________________ प्रथमस्तवके ]. अपूर्वस्य चेतनधर्मत्वाक्षेपः। 123 प्रकाशः। तो वा वह्निर्दाहजनकदशावृत्तिदाहानुकूलभावभूतधर्मशून्यो, दाहाजनकत्वात् , दाह्यासंयुक्तानिवत् / अत्रानुकूलत्वं न स्थितिस्थापकेनार्थान्तरवारणाय, तत्र तदभावात् , क्रियाया वेगेनादृष्टवदात्मसं. योगेन वोत्पत्तेः, किन्तु तथाभूतो धर्मः सिद्ध्यत्वित्येतदर्थम् , तच्च कारणतदवच्छेदकसाधारणं नि: रुक्तम् / अदृष्ट्वदात्मसंयोगवारणार्थमद्विष्ठेति / न च तज्जनकत्वे मानाभावः, कार्यस्यादृष्टजन्यतया व्यधिकरणगुणजन्यत्वात् / तस्य च तत्समानाधिकरणगुणजन्यत्वव्याप्तत्वात् , स्पर्शवद्वेगवद्रव्या प्रकाशिका। च्छेदकीभूतदाहानुकूलधर्मशून्यतामादाय सिद्धसाधनमिति / दाहजनकदशावृत्तीति / दाहजनकतादशायो वह्निवृत्तीत्यर्थः / तेन शून्यपदात् ध्वंसप्रागभावान्यतरलाभ इति नोक्तदोषः / हेती च वह्नित्वं विशेषणमतो नाकाशादौ दाहाजनके व्यभिचारः / न च तथापि दाहानुपहितवही व्यभिचारः, तत्राप्युष्णस्पर्शप्रागभावसत्त्वात् / न चैवमपि भाविसंयोगान्तरप्रागभावमादाय सिद्धसाधनमिति वाच्यम् / हाहानुकूलकैकदाह्यसंयोगाद्याश्रयवन्हेरेव पक्षत्वात् / न च वह्निकम्मणः संयोग. द्वारा दाहानुकूलत्वमिति तद्ध्वंसमादाय सिद्धसाधनमिति वाच्यम् / दाह्यकर्मजसंयोगाश्रयवन्हेरेव पक्षत्वात् / केचित्तु शून्यपदं कादाचित्काभावपरं उक्तकाभावमादायोक्तदोष इति वृत्तीत्यन्तं विशेषणम् / कर्म च दाहोपधानकाले नास्तीति नोक्तदोष इत्याहुः। प्रतिबन्धकाभावेनार्थान्तरमिति / भावभूतेति / दाहाजनकत्वादिति / तदनुपहितत्वादित्यर्थः / तेन नासिद्धिः / अत्रेति / कार्यानुकूलत्याद्यनुमान इत्यर्थः / तत्रेति / पृथिव्यामेव तदुपगमादिति भावः / न च स्थिति. स्थापकस्य द्रव्यचतुष्टयवृत्तित्वप्रतिपादकगुणभाष्यविरोधः, तस्य वैशेषिकमतानुसारित्वात् , न्यायमते तद्विरोधस्याकिञ्चित्करत्वात् / तस्य चेति / अत्र यत् कार्यस्य व्यधिकरणयद्गुणजन्य तत्कार्यस्य तद्गुणस्य च समानाधिकरणो यो गुणः तज्जन्यमिति व्याप्तिः, तज्जन्यत्वं च तनिमित्तकारणकत्वमतो न कपालरूपजन्य घटरूपे व्यभिचारः / तस्य तत्रासमवायिकारणत्वात् / कार्ये च मूर्त्तवृत्तित्वं विशेषणमतो नेश्वरज्ञानजन्यास्मदादिज्ञाने व्यभिचार इति कश्चित् / तन्न / तथापि घ. टादिरूपे व्यभिचारात् , ईश्वरज्ञानजन्यस्य तस्येश्वरघटसंयोगजन्यत्वात् तथासति क्षणद्वयं घटस्य नीरूपत्वापत्तावपसिद्धान्तात् / तस्मात् कारणत्वं तद्व्यतिरेकप्रयुक्तव्यतिरेकप्रतियोगित्वं विवक्षितमतो नेश्वरज्ञानमादाय व्यभिचार इति तत्त्वम् / अत्र चोभयसमानाधिकरणसंयोगजत्वं व्यापकमतो न द्वित्वमादायार्थान्तरम् / अत एव च गुरुत्वजन्यपतनकियायां व्यभिचारवा. रणाय व्यधिकरणपदम् / न च निमित्तकारणत्वविवक्षयैव तन्निरासः, असमवायिकारणभिन्नत्वं हि प्रकृते निमित्तकारणत्वं तत्र चासमवायिकारणपदेन कारणैकार्थप्रत्यासन्न कारणमात्राभिधानं तावतैव कपालरूपजन्यघटरूपे व्यभिचारावारणादिति / निमित्तकारणपदेन गुरुत्वजन्य. पतने व्यभिचारवारणात् / न चात्र व्याप्तावप्रयोजकत्वम् अप्रत्यासन्नस्याजनकत्वादिति- दिक् / मकरन्दः। णार्थान्त्तरम् / हेत्वसिद्धिबाधयोर्वारणाय / मणीति / वह्नौ तादृशात्यन्ताभावेनार्थान्तरप्रसक्तो नेष्ट. सिद्धिस्तत्रेत्यत आह / वृत्त्यन्तमित्येके / तच्चिन्त्यम् / भावभूतपदेनैव तन्निरासात् / केचित्तु संयोगद्वारा वह्निकर्मणोऽपि दाहानुकूलतया तस्य च पिण्डीभूतवहावभावादोंन्तरवारणाय तदिति / तस्य च संयोगनाश्यत्वेन तदानीमभावादित्याहुः। हेतुः फलोपधानाभाव इति नासिद्धिः। दृष्टान्ते दाह्यसंयोगाभाव उभयसिद्धः / तत्रेति / पृथिव्यामेव तदुपगमादिति भावः। न च 'स्थितिस्था'पकस्तु चतुषु वर्तमान' इति गुणभाष्यविरोध इति वाच्यम् / वैशेषिकमते तथात्वादिति भावः / कार्य्यस्येति / ननु कार्यपदं यदि स्पन्दपरं तदा प्रकृतासङ्गतिः / स्पन्दस्यातथात्वात् / यदि च जन्यमानपरं तदा कपालरूपजन्ये घटरूपे व्यभिचार इति चेन / यत् कार्य यदीयगुण