा कारणता, गौरवात् , किन्तु कर्तृत्वेनेति तदपादकाभावः / प्रतिकूलतकप्रतिघातश्च / शक्तर्भावहेतुत्वे शक्तयनुकूलाप्यन्या शक्तिरेवं तत्तदनुकूलाऽप्यन्याऽन्येत्यनवस्थापातात् / भावभूतेति च व्यर्थम् / न च व्यापके न व्यर्थविशेषणता व्याप्यताप्राहक इव व्यापकताप्राहकेऽपि लाघवस्य सहकारित्वात् / द्वितीयाद्यनुमानेषु बहिरिन्द्रियाप्रत्यक्षत्वमुपाधिः / तुल्ययोगक्षेमत्वेऽपि सन्दिग्धोपाधित्वात् / प्रकाशिका। नन्वतीन्द्रियत्वं साक्षात्काराविषयत्वं लौकिकसाक्षात्काराविषयत्वं वा, भाये न्यायमतेऽप्रसिद्धिः भन्स्ये परमते व्यावाप्रसिद्धिरत आह / तत्वञ्चेति / संयोगादिषड़न्यतमप्रत्यासत्त्यनाश्रयत्वमिस्यर्थः / यद्वा साक्षात्कारपदं विषयजन्यज्ञानपरम् , विशिष्टाभावतया च न व्यर्थविशेषणता, उभयेति / भट्टमतेऽभावस्यातीन्द्रियत्वाभिप्रायेणातीन्द्रियप्रतिबन्धकप्रतियोगिकाभावाभिप्रायेण वा इदमुक्तम् / वस्तुतो भावभूतपदवदतीन्द्रियपदमपि व्यापके गौरवेण त्याज्यमेवेत्यभिप्रा. येणैवेदम् / कारणमात्रपक्षकानुमान उपाधिव्यतिरेकस्य न सत्प्रतिपक्षोत्थापकत्वं भागासिद्धत्वादित्याशयेनाह। द्वितीयादीति। वह्निपक्षकानुमानद्वयसंयोगपक्षकानुमानेष्वित्यर्थः / न च पिण्डीभूत इत्यनुमाने संयोगपक्षकानुमाने च साध्याव्यापकत्वमुपाधेर्गुरुत्वस्थितिस्थापकवति वृक्षादाविति वाच्यम् / उभयत्र कायांनुकूलपदस्य दाहामुकूलार्थकत्वात् / न च तत्र तथा विवक्षायामात्मत्वोपाधेद्वर्थणुके द्रव्यत्वोपाधेरेकत्वादौ सांध्याव्यापकत्वाभिधानं प्रन्थकृतो विरुध्येतेति वाच्यम् / द्वयणुकपदेनोभयत्र वन्हिद्वथणुकस्योक्तत्वात् / तदीयस्पशैकत्वयोश्चावयविमहत्वे . मकरन्दः।। निमित्तकारणकं तत् तदुभयसमानाधिकरणगुणजन्यमित्यत्र तात्पर्यात् / कपालरूपन्तु तत्रासम वायिकारणमिति नोक्तदोषः / नचाजसंयोगाभावेनेश्वरज्ञानादिजन्यसुखादिषु व्यभिचार इति वाच्यम् / मूर्त्तवृत्तित्वस्य कार्यविशेषणत्वाद् घटादावीश्वरसंयोगहेतुत्वस्येष्टत्वात् / अत एव लीलावतीप्रकाशे कण्ठरवेणैव तथोक्तम् अत एव मन्त्रपाठजन्यविषचलनेऽपि व्यभिचारो निरस्तः। अदृष्टा द्वारकत्वेन विशेषणाद्वा, मन्त्रस्याऽऽशुविनाशित्वेनादृष्टद्वारकत्वात् / नचात्र विपक्षबाधकाभावः / अप्रत्यासनस्य जनकत्वेऽतिप्रसङ्गादिति दिक। नन्वतीन्द्रियस्वं यदि साक्षात्काराविषयत्वं तदा अस्मन्मते अप्रसिद्धिः / लौकिकत्वविशेषणे परस्य व्यावाप्रसिद्धिरित्यत आह तत्वञ्चेति / संयोगाद्यन्यतमप्रत्यासत्त्यनाश्रयत्वमित्यर्थः / साक्षात्कारपदं विषयजन्यज्ञानपरम् / साक्षात्कारश्च सनिकर्षविशेषणमिति न व्यर्थविशेषणते त्यन्ये / अतीन्द्रियप्रतियोगिकाभावाभिप्रायेणाह / प्रतिबन्धकेति / भट्टमतेन वा। . प्रथमानुमाने अतीन्द्रियस्यापि पक्षत्वादुपाधिः पक्षाव्यापकविपर्यय इत्यत आह / द्वितीया. टिप्पणी। धनुकूलातीन्द्रियाद्विष्ठद्वयणुकैकत्वतत्स्पर्श निरूपितो यः समवायस्तनिरूकपकत्वस्य स्वस्मिन्नपि सत्त्वात् साध्याव्यापकत्वं बोध्यम् / तेन द्वयणुकस्याद्विष्टत्वेऽपि न क्षतिः / तुल्ययोगक्षेमत्वेऽपी इति / एकसाधकसाध्यत्वेऽपि यथा कारणानि तादृशधर्मवन्ति कार्यत्वात् आत्मददि.